SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संवन्धयोर्मीमांसा । २६९ पकशब्दस्य तत्र सामर्थ्याधिगतेः । न च 'यदि शब्देनैवासावर्थः स्वरूपेण प्रतिपाद्यते तदास्य सर्वथा प्रतिन्नत्वात् प्रवृत्तिन स्यात्' इति युक्तम्, प्रत्यक्षेऽप्यस्य दूषणस्य समानत्वात् । तथाहि-प्रत्यक्षे. णापि यदि नीलादिः सर्वात्मना प्रतिपन्नः किमर्थ तत्र प्रवर्तेत? तथापि प्रवृत्ती प्रवृत्तेरविरतिप्रसक्तिः। 'अथाप्रतिपन्नं किञ्चिद् रूपमस्ति यदर्थं प्रवृत्तिः' इत्यादिकमपि प्रत्यक्षेऽपि समानम् । तत्रापि हि शक्यत एवं वक्तुम्-यद्यर्थक्रियार्थ प्रत्यक्षेण प्रतिपन्नेऽपि नीलादिके प्रवर्तते तदा तदेवार्थः ५ अर्थक्रियाक्षमत्वात् न प्रत्यक्षप्रतिभातं नीलादिकम् तस्यार्थक्रियासामर्थ्यरहितत्वात् । अथ तदपि नीलादिकमर्थक्रियाक्षम तथापि तदर्थक्रियार्थी तदादानाय प्रवर्तते, ननु शाब्दप्रतिभासेऽप्येतत् समानमुत्पश्यामः । यदपि 'अथाऽविशदेनाकारेण शब्दास्तमर्थ प्रकाशयन्ति तदाऽसावस्पष्ट आकारो नेन्द्रियगोचरः,' तदप्यसङ्गतम्। तस्येन्द्रियविषयत्वेन प्रतिपादितत्वात् । तत्र प्रवृत्ताः शब्दाः कथं नेन्द्रियगोचरे प्रवृत्ता भवन्ति ? यदपि 'श्रुतं पश्यामि' इत्येकत्वाध्यवसाये दृष्टरूपतया श्रुताध्यवसाये १० दृष्टमेव, श्रुतरूपतया दृष्टस्य ग्रहणे श्रुतमेव, न तयोस्तत्त्वम्' इति, एतच्चित्रपतङ्गेऽपि समानम् । तथाहि-यदि तत्रापि नीलाद्याकारः पीताद्याकारतया गृह्यते चित्रपतङ्गज्ञानेन तदा पीताद्याकार एवासौ न नीलाद्याकारः, अथ नीलाद्याकारतया पीताद्याकारो गृह्यते तदा नीलाद्याकार एवासौ कुतश्चित्र एकः? तथा, तत्प्रतिभासेऽपि ज्ञाने नीलाद्याभासो यदि पीताद्याभासतया संवेद्यते तदा पीताभासमेव तद्ज्ञानं न नीलाद्याभासमित्यादिकल्पनया न चित्रप्रतिभासमेकं ज्ञानम् । तथा,१५ नीलसंवेदनेऽपि प्रतिपरमाण्वेवंकल्पनया नैकं नीलप्रतिभासं ज्ञानम्, विव(वि)क्तस्य च ज्ञानपरमाणोरसंवेदनात् सर्वशून्यतापत्तेः सर्वव्यवहारोच्छेद इति न किञ्चिद् वक्तव्यम् । अथानेकनीलपरमाणुसमूहात्मकमेकत्वेन संवेदनादेकं नीलज्ञानम् तर्हि दृष्ट-श्रुतरूपमवाधितैकत्वप्रतिभासादेकं बहिवस्तु किं नाभ्युपगम्यते ? यथा युगद्भाव्यनेकनीलज्ञानपरमाण्यवभासानां स्वसंवेदेने एकत्वाविरोधस्तथा क्रमेणाऽपि दृष्ट-श्रुतावभासयोरेकत्वेनाविरोधः 'दृष्टं शृणोमि' इति ज्ञानेन भविष्यतीत्येक-२० त्वावभासिना दर्शनशब्दविषयस्यार्थस्यैकत्वं निश्चीयत इति परमार्थत एवं तत् तत्त्वमिति । एतेन 'भिन्नविज्ञानप्रतिभासिनोर्न विशेषणविशेष्यभावः एकविज्ञानप्रतिभासिनोरपि युगपत् स्वातन्येण द्वयोः प्रतिभासनाद् घट-पटयोरिव नासौ युक्तः। तद्रूप्येण प्रतिभासने विशेष्यरूपता विशेषणरूपता वा केवला, द्वयोः प्रतिभासाभावात् न विशेषणविशेष्यभावः क्वचिदपि ज्ञाने प्रतिभाति' इत्येतदपि निरस्तम्। अनेकनीलपरमाणुप्रतिभासज्ञाने तत्स्वसंवेदने वाऽस्य समानत्वात् । न च नीलपरमाणूनां२५ तत्प्रतिभासपरमाणूनां वा परस्परविविक्तानां प्रत्यक्षे स्वसंवेदने च प्रतिभास इति नायं दोषः, तत्र परमाणुपारिमाण्डल्यादेः बहिरन्तश्चाप्रतिभासनात् स्थूलस्यैकस्य संहृतविकल्पावस्थायामपि बहिरन्तश्च वेद्यवेदकाकारविनिर्भासवतःप्रतिभासनात् । परमाणुरूपं बहिरनंशं संवेदनं वा प्रत्यक्षं प्रतिजानानः कथं सर्वज्ञत्वमात्मनो न प्रतिजानीते ? शक्यं हि वक्तुम् संवेदनं संवेद्यं सकलं विषयी. करोति-देश-काल-स्वभावविप्रकृष्टेष्वपि भावेषु संवेदनस्य निरङ्कुशत्वात्-किन्तु कुतश्चिन्निश्चयप्रबो-३० धहेतोर्विकल्पानामियमशक्तिः यतो यथार्थवावं प्रत्यक्षेण विषयीकृतमपि न निश्चिन्वन्तीति । १-गमैन भां० मां० ।-गमनेर्न वा. बा०। २ यदि शाब्दे-मां० । ३-दा तस्य भां० मां० विना । ४-पन्नात् वा. बा०। ५ पृ. २३६ पं० १। ६ नीलतो स-वा० बा०। ७ प्रवर्तते भां० मा० । ८-पन्न किश्चि-आ० मां०। ९ पृ० २३६ पं० २। १०-याभूतमत्वा-भां० मां० विना। ११-भास्येप्येमा०। १२ पृ० २३६ पं० ४। १३ पृ० २६० पं० १९। १४ कथं मिन्द्रिय-वा० बा० विना । 'कथमिन्द्रियगोचरे न प्रवृत्ता- वि० सं०। १५-साये दृष्टरूपताध्यवसायो दृष्टरूपतया श्रुताध्यवसायो दृष्टमेव वा. बा०। १६ दृष्टमिव मां०। १७ पृ० २३५ पं० ७-१०। १८ ज्ञानं नी-भां० मां० वा० बा. विना। १९-समेकज्ञानं-भां० मा० विना ।-समेव ज्ञानं न नीलाद्यं वेदने-वा. बा०। २०-पद्वाध्यनेक-वा० बा० ।-पदाद्यनेक-आ० हा० वि०। २१-दनं वा. बा० । २२-स्तत्रा क-वा. बा। २३-णादृष्ट-भां. मां० वा. बा. विना। २४ ज्ञाने भ-वि०। २५-कत्वभासि-भां० मां० वा. बा. विना । २६-व तत्त्व-भां० मा० वा. बा. विना। २७ तादूपाण्या प्र-वा० बा०। २८-सते आ०। २९ पृ. २३४ पं० २२-३३ । ३० वाऽध्य स-आ० हा० । वाऽध्यव स-वि०। ३१ संहत-भां० मां० । संद्वति न वि-वा. बा०। ३२-बहिरनंशं वेद-आ० हा० वा. बा० ।-बहिरन्तसंवेद-वि.। ३३-दनसंवे-आ. हा। ३४-भाव प्र-भां. मां० विना। ३५-मपि निश्चि-वा. बा।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy