SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। २७७ अथापि स्यात् न बमोऽनादेनोंच्छेदः किन्तु नित्यस्य ब्रह्मणः किमविद्या स्वभावः, आहोस्विद् अन्यथा? न तावत् स्वभावः ब्रह्मणस्तद्विपरीतविद्यास्वभावत्वात्, अर्थान्तरत्वे तस्यास्तत्त्वतः सद्भावे नोच्छेदः द्वैतप्रसङ्गश्च । अथ मतम्-अग्रहणमविद्या; सा कथमर्थान्तरम् ? न चाऽनिवर्त्या सर्वप्रमाणव्यापाराणामग्रहणनिवृत्त्यर्थत्वात्, तदयुक्तम् तत्त्वाऽग्रहणस्वभावा अविद्या तत्त्वग्रहणस्वभावया विद्यया निवर्त्यते; सा तु नित्या ब्रह्मणि, न च ब्रह्मणोऽन्योऽस्ति यस्य तत्त्वाऽग्रहणं ब्रह्मणि प्रयत्न. ५ लभ्यया विद्यया निवर्येत; ब्रह्मणि तु युगपद् ग्रहणाऽग्रहणे विप्रतिषिद्धे अविरोधे वा न विद्यया तत्त्वाऽग्रहणव्यावृत्तिः । यस्य त्वन्यथाग्रहोऽविद्या तस्य ब्रह्मणः तंदतत्स्वभावत्वे उक्तं दूषणम्तत्स्वभावत्वे तद्वदनिवृत्तिः, अर्थान्तरत्वे द्वैतापत्तिः। नित्यप्रबुद्धत्वे च ब्रह्मणः कस्यान्यथात्वग्रह इति वाच्यम् तद्यतिरिक्तस्यान्यस्याऽसत्त्वात्, तस्य च विद्यास्वभावत्वान्न तद्विपरीताऽविद्यास्वभावता विरुद्धधर्मसमावेशायोगात्, अविरोधे विद्यया नाविद्याव्यावृत्तिः। अत्राहः-नाविद्या ब्रह्मणोऽनन्या, नापि तत्त्वान्तरम्, न चैकान्तेनाऽसती ऐवमेव इयमविद्या माया मिथ्याभास इत्युच्यते। वस्तुत्वे तत्त्वाऽन्यत्वविकल्पावसरः, अत्यन्तासत्त्वेऽपि खपुष्पवद् व्यवहारानङ्गम् ; अतोऽनिर्वचनीया सर्वप्रवादिभिश्चैवमेवाभ्युपगन्तव्या। तथाहि-शून्यवादिनो यथादर्शनं सत्त्वे नाऽविद्या, खपुष्पतुल्यत्वे न व्यवहारसाधनम् , सदसत्पक्षस्तु विरोधाघ्रात इत्यनिर्वचनीयाऽविद्या । ज्ञानमात्रवादिनो यथाप्रतिभासज्ञानसद्भावे न बाह्यार्थापहवः घटादेराकारस्य ग्राहका-१५ काराद् विच्छेदेनावभासमानस्यापह्नवायोगात्, अत्यन्तासत्त्वे बहिरवभासाभावात् खपुष्पादेरिव, उभयपक्षस्य चासत्त्वम् विरोधात् । बाह्यार्थवादिनामपि रजतादिभ्रान्तयोऽवभासमानरूपसद्भावानाऽविद्यात्वमश्नुवीरन्, अत्यन्तासत्त्वे न तन्निबन्धनः कश्चिद् व्यवहारः स्यात्, सदसत्पक्षस्तु कृतोत्तरः। तत्रैतत् स्यात्-अवभासमानं रूपं तत्र मा भूत् ग्राहकाकारस्तु सन्ने नासावविद्या, असदेतत् ग्राह्याकारासत्रे च तदवभासोऽपि ग्राहकाकारः सत्यतया न निरूपयितुं शक्यः, न च२० प्रतिभासस्य शून्यः प्रतिभासो नाम कश्चित् । तस्मान्नोऽविद्या सती, नाप्यसती, नाप्युभयरूपा । अत एव निवृत्तिरस्या अदृढस्वभावत्वेन मायामात्रत्वात् अन्यथा दृढस्वरूपत्वेऽवस्थितायाः कथमन्यथास्व(त्वं) स्वभावापरित्यागात् शून्यत्वेऽपि स्वयं निवृत्तत्वात् । एवं च नाद्वैतहानम्, नापि निवर्तनीयाभावः। यच्च कस्यासावविद्येति चोद्यम् तत्र जीवानामिति ब्रूमः; ननु तेषामपि न ब्रह्मणोऽर्थान्त-२५ रता, सत्यम् न परमार्थतः काल्पनिकस्तु भेदस्तेषां ततो न प्रतिषिध्यते, ननु कल्पनापि कस्य मेदिका? न तावद ब्रह्मणः तस्य विद्यास्वभावत्वेन संकलविकल्प्या(ल्पा)तीतत्वात् , नापि जीवानाम् कल्पनायाः प्राक् तेषामसत्त्वात् इतरेतराश्रयप्रसङ्गाच्च-'कल्पनातो जीवविभागः तद्विभागे सति कल्पना' इति। अत्र ब्रह्मवादिनोऽभिदधति-"वस्तुत्वे सत्येष दोषः स्यात् नासिद्धं वस्तु वस्त्वन्तरसिद्धये ३० सामर्थ्यमासादयतीति, मायामात्रे तु नेतरेतराश्रयदोषप्रसङ्गः । नहि मायायाः कथञ्चिदनुपपत्तिः १-त् न च यु-भां० मां । २-वर्तते वा० बा० । ३-वय॑ते वा० बा०। ४-प्रतिषेधे अवा. बा० वि०। ५ तदसतत्-भां० मां. वा. बा. विना । ६-बुद्धस्य च वा० बा० । ७-स्या स-आ. हा० वि० । ८ अविरोधे विद्याव्या-वा. बा। अविरोधे विद्यया विद्यया विद्याव्या-हा० । अविरोधे विद्यया विद्यव्या-आ०। ९ प्रमेयक पृ. १८ प्र. पं०९।१० तथान्य-वा० बा० । ११-वमत्राभ्यु-मां० ।-चमेत्वाभ्यु-वा० बा० । १२ प्र० पृ० पं० १४-१७। १३-व भासा-आ. हा. वि०। १४-कारस-वि० । १५-कारस-वि.। १६ "नासद्रूपा न सद्रूपा माया नैवोभयात्मिका । सदसयामनिर्वाच्या मिथ्याभूता सनातनी"॥ 'सौरादि'वाक्यत्वेन निर्दिष्टोऽयं श्लोक:-साजयप्र. भा० अ० १ सू. २६ पृ० २५५०३ । १५-स्या दृ-वि० हा० ।-स्याऽदृष्ट-वा. बा० । १८ दृष्टस्व-वा० बा०। १९-रूपेऽव-वा. बा। २०-थार्थस्वभा-भा० मा०।-था स्वभा-हा० ।-था स्वं स्वभावात् प-आ० । २१-बां भावा न भां० मां। २२ सकल्पाती-आ. हा० । सङ्कल्पाती-वि०। २३-त् न त्व सिद्धं- आ० ।-त् निसिद्धं वा. बा० ।-त न सिद्धं हा।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy