SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। २९१ इव प्रतिभासभेदाद् भेदः । प्रत्यभिशा त्वभेदाध्यवसायिनी प्रतिभासभेदेन बाध्यमाना लूनपुनर्जा देष्विव भ्रान्तेति न तत्प्रतिपाद्योऽभेदः पारमार्थिकः । न च यत्राऽविच्छिन्नं दर्शनं बहिरर्थमवतरति तत्र प्रतिभासभेदाभावात् कथं पौर्वापर्या(य)भेदावगम इति वक्तव्यम् , यतः प्रतिभासमानतैव पदार्थानां सत्ता । यदाह-"उपलब्धिः सत्ता सा चोपलभ्यमानवस्तुयोग्यता तदाश्रया वा ज्ञानवृत्तिः" । ] इति । तत्र यदि क्षणिकं दर्शनम् तथासति ५ तत्र स्फुटप्रतिभासस्यार्थस्य क्षणभेद एवाऽवभाति न क्षणाभेदावगमः । यतः क्षणिकं दर्शनं स्वकालमर्थमवगन्तुं क्षमम् न कालान्तरपरिष्वक्तम् , तस्य तदानीमभावात् । न हि यदा यन्नास्ति तदा तत् तत्कालमर्थमवगच्छति, सकलातीतपदार्थग्रहणप्रसङ्गात् । अतोऽविच्छिन्नदर्शनेऽपि प्रतिकलमपरापरज्ञानप्रसवैरवगतस्याप्यर्थस्य भेदः । न च दृगेव प्रतिक्षणमपरापरा अर्थवस्त्व(र्थस्त्वमिन्न एवेति वक्तव्यम्, दृग्मेदादेव दृश्यमानस्यार्थस्य भेदसिद्धेः । तथाहि-यदैका दृक् १० स्वकालावधिमर्थसत्तां वेत्ति न तदा परा यदा चारोत्तरकालमर्थमवगमयति न तदा पूर्वेति न तत्प्रतिभार्सितत्वम्-यतो वर्तमानसंविदस्तीति तदुपलभ्यमानतैवास्तु न तु पूर्वगुपलभ्यमा. नता-अतश्चोपलम्भमेदादुपलभ्यमानताभेदः । न च पूर्वाऽपरदर्शनोपलभ्यमानता भिन्नैव उपलभ्यमानं तु रूपमभिन्नम् , यतो यदा पूर्वोपलभ्यमानतायुक्तोऽर्थः प्रतिभाति न तदोत्तरोपलभ्यमानतासङ्गतः, यदा चोत्तरोपलभ्यमानता(त)या परिगतो वेद्यते न तदा पूर्वोपलभ्यमानतयेति कथं पूर्वा५-१५ रोपलम्भोपलभ्यमानस्य रूपस्य न भेदः ? न चोपलभ्यमानताऽतिरिक्तमुपलभ्यमानं रूपमस्ति, तथा ननुभवात् । अतः कथं नोपलभ्यमानतामेदादपि तद्भेदः ? तत् स्थितमविच्छिन्नविशददर्शनपरम्परा. यामपि प्रतिक्षणमर्थभेदः । प्रत्यभिज्ञानात्तत्त्व(नात् त्व)भेदोऽध्यारोप्यमाणो दलितपुनरुदितनखशिखरादिष्विव प्रतिभासभेदेनापाक्रियमाणो न वास्तवः । न चापरापरसंविन्मात्रव्यतिरिक्ताभिन्नामेंनोऽभावे क्रमवत्संवेदनाभावादर्थक्रमस्याप्यभाव इति, यतोऽनेकत्वे सति यथा पूर्वाऽपरयोरपत्ययोः२० क्रमस्तथा दर्शनयोरप्यनेकत्वमस्तीति कथं न क्रमः ? न चानेकत्वं न प्रतीतिविषयः एकत्वप्रतिभासाभावप्रतिभासस्यानेकत्वप्रतिभासरूपत्वात् तस्य च संवेदनसिद्धत्वात् । न च कालमन्तरेण पौर्वापर्याभाादनेकत्वमात्रमवशिष्यत इति कथं क्रम इति वक्तुं युक्तम् , यतो भेदाविशेषेऽपि दृश्यमानस्मर्यमाणतया पौर्वापर्यसद्भावात् क्रमसङ्गतिरविरुद्धैव । यद्वा हेतुसन्निधानाऽसन्निधानाभ्यां क्रमः कार्याणाम् तत्सन्निधानाऽसन्निधानेऽपि हेतुसन्निधानाऽसन्निधानात् इत्यनादिहेतुपरम्परा अतँस्त-२५ त्स्वभावविशेष एव क्रम इति न किञ्चित् कालेन तस्याप्यन्यकालापेक्षे क्रमेऽनवस्था, स्वतः क्रमे पदार्थानामपि स स्वत एव युक्तः। तदेवं क्रमेणोपलभ्यमानमपरापरस्वभावमिति सिद्धः स्वभावभेदः । न च क्षणिकेऽपि संवेदने युगपत पदार्थजातं प्रतिभाति न क्रमेणेति न क्षणभेदः यतोऽनेकक्षणस्थितिः कालाभेदलक्षणं नित्यत्वमुच्यते, न चानेकक्षणस्थितिर्युगपदवभाति, यतो यदैका क्षणस्थितिरवभासते यदि तदैव द्वितीयक्षणस्थितिरपि तद्विविक्ता प्रतिभाति तथासति क्षणद्वयस्य परस्पर-३० विविक्तस्य युगपत् प्रतिभासनात् कथं नित्यतालक्षणः कालाभेदः ? अथ तैव्यव्यतिरिक्ता क्षणान्तरस्थितिः प्रतिभासते, तत्राप्याद्यक्षणस्थितिरूपतया वा द्वितीया प्रतिभाति, यद्वा द्वितीयक्षणस्थितिरूपतया आद्यक्षणस्थितिरिति कल्पनाद्वयम्। तत्राद्य पक्षे प्रथमक्षणस्थितिरेव प्रतिभातीति न पूर्वापरक्षणाभेदः। द्वितीयेऽपि विकल्पे क्षणान्तरस्थितिरेव प्रतिभाति नाद्यक्षणस्थितिप्रतिपत्तिर्भवेत्। अथैकक्ष. णस्थिति वभाति सर्वदास्थितेरवभासनात्:नन्वेकक्षणस्थितिप्रतिपत्त्यभावे कथमनेकक्षणस्थितिस-३५ ङ्गतरूपप्रतिपत्तिरिति क्षणिके दर्शने क्षणावस्थानमेव प्रतिभातीति तदेव सैदनु(दस्तु)न कालान्तरस्थि १ यत्र वि-भां० मां। २-च्छिन्नं च द-वा. वा. हा. वि.। ३ अतो वि-आ. हा० वि०। ४-तिसकलपरा-आ. हा० वि०।-तिकमलपरापरप्रभवरव-वा. वा०। ५-वधिसर्वसत्तां आ. हा. वि०। ६-सित्वम् वा. बा.। -नतामे-आ. हा० वि० ।-नताऽतखोपलम्भमेदादुपलभ्यमानभे-वा. बा०। ८-तापरि-भां० मा० विना। ९-तो विद्य-आ. हा० वि०। १०-परोपलभ्यमानस्य वा० बा० । ११-मानरू-आ० हा०वि०। १२-स्ति यथाऽनुभ-वा० बा० । १३-ज्ञाततत्त्वभेदाध्या-आ. हा० वि० । १४- चापरसं-वा. बा. आ०। १५-स्मनोऽविक्र-मां० मा० विना । १६-चादेकत्व-आ• हा० वि० । १५-तस्तत्सदभा-आ० हा. वि.। १८-तदैव क-हा. वि० । तथैवं क-वा० बा०। १९-क्षणिकेस्य संभां• मां०। २० तद्रव्यति-हा० । तद्रव्यति-वा० बा०। २१-स्थितिरेव-वा० बा• विना। २२--सद न भा. मां । सद न आ. हा० वि० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy