SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे ततश्च कः स्व-परपक्षयोर्विशेषः ? तथाहि-न देश-काल-सन्तानाकारैरेकत्वं जगतः प्रतीयते परसरोपलम्भपरिहारेण देशादीनां प्रतिभासनात्, असदेतत् ; अन्योन्यपरिहारेणोपलब्धेरद्वैतवादिनोऽप्र. सिद्धत्वात् । न च परस्परानुप्रवेशोपलब्धिरपि भेदवादिनोऽसिद्धेति वक्तुं शक्यम्, सन्मात्रोपलब्ध सर्वत्र सद्भावेन परस्परानुप्रवेशोपलब्धेरनुप्रसिद्धेः । तथाहि-अस्ति तावदयं प्रतिभासः अत ५एवाद्वैतमस्तु, न ात्र भेदप्रतिभासः, नापि भेदाभेदप्रतिभासः, अपि त्वभेदप्रतिभास एव बहिनी लादेर्भिन्नस्य भिन्नाभिन्नस्य चाऽयोगात् । अथ अभिन्नस्यापि बहिर्नीलादेरयोगः तर्हास्तु ज्योतिर्मा प्रकृतिपरिशुद्धं परमार्थसत् तत्त्वम् । न च नीलादेवहीरूपतया प्रतिभासमानस्यापि असत्त्वे ज्योतित्रिस्यापि परमार्थसंतत्वरूपस्यासत्त्वमस्तु इति वक्तुं शक्यम्, नीलादेर विद्यावेद्यत्वेनाऽतत्त्वरूपव्यवस्थितेः ज्योतिर्मात्रस्य तु विद्यावेद्यत्वेन तद्विपर्ययरूपत्वेनावस्थानात् । तन्न प्रत्यक्षतः कथमपि १० मेदवेदनम्, स्मरणाद् वा उक्तन्यायेन । अथ सामग्री सा तादृशी दर्शन-स्मरणरूपा यतः प्रत्येकावस्थाऽसम्भवि मेदवेदनाख्यं कार्य: मुदयमासादयति, असदेतत्; यतः सामन्यपि कार्यजनने समर्था नात्मस्वरूपप्रादुर्भावे मेदवेदनलक्षणे । न च स्मरण-प्रत्यक्षव्यतिरिक्तमपरं भेदग्रहणम् येन सामग्री तद् जनयेत् । अथ मेदनिश्चयजनने द्वयं व्याप्रियते, तदयुक्तम् ; ग्रहणमन्तरेण निश्चयस्यायोगात् । ग्रहणं (?) च न भेदव्यापारंवत् १५स्मरणसहायं ग्रहणम् कथं ग्रहण एवं व्यापारवद् युक्तम् न च निश्चयस्यापि स्मरणादन्यस्तन्निश्चयः ततो निश्चयात् स्मरणभेदानिश्चय इति न न्यायसङ्गतमेतत् । तस्मान्न पूर्वाऽपरयोर्भेदग्रहणं दर्शन-स्मरणसामग्रीविशेषादपि। न च समानकालप्रतिभासयोर्नील-पीतयोरितरेतराभावग्रहणे भेदग्रहणं सम्भवति अभावप्रमाणस्येतरेतराश्रयत्वेनानवतारात् । तथाहि "गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् । मानसं नास्तिताज्ञानं जायतेऽक्षानपेक्षया ॥" [श्लो० वा० सू० ५ श्लो० २७ अभावप० ] इति तस्य लक्षणम् । न च ग्रहणमन्तरेण प्रतियोगिस्मरणम्, न च प्रतियोगिस्मरणमन्तरेण भेदसाधकाभावप्रमा णावतार इति कथं नेतरेतराश्रयदोषः ? भेदग्राहकप्रत्यक्षाभावेऽनुमानस्यापि न भेदग्राहकत्वेन २५प्रवृत्तिः तस्य प्रत्यक्षपूर्वकत्वात् , अनुमानपूर्वकत्वे इतरेतराश्रयदोषप्रसक्तेः । तन्न कुतश्चित् प्रमाणाद् भेदेसिद्धिः। न च(चा)प्रामाणिका वस्तुव्यवस्था अतिप्रसङ्गात् । न चात्रेदं प्रेरणीयम्-सल्लक्षणमेकं ब्रह्म विद्यास्वभावं चेत् न किञ्चिन्निवय॑म् अवाप्तव्यं वा भवेत् ततश्च तदर्थानि शास्त्राणि प्रवृत्तयश्च तत्प्रयोजना व्यर्थाः स्फुरद्विद्यायाः (१) प्रभावात् द्वितीयस्या अविद्यास्वभावत्वे वा न सत्त्वम् नापि ब्रह्मरूपता, यतो नाऽविद्यास्वभावं ब्रह्म, नापि ३० विद्यास्वभावत्वे शास्त्राणां प्रवृत्तीनां च वैयर्थ्यम् , अविद्याया व्यापारनिवर्त्यत्वात्। न त्व(न्व)विद्या नैव ब्रह्मणोऽन्या तत्त्वतोऽस्ति अतः कथमसौ यत्ननिवर्तनीयस्वरूपा? अत एव तस्यास्तत्त्वतः सद्भावे का स्वरूपं निवर्तयितुं शक्नुयात् ? न चास्माकमेव पुरुषप्रयत्नोऽविद्यानिवर्तको मुमुक्षूणाम् किन्तु सर्वत्र प्रवादेष्वतात्त्विकाऽनाद्यविद्योच्छेदार्थो मुमुक्षुयत्नः। १-हारोप-वि० । २-क्यं तन्मा-वा० बा० विना। ३-लब्धिसि-भा० मां०। ४-सत्व-आ० वि० । ५-द्यत्वेन तद्विप-आ० हा० वि०। ६-तः सा साम-आ. हा० वि०। -मर्थनात्मस्व-आ० ।-मर्थनात्सव-हा० वि०। ८-रस्मर-वा० बा०। ९-त् गृही-भां० मां०। १०-गिनः स्म-भां० मा० । ११-क. त्वेन इत-वा. बा. विना। १२-दसिद्धिः तदा प्रा-भां. मां०। १३ “अथ एकरूपब्रह्मणो विद्यास्वभावत्वे तदर्थानां शास्त्राणां प्रवृत्तीनां च वैयर्थ्यम् निवर्त्य-प्राप्तव्यखभावाभावात् , अविद्याखभावत्वे च असत्यत्वप्रसङ्गः"-प्रमेयक. पृ. १८ प्र. पं०४। १४ स्फुरविद्याया अभावा-भां. मां । स्फुरतिविद्यायाः प्रभावा-आ० वि०। स्फुरतिविद्याया प्रभावा-हा०। अत्र-र्थाः स्युः अविद्याया अभावात् । द्वितीयेऽस्याऽविद्याखभावत्वे वा (च) न सत्त्वम्' इत्ययं पाठः प्रेक्षावद्भिः कलयित्वा विचार्यः। १५-यतो नो वि-भां० मां०। १६ प्रमेयक. पृ. १८ प्र. पं०५-७। १७-त् न च वि-आ० ।-त् तत्ववि-भां• मां । १८-स्यासत्व-वा. बा०। १९ रूपं विनि-भां० मा० । २. सर्वप्र-भां० मां. वा. बा०। २१-त्विकोऽना-वा. बा. विना ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy