SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोर्मीमांसा । २६७ वेऽपि प्रत्यक्षादिना प्रतिपत्तुमशक्तेः प्रामाण्यासिद्धेः । नापि स्वसंवेदनमात्रात्, तस्यापि ग्राह्य-ग्राहकाकारशून्यस्य यथातत्त्वमभ्युपगतस्याननुभूयमानत्वेन स्वत एवाव्यवस्थितत्वात् कुतस्तत्त्वव्यवस्थापकत्वम? अथ प्रतिभासोपेमत्वं सर्वभावानामिति न किञ्चित् तत्त्वमिति न कुतश्चित् तद्वयवस्थाऽस्माभिरभ्युपगम्यते येन तदव्यवस्थालक्षणं दूषणं युक्तं भवेत् , असम्यगेतत् शून्यताया निषेत्स्यमानत्वात् । तस्मात् प्रमाणव्यवहारिणा यदि प्रत्यक्षादिकं प्रमाणमभ्युपगम्यते तदा शब्दोऽपि बहिरर्थे ५ प्रमाणतयाऽभ्युपगन्तव्यः, प्रामाण्य निबन्धनस्य सामान्यविशेषात्मकबाह्यार्थप्रतिवन्धस्य परम्परया तत्रापि सद्भावात् तत्रैव च शब्दाच्चक्षुरादेरिव नियमेन प्रतिपत्ति-प्रवृत्ति-प्राप्तिलक्षणव्यवहारदर्शनात गुणदोषयोश्चोभयत्रापि समानत्वात् । न चास्माभिर्मीमांसकैरिवापौरुषेयः शब्दार्थयोः सम्बन्धोऽभ्युपगम्यते येन 'विकल्पनिर्मितस्य तस्य नृत्यादिक्रियादेरिव कथमपौरुषेयत्वं स्यात? स्वत एव शब्दस्यार्थप्रतिपादनयोग्यतायां सङ्केतादर्शिनोऽपि शब्दादर्थप्रतिपत्तिश्च स्यात् ततोऽनर्थकः सङ्केतः, १० स्वाभाविकसँम्बन्धाभिव्यञ्जकत्वोपयोगकल्पनायां च सङ्केतस्य यथेष्टं शब्दानामर्थेषु सङ्केतो न स्यात्, न ह्यभिव्यञ्जकसन्निधिनियमेनाभिव्यङ्ग्यस्योपलब्धि जनयति प्रदीपादिरिव घटस्य, शब्दाभिव्यक्तिसार्यवत् सम्बन्धाभिव्यक्तिसाङ्कर्यमपि प्रसज्येत, ततश्च सङ्केतात् सम्बन्धाभिव्यक्तिप्रति. नियमाभावात् तद्विवक्षितार्थप्रतिपत्तिनियमस्याप्यभाव इति सर्वस्माद् वाचकात् सर्वस्यार्थस्य प्रतिपत्तिः सकृदेव प्रसज्येत; ततः सङ्केतकरणं विवक्षितार्थप्रतिपत्त्यर्थ न भवेत् , न ह्येकान्त नित्येषु शब्देषु १५ तत्सम्बन्धे वा ताल्वादिव्यापारः सङ्केतो वा कदाचिदभिव्यञ्जकः कदाचिन इति युक्तमुत्पश्यामः, तदर्थस्यापि सामान्यस्य नित्यत्वे तदवस्थः प्रसङ्गः, तत् पुनः सामान्य व्यक्त्या क्वचित् कदाचिद् व्यज्यते न वेति व्यक्ताव्यक्तस्वभावभिन्नं नित्यत्वैकान्तमतिवर्तते, सामान्यानां च सर्वगतत्वे शब्दतत्सम्बन्धवदभिव्यक्तिसार्यमासज्यते, इदमस्यां व्यक्तौ वर्तते नेतरस्याम् इति विशेषाभावात् कुतः समवायिनियमः स्यात्, संस्थानादिव्यतिरिक्तं सामान्यं क्वचिदप्यनुपलभ्यमानं कथं ३ सङ्केतविषयो भवेत् येन तत् तच्छब्दाभिधेयं स्यात्' इत्यादिकमपि दूषणमस्मन्मतानुपाति स्यात् । न च समानासमानपरिणामात्मक व्यक्तीनामानन्त्यात् तिर्यसामान्यस्य चैकस्य सर्वव्यक्तिव्यापिनो व्यक्त्युपलक्षणभूतस्यानभ्युपगमात् तदभ्युपगमेऽपि तद्योगात् तासामानन्त्याविनिवृत्तेर्न सङ्केतस्तासु सम्भवतीति वक्तव्यम् , अतद्रूपपरावृत्ताग्निधूमव्यक्तीनामानन्त्येऽपि यथा प्रतिबन्धः परस्परं निश्ची. यते-अन्यथानुमानोत्थानाभावप्रसक्तेन क्षणिकत्वादितत्त्वव्यवस्था स्यात् अन्यस्य तद्वयवस्थापकस्या-२५ सम्भवात्-तथा यथोक्तव्यक्तीनामानन्त्येऽपि सङ्केतसम्भवो युक्त एव । स च सम्बन्धोऽग्निधूमव्यतीनां प्रत्यक्षेणैव ग्रहीतव्यः परेण, अनुमानेन ग्रहणेऽनवस्थेतरेतराश्रयदोपप्रसङ्गात् । न च दर्शन पृष्ठभाविना विकल्पेन तत्सामर्थ्यबलोद्भतेन स्वव्यापारोत्प्रेक्षाख्यतिरस्कारेण दर्शनव्यापारानुसारिणा लौकिकानां प्रत्यक्षाभिमानविषयत्वेन स्थितेन प्रतिबन्धग्रहणादेरुपपत्तेरनुमानप्रवृत्तिर्भविष्यति; तजनकं वा दर्शनं तथाविधविकल्पे खव्यापारारोपकत्वेन विकल्परूपतामापन्नं पूर्वोक्तकार्यजनकत्वी-३० दनुमानप्रवृत्तिनिमित्तम्, विकल्पस्यैव प्रामाण्यप्रसक्तेः । तथाहि-प्रत्यक्षे निर्विकल्पके सत्यपि यत्रैव यथोक्तो विकल्पस्तत्रैव प्रवृत्त्या दिव्यवहारकर्तृत्वेन तस्य प्रामाण्यं नान्यत्र, अनुमानविकल्पे च प्रत्यक्षाभावेऽपि प्रवृत्त्यादिव्यवहार विधायकत्वेन प्रामाण्यमित्यन्वय-व्यतिरेकाभ्यां विकल्पस्यैव प्रामाण्यमिति प्रत्यक्षाऽनुमानप्रमाणद्वयवादिना व्याप्तिग्राहको विकल्पः प्रत्यक्ष प्रमाणमभ्युपगन्तव्यः। तत्र यथा व्यक्तीनामानन्त्येऽपि प्रत्यक्षतः प्रतिबन्धसिद्धिस्तथा सङ्केतविषयत्वमपि तासां तत एव ३५ १-दनामा-भां० मां०। २-पगत्वं हा०। ३-न्यतया भां० मां० विना। ४-या निषेध्यमा-भां० मा०। ५-माण्यव्य-वि०। ६ तस्यऽनृत्यादि-आ० हा० । तस्याऽवृत्यादि-वि० । तस्य नित्यादि-वा. बा०। ७-सम्बन्धाभिव्यञ्जकसम्बन्धाभिव्यञ्जकत्वोप-भां• मा० । ८-भावात् तद्विवक्षितार्थप्रतिनियमाभावात् तद्विवक्षितार्थप्रतिपत्ति-हा० वि०। ९-स्यार्थप्र-भां० मां० वा. बा. विना। १० सङ्के. ततो वा कदाचिन्नेति आ. हा०वि०। सङ्कततो कदाचिद-वा. बा०। ११-वनिमित्तं नित्य-वि.। १२ शब्दसम्बन्ध-वा० बा० । १३ शब्दवि-भां० मां०। १४-भूतस्यानभ्युपगमेऽपि तद्यो-भां० मां० विना०। १५-बन्धनं प-आ०। १६ सम्बन्धाग्नि-भां० मां०। १७-क्षातिर-वा० बा०। १८-रुत्पत्तेरनु-भां० मा०। १९ स्वपरारोप-आ० हा० वि०। २०-त्वानुमा-भां० मां० विना। २१-वृत्तिनिमितकल्प-वा. बा०। २२ प्रतिसम्बन्ध-भां० मां० वा. बा० विना ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy