SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २७० प्रथमे काण्डेप्रत्यक्षबुद्धस्तथाप्रतिभासाभावात् सर्वज्ञत्वमयुक्तमिति चेत्, परमाणुपारिमाण्डल्यादेरप्यप्रतिभासन समानं संपश्यामः । यदपि 'काल्पनिकः शब्दार्थयोः सम्बन्धः न नियतः' इति, तदप्ययुक्तम् प्रति नियतसङ्केतानुसारिणो नियताच्छब्दात् प्रतिनियतार्थप्रतिपत्तिदर्शनात् । तेन 'न शब्दस्वरूपं नियता. र्थप्रतिपत्तिहेतुः, तस्य सर्वार्थान् प्रत्य विशिष्टत्वात्' इति न वक्तुं युक्तम् नियतसङ्केतसहकृतस्य शब्दस्य ५सर्वार्थान् प्रत्यविशिष्टत्वासिद्धेः । कार्यगम्यं हि वस्तूनां नियतत्वम् अन्यद् वा-यदा च नियतं तत्का पलभ्यते तदा तस्य नियतत्वं व्यवस्थाप्यते, यदा चान्यथा तदाऽन्यथात्वमिति 'कुतः पुनरेतत स्वरूपं शब्दादेः' इति पर्यनुयोगे 'स्वहेतुप्रतिनियमः' इत्युत्तरं न्यायविदः सर्वत्र युक्तियुक्तम् दृष्टानु मितानां नियोग-प्रतिषेधानुपपत्तेः । 'प्रतिपत्तिधर्मस्तु नियमहेतुः काल्पनिक एव स्यात्' इति. एत दप्ययुक्तम् ; अबाधिताकारप्रतिपत्तेस्तात्त्विकार्थधर्मव्यवस्थापकत्वात् , शब्दार्थसम्बन्धप्रतिपत्तेस्त्व. १०बाधितप्रतिपतित्वं साधितमेव; बाधितत्वे वा तत्प्रतिपत्तेस्तत्प्रभवशाब्दज्ञानस्याप्रामाण्यप्रसक्तिविपरीतप्रतिबन्धग्राहिज्ञानप्रभवानुमानाभासँस्यैवम् (स्येव)।तत् सौगतदर्शनमेव ध्यान्ध्यविजृम्भितम् । यदपि 'शब्देभ्यः कल्पना बहिरर्थासंस्पर्शिन्यः प्रसूयन्ते, ताभ्यश्च शब्दाः' इति, तदप्यचारु; शब्दज. नितविकल्पानां बहिरर्थाऽसंस्पर्शित्वासिद्धेः इन्द्रियजज्ञानस्येव तासां तत्प्राप्तिहेतुत्वादिति प्रतिपादि तत्वात् । परसन्तानवर्तितथाभूतविकल्पजनकत्वं तद्विकल्पादृष्टावपि शब्दानां प्रत्येति, न पुनःप्रत्य१५क्षाद्युपलभ्यमानबहिरर्थवाचकत्वमिनि विपरीतप्रज्ञो देवानांप्रियः। न चार्थाभावेऽपि शाब्दप्रतिभा सस्याऽप्रच्युतेर्न शब्दस्य बाह्यार्थवाचकत्वम्, विकल्पेऽप्यस्य समानत्वात्-'विसदृशसङ्केतस्य श्रोतुस्तच्छब्दसद्भावेऽपि तथाभूत विकल्पानुत्पत्तः शब्दाभावेऽपि च कुतश्चित् कारणात् तथाभूत विकल्पप्रतिभासाप्रच्युतेश्च । अथ समानसङ्केतस्य श्रोतुस्ततस्तत् समुत्पद्यत एव, शब्दाभावे तु यद् विकल्पकज्ञानं तादृगवभासं कारणान्तरप्रभवं न प्रच्यवते; तद् अतादृशमेवेत्यतो न व्यभिचारः। नन्वेवं २० तद् बाह्यार्थावभासिशाब्दे प्रतिभासेऽपि समानम्-'यो वर्थाभावेऽपि शाब्दः प्रतिभासः स तत्प्रतिभासमानो न भवति' इत्यादेः प्राक् प्रदर्शितत्वात् । यदपि 'शब्दाद् बाह्यार्थाध्यवसायिज्ञानोत्पत्त्यादितत्प्राप्ति-पर्यवसानव्यवहारसद्भावेऽपि बाह्यार्थासंस्पर्शित्वाद् विकल्पानां न सर्वात्मनाऽर्थग्रहणदोषः' तदप्यसङ्गतम् ; प्रत्यक्षवदर्थसंस्पर्शित्वेऽपि सर्वात्मना अग्रहणस्य प्रतिपादितत्वात् । यदपि 'अप्रतिभासेऽप्यर्थस्य शब्दात् भ्रान्तेः प्रवृत्तिः,' तदप्ययुक्तम् ; भ्रान्ताऽभ्रान्तप्रवृत्त्योर्विशेषसद्भावात्-यत्र २५ह्यर्थप्राप्तिनापजायते प्रवृत्तौ तत्र भ्रान्तिः प्रवृत्तेर्व्यवस्थाप्यते अन्यत्र त्वभ्रान्ति रिति कस्य विज्ञानस्य प्रामाण्यमभ्युपगच्छता नाऽप्रतिभासेऽप्यर्थस्य प्रवृत्त्यादिव्यवहारः कदाचनौप्यभ्युपगन्तुं युक्तः। अंतिबन्धस्तु तदविसंवादे शाब्दस्याप्यर्थप्रतिबन्धनिबन्धनः; तत्र संवादोऽस्तीति प्रत्यक्षवत् तत्र तस्य प्रामाण्यं युक्तम्, न च प्रतिबन्धः परपक्षे सम्भवतीति प्रतिपादयिष्यते, स्वसंवेदनमात्रं च परमार्थसत् तत्त्वरूपं निरस्तप्रतिबन्धादिपदार्थ यथा न संभवति इत्येतदपि प्रतिपादयिष्यते । शेष३० स्वत्र पूर्वपक्षग्रन्थः प्रतिपदमुच्चार्य न प्रतिविहितः ग्रन्थगौरवभयात् दिग्मात्रप्रदर्शनपरत्वाच्च प्रया सस्य । इति स्थितमेतत्-'समयपरमत्थवित्थर' इति ॥ २॥ १ पृ. २३५ पं० २१-पृ० २३६ पं० ११ । २-तार्थाप्र-वा. बा. विना । ३ तेन श-वा. बा.। ४-त्वादिति नि य वक्तुं वा० बा०। ५ पृ. २३६ पं० १३ । ६ अन्यथा वा० बा० विना। -ति तत् कुवि०। ८-त्तरन्याय-वा. बा. विना । ९-तार्या नियो-वा. बा.। १० पृ. २३६ पं० १४ । ११-बाधिकाकार-भां० मा० । १२-त्वं प्रसा-भां० मां०। १३ तत्वेना तत्प्र-आ० हा० वि० । तत्वेनाऽतत्प्र-भां. मा०। १४-नाभ्यास-भां० मां० वा. बा. विना। १५-सत सौ-वा. बा। १६ पृ. २३६ पं० १७ । १७-नस्यैव वा० बा०। १८ तद्विकल्पदृष्टा-वा० बा०। १९-ति प-भां० । २०-च्युते न भां० मा० वा० बा०। २१ विशसङ्केत-आ० हा० वि० । विशब्दसङ्केत-वा. बा०। २२-नुपपत्तेः वा. बा० । २३-कल्पज्ञा-भां० मां०। २४ नन्वेवद् बा (नन्वेतद बा) वा० बा०। २५ शाब्दप्र-भां० मां० वा. बा. विना। २६ पृ. २३७ पं० २। २७ पृ. २३७ पं० ५। २८ वृत्तेर्वि-भां० म० वा. बा० विना । २९-! जा-भां० मां. विना। ३०-वृत्ते व्य-वा. बा. मां०। ३१-नाभ्यु-भां० मां० वा. बा. विना । ३२ प्रतिबन्धास्तु हा० वि० । प्रतिबन्धात् तु भां० मा०। प्रति विषास्तु वा० बा० । ३३-स्वस्वरू-वि० । ३४-प्यमाणम् । शे-भां० मा० वा. बा०। ३५ पृ० १६९ पं०८।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy