SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २६८ प्रथमे काण्डे सेत्स्यति, अत एवानुमान-शाब्दयोः सामग्रीभेदाद् भेदेऽपि प्रत्यक्षेण सहैकविषयत्वम् अन्यथाअपरस्य प्रतिबन्धग्राहकस्य पराभ्युपगमेनासम्भवात्-तयोरप्रवृत्तिप्रसक्तिः। विकल्पस्य प्रतिबन्धग्राहकत्वे तद्विषयस्याऽवस्तुत्वान्नै केनचित् कार्यकारणभावस्तादात्म्यं वा । न च विकल्पविषययो. दर्शनविषयत्वेन स्थितयोः कार्यकारणभावस्तादात्म्यं वा, विकल्पविषयस्य वस्तुदर्शनबलोद्भूतविक५ल्पप्रदर्शितस्य तद्रूपत्वं तत्त्वतोऽन्यथाभूतस्याप्यारोप्यत इति कृत्वा 'यतो यत्र व्याप्तिग्रहणं न तत्र ताविका प्रतिबन्धः यत्र त्वसी न तत्र प्रतिबन्धग्रहणम्' इत्यनुमानप्रवृत्तिमभ्युपगच्छता प्रत्यक्षविषयत्वं तस्याभ्युपगन्तव्यम् । अनुमानतुल्यविषयत्वं च शाब्दप्रत्ययस्य परेणाप्यभ्युपगम्यत एव तस्य परार्थानुमानत्वाभ्युपगमात् । यदि पुनर्विकल्पप्रतिभासिन्यवस्तुनि सङ्केतः पुनश्च तत्र प्रति पत्तिः कथं वस्तु-तत्सामान्यसङ्केतादस्य विशेषः स्यात् ? विकल्पानामभावविषयत्वैकान्ते तत्त्व१० मिथ्यात्वव्यवस्थितेरनुपपत्तिश्च । अपि च, 'शब्दैर्विकल्पैर्वा यद्यभावः प्रतीयते भावो न प्रतीयेत' इति क्रियाप्रतिषेधान्न किश्चित् कृतं स्यात् । यदि पुनरभिप्रायाऽविसंवादात् सत्यार्थत्वव्यवस्थितिः, कथम् एकं शास्त्रं युक्तं नापरम्' इति व्यवस्था युज्येत विपक्षवादिनामपि स्वाभिप्रायप्रतिपादनाsविसंवादनात्? न चायमेकान्तः-शब्दैवहिरा न प्रतिपाद्यन्ते,' तद्व्यवहारोच्छित्तिप्रसक्तेः। दृश्यन्ते च स्वयमदृष्टेषु नदी-देश-पर्वत-द्वीपादिप्याप्तप्रणीतत्वेनं निश्चितात् तच्छब्दात् तत्त्वप्रतिपर्ति १५ कुर्वाणाः । न च दृष्टेष्वपि विशेषेषु संप्रदायमन्तरेण मणि-मन्त्रौषधादिषु बहुँलं तत्त्वनिर्नी(म)तिः । न च तद्विशेषाऽविनिश्चयेऽपि कथञ्चिन्निर्णीतिर्नोपपद्यते, प्रत्यक्षस्यापि स्वविषयप्रतिपत्तेः कथञ्चिदेव सम्भवात् । तत् असाधारणं वस्तुस्वरूपमविकल्पविषयभूतं परमार्थसत् विकल्पानां प्रत्यक्षपृष्ठभाविनाम् वाच्यविषयाणामन्येषां च सर्वथा निर्विषयत्वं व्यवस्थापयन्न विकल्प एव सौगतः । यतः प्रत्यक्षं स्वलक्षणं विषयलक्षणं वा तत्त्वं न निश्चिनोति विकल्पकं पुनः साकल्येनाऽवस्त्वेव निश्चिनोतीति २० निश्चयक्रियाप्रतिषेधान्न किश्चित् केनचिन्निश्चेयम् अनिश्चितेन चे स्वरूपेण न तत्त्वव्यवस्थति प्रत्यक्ष वच्छाब्दस्याप्युभयात्मकवस्तुनिश्चायकत्वेन प्रामाण्यमभ्युपेयम् । न च प्रत्यक्षे पुरोव्यवस्थितं घटादिकं चक्षुर्जन्ये श्रोत्रप्रभवे शब्दस्वरूपं च प्रतिभाति नॉपरो वाच्यवाचकभावस्तयोरिति वक्तुं युक्तम्, यतो नास्माभिरेकान्ततस्तयोभिन्नो वाच्यवाचकभावोऽभ्युपगम्यते-येन तस्य पृथक् प्रतिभासः स्यात्-किन्तु सङ्केतसव्यपेक्षस्य शब्दस्य वाचकत्वं कथञ्चिदभिन्नो धर्मः तदपेक्षया चार्थस्यापि २५ वाच्यत्वं तथाभूत एव धर्मः; तच्च द्वयमपि शब्दार्थप्रतिभाससमयेक्षयोपशमविशेषाविर्भूते क्वचिज्ज्ञाने प्रतिभासत एव । तथाहि-'इदमस्य वाच्यम्' 'इदं वाऽस्य वाचकम्' इत्युल्लेखंवत् तदाहिविशिष्टेन्द्रियादिसामग्रीप्रभवं ज्ञानमनुभूयत एव सङ्केतसमये । न च "अस्येदं वाचकम्' इति किं प्रतिपादकम् यद्वा कार्यम्, कारणं वा' इति पक्षत्रयोद्भावनं कर्तुं युक्तम्, प्रतिपादकत्वस्य वाचत्वप्रदर्शनात् । 'प्रतिपादकत्वेऽप्यधुनाऽन्यदा वा विशदेन रूपेणेन्द्रियप्रभव एव ज्ञाने तद् वस्तु प्रतिभाति, न शाब्देन ३० शब्दस्य तत्र सामर्थ्यानवधारणात्' इति, एतदप्यसङ्गतम्। विहितोत्तरत्वात्-दूरस्थवृक्षाद्यर्थग्राहिणोऽविशदस्यापि प्रत्यक्षत्वप्रतिपादनात् शाब्दस्यापि तत्प्रतिभासाविशिष्टस्य तत्र प्रामाण्येन तदुत्था १-न-शब्द-भां० मा० । २ प्रतिसम्बन्ध-वि०। ३-न किमचित् वा० बा० ।-न्न किचित् हा० । -न्न किश्चित् आ० वि०। ४-कल्पाविषययोर्द-वा. बा० ।-कल्पां विषयोर्द-भां० ।-कल्पाविषयोदमां० ।-कल्पविषयोर्द- आ० वि०। ५-विक प्र-भां. मां० विना० । ६ परेणाभ्य-भां. मां. वा. बा. विना। ७-षयत्वेकान्ते आ० वा. बा० ।-षयेत्वैकान्ते वि०।-षयेत्वेकान्ते हा०। ८-प्रतिषेधे न भां. मां० । ९-न निश्चिताच्छब्दात्तशब्दात्तच्चप्रति-आ० ।-न निश्चितात्वदात्तत्वप्रति-वा० बा० । १०-हुलं तत्तत्वनि-भां० मा० ।-हुलं तत्तनि-आ० वा. बा०। ११ सौमतः वा० बा०। १२-त्यक्षस्वहा० । १३-लक्षणं वा भां० मां० वा० बा० विना। १४-प्रतिषेधात् किञ्चि-वा० बा०। १५च रूपेण वा० बा०। १६-व स्थिति भां० मां०। १७ नापुरो भां० मां०। १८-यावार्थ- आ. हा. मां० । -यार्थ-वा. बा०। १९ इदं चास्य भां. मां० । इदं वाच्यस्य आ० हा० वि०। २०-खवग्राहि-भां० मां० ।-खवयत् ग्राहि-वा० बा०। २१ सङ्केधानसम-वा० बा०। २२ इति प्रति-भां. मां। २३-रणं चेति भां० मां० वा. बा. वि.। २४ पृ. २३५ पं० ३०। २५-कप्र-आ० वा. बा. विना । २६ न शब्दा (शाब्दे) शब्दस्य वा० बा० । २७ पृ० २३५५० ३१ । २८ पृ. २६४ पं० २७-२९ । २९-ग्राहिणा वि-हा० वि० ।-ग्राहिणाऽवि-आ० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy