SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डेअनुपपद्यमानार्थैव हि माया लोके प्रसिद्धा उपपद्यमानार्थत्वे तु यथार्थभावान माया" [ । इति केचित् । अन्ये तु वर्णयन्ति-"अनादित्वात् मायायाः जीवविभागस्य च बीजाङ्करसन्तानयोखि नेतरेतराश्रयदोषप्रसक्तिरत्र । तथा चाहुः-"अनादिरप्रयोजनाऽविद्या, अनादित्वादितरेतराम५ यदोषपरिहारः, निष्प्रयोजनत्वे न भेदप्रपञ्चसंसर्गप्रयोजनपर्यनुयोगावकाशः" [ अतोऽपरैर्यत् प्रेर्यते-“दुःखरूपत्वान्नानुकम्पया प्रवृत्तिः अवाप्तकामत्वान्न क्रीडार्थी" [ इत्येतदपि परिहृतमविद्यात्वेन, यतो नासो प्रयोजनमपेक्ष्य प्रवर्त्तते, नहि गन्धर्वनगरादिविभ्रमा समुद्दिष्टप्रयोजनानां प्रादुर्भवन्ति" [ ]। न च भवतु कल्पनातो जीवविभागः किन्तु तेऽपि तत्त्वतो ब्रह्मतत्त्वादव्यतिरिक्तत्वाद् विशुद्ध१० स्वभाँवा इति तेष्वपि नौऽविद्यावकाशं लभत इति वक्तव्यम्, यतो विशुद्धस्वभावादपि बिम्बात् कल्पनाप्रदर्शितं कृपाणादिषु यत् प्रतिबिम्बं तत्र श्यामतादिरशुद्धिरवकाशं लभत एव । अथ विनमः स इति न दोषः, असदेतत्; जीवात्मस्वप्यस्य तुल्यत्वात्-तेष्वप्यशुद्धिर्विभ्रम एव अन्यथा तेवति विशुद्धिर्दुरापैव स्यात् । अथ मुखात् कृपाणादीनामर्थान्तरत्वे भ्रान्तिहेतुता युक्तैव अत्र पुनर्ब्रह्मन्यतिरिक्तस्यै निमित्तस्याभावात् कथं विभ्रमो युक्त इति, एतदप्यनालोचिताभिधानम्। अनादित्वेन परि. १५ हृतत्वात्। अनादित्वेऽपि चोच्छेदः शक्यत एव विधातुम् यथा भूमेरुपरस्य । अथ तंत्र भूव्यति रिक्तेन संस्कारान्तरेण स्वाभाविकस्यापि तस्य निवृत्तिः, न त्वेकात्मवादिनां तयतिरिक्तः आगन्तुको विलक्षणप्रत्ययोपनिपातः सम्भवति द्वैतापत्तेः । नन्वात्मन एव विद्यास्वभावत्वात् कथमना. द्यविद्याँविलक्षणप्रत्ययोपनिपातो नास्तीति उच्यते, उक्तमत्र तेन तथाभूतेनात्मस्वभावेनाविद्याया विरोधाभावात् विरोधे वा नित्यमुक्तं जगद भवेत् । नहि निवर्त्तकविरोधिसमवधाने विरोधिन: २० कदाचिदपि सम्भवः विरोधाभावप्रसङ्गात् । न चात्मव्यतिरिक्तं विद्यान्तरमागन्तुकैमविद्यानिवृत्ति साधनम् एकात्मवादिनस्तस्यायोगात्। तदुक्तम् "स्वाभाविकीमविद्यां तु नोच्छेत्तुं कश्चिदहति । विलक्षणोपपाते हि नश्येत् स्वाभाविकं क्वचित्" ॥ [ "न त्वेकात्मन्युपेयानां हेतुरस्ति विलक्षणः”।[ २५ परिहृतमेतत्-"जीवानामविद्यासम्बन्धः न परीत्मनः असौ सदा प्रबुद्धो नित्यप्रकाशो नागन्तु कार्थः अन्यथा मुक्त्यवस्थायामपि नाविद्यानिवृत्तिः। यतोऽस्मिन् दर्शने ब्रह्मैव संसरति मुच्यते च अत्रैकमुक्तौ सर्वमुक्तिप्रसङ्गः अभेदात् परमात्मनः, यतस्तस्य भेददर्शनेन संसारः अभेददर्शनेन च मुक्तिः, अत एकस्यैव परमात्मनः परमस्वास्थ्यमापतितम् । तस्मान्न ब्रह्मणः संसारः। जीवात्मान एवाऽनाद्यविद्यायोगिनः संसारिणः कथञ्चिद् विद्योदये विमुच्यन्ते तेषां स्वाभाविकाऽविद्याकलुषीक३० तानां विलक्षणप्रत्ययविद्योदये नाऽविद्यानिवृत्तेरनुपपत्तिः यतो न तेषु स्वाभाविकी विद्यौ अविद्यावत् अतस्तया निवृत्तिः स्वाभाविक्या अप्यविद्यायाः" [ ] इत्येवं केचित् । अन्ये तु "ब्रह्म-जीवात्मनामभेदेऽपि बिम्ब-प्रतिबिम्बवत् विद्याऽविद्याव्यवस्थां वर्णयन्ति । कथं पनः संसारिषु विद्याया आगन्तुक्या: सम्भवः श्रवण-मनन-ध्यानाऽभ्यास-तत्साधनयमनियम-ब्रह्मचर्यादिसाधनत्वात् , तस्य पूर्वमसत्त्वादविद्यावत् । स च श्रवण-मननपूर्वकध्यानाभ्या. १-नार्थे तु भां० मा० । २-स्य वा बी-वि० । ३-नादिप्रयोजनाऽविद्या आ० हा० वि० ।-नादिप्रयोजना च विद्या भां० मा० । ४-श्वसंसप्र-आ० हा०वि०।-श्ववप्र-वा. बा०। ५-मविद्यत्वे-वा. बा० आ० । ६ “नहि द्विचन्द्रालातचक्रगन्धर्वनगरादिविभ्रमाः समुद्दिष्टप्रयोजना भवन्ति"-ब्रह्मसू० अ० २ पा. १ सू० ३३ शाङ्क. भा. भाम० पृ. ४८२ पं. ७ । ७-भाव इति वा० बा० ।-भावादिति भां० मां। ८ नापि वि-आ० हा० वि० । ९-त्मस्वरूप्य-वा० बा० मा०। १०-शुद्धिवि-वा० बा० ।-शद्धर्विहा०।-शुद्धे वि-आ० वि०। ११-त् प्रमाणा-वा० बा० । १२-स्य विपर्ययनि-भां० मा० । १३ भूमेपुरुषस्याथ-भां. मां० । १४ तत्र भूतव्य-वा० बा० । तत्र व्य-आ० हा० वि०। १५ न चैका-मां. मां। १६ न स्वात्म-वा० बा० । १७-द्यालक्षण-वा० बा०। १८ न नि-भां० मा० विना। १९-कवि-आ. डा०वि०। २०-त् उक्तं च वा. बा.। २१ परमात्म-भां० मा० । २२-दये न वि-आ० हा०वि०। २३-द्या वि-आ० हा० वि० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy