SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोर्मीमांसा । २६१ "मति-श्रुतयोर्निबन्धो द्रव्येष्वसर्वपर्यायेषु" [ तत्त्वार्थ० अ० १ सू० २७ ] इति समानविषयत्वमध्यक्ष-शाब्दयोः तत्त्वार्थसूत्रकृता प्रतिपादितम् । यदा च प्रधानोपसर्जनभावेनानेकान्तात्मकं वस्तु प्रमाणविषयस्तदा यत्रैव सङ्केतः प्रत्यक्षविषये स एव सामान्य-विशेषात्मकः शब्दार्थ इति केवलस्वलक्षण-जाति-तद्योग-जातिमत्-पदार्थ-बुद्धितदाकारपेक्षभाविनो दोषा अनास्पदा एव; न ह्येकान्तपक्षभाविदोषाः अनेकान्तवादिनं समाश्लिष्यन्ति । अस्त्यर्थादि-५ शब्दार्थपक्षेष्वपि सामान्य-विशेषैकान्तपक्षसमाश्रयणात् य, दूषणम् तदप्यस्मत्पक्षासङ्गतमेव उक्तन्यायात् । ___ यदपि 'विजातीयव्यावृत्तान्यपदार्थानाश्रित्यानुभवादिक्रमेण यदुत्पन्नं विकल्पकं ज्ञानं तत्र यत् प्रतिभाति ज्ञानात्मभूतं विजातीयव्यावृत्तपदार्थाकारतयाध्यवसितमर्थप्रतिबिम्बकं तत्र 'अन्यापोहः' इति संज्ञा' तत्रापि विजातीयव्यावृत्तपदार्थानुभवद्वारेण शाब्दं विज्ञानं तथाभूतपदार्थाध्यवसाय्यु-१० त्पद्यते इत्यत्राविसंवाद एव, किन्तु तत् तथाभूतपारमार्थिकार्थग्राह्यभ्युपगन्तव्यम् अध्यवसायस्य ग्रहणरूपत्वात् । विजातीयव्यावृत्तेस्तु समानपरिणतिरूपतया वस्तुधर्मत्वेन व्यवस्थापितत्वाद् अन्यापोहशब्दवाच्यताऽपि तत्राऽऽसज्यमाना नास्मन्मतक्षतिमावहति, सङ्केतविशेषसव्यपेक्षस्य तच्छब्दस्य तत्रापि प्रवृत्त्यविरोधात् । यञ्च तत्प्रतिबिम्बकं शब्देन जन्यमानत्वात् तस्य कार्यमेव इति कार्यकारणभाव एव वाच्यवा-१५ चकभावः' तदसङ्गतम् ; शब्दाद् विशिष्टसङ्केतसव्यपेक्षाद् बाह्यार्थप्रतिपत्तेस्तत्पूर्वकप्रवृत्त्यादिव्यवहारस्थापि तत्रैव भावात् स एव बाह्यः शब्दार्थों युक्तः न तु विकल्पप्रतिबिम्बकमात्रम् , शब्दात् तस्य वाच्यतया(याs)प्रतिपत्तेः । तथाभूतशब्दात् तथाभूतपारमार्थिकबाह्यार्थाध्यवसायि ज्ञानमुत्पद्यत इत्यत्राविवाद एव। __ यच्चै 'प्रतिबिम्बस्य मुख्यमन्यापोहत्वं विजातीयव्यावृत्तस्वलक्षणस्यान्यव्यावृत्तेश्चौपचारिकम्'२० इति, तदप्यसङ्गतम्; शब्दवाच्यस्य वस्तुस्वरूपस्य यद्यपोहत्वं तदाऽनन्तधर्मात्मके वस्तुन्युपसर्जनीकृतविशेषस्य पारमार्थिकवस्त्वात्मकसामान्यधर्मकलापस्य शब्दवाच्यत्वात् कथमॆन्यव्यावृ क्षणस्योपचारेणापोहत्वम् ? तुच्छेस्वरूपायाश्च व्यावृत्तेः अन्यव्यावृत्तविकल्पाकारस्य चापोहत्वे सामान्य-सामानाधिकरण्य-विशेषणविशेष्यभावादिव्यवहारश्च सर्व एवाघटमानकः । न च सामान्याभावात् सामान्य-२५ व्यवहारस्याऽघटमानत्वं न दोषायेति वक्तव्यम्, तत्सद्भावस्य प्रसाधितत्वात् । सामानाधिकरण्यव्यवहारश्च धर्मद्वययुक्तस्यैकस्य धर्मिणो बहिर्भूतस्याऽसद्भावादयुक्तः स्यात् । न च बाह्यार्थासंस्पर्शि १ सर्वार्थसिद्धि-राजवार्तिक-श्लोकवार्तिकप्रभृतिषु जैनदिगम्बरसंप्रदायसम्मतेषु तत्त्वार्थसूत्रव्याख्यापुस्तकेषु एतादृशमेव सूत्रमेतत् । श्वेताम्बरीयोपाध्याययशोविजयकृतशास्त्रवार्तासमुच्चयव्याख्यापुस्तकेऽपि अस्य सूत्रस्य एवमेव पाठ इति तु प्रदर्शितम् । जैनश्वेताम्बरसंप्रदायसम्मते सिद्धसेनसूरिकृततत्त्वार्थभाष्यव्याख्यापुस्तके (अम०), यशोविजयोपाध्यायकृततत्त्वार्थभाष्यव्याख्यापुस्तके (अम०) तत्त्वार्थसूत्रपुस्तके (मेसा०) तत्त्वार्थभाष्योपेतपुस्तके च (कल०) सूत्रपाठे 'सर्वदव्येषु' इत्येवमधिकं 'सर्व' पदं दृश्यते। २ यदि च वा० बा०। ३ पृ. १७४ पं० २३। ४-माश्रिष्यन्ति वा० बा०।माश्रयिष्यन्ति आ० हा० वि०। ५ पृ. १७९ पं० १२-पृ० १८२ पं० ६ । ६-माश्रयात् य-आ०।-माश्रयणे यवा० बा०।-माश्रयेण य-भ० मां०। ७ पृ. १८३ पं० ४। ८ पृ० २०२ पं०३-७। प्रमेयक. पृ० १२८ प्र. पं०९। ९-नुभावादि-वा. बा। १०-स्पन्नवि-वा. बा०। ११-वृत्तिप-भां० मा०।-वृतं प-वि०। १२-प्रतिबन्धक वा. बा०। १३ प्रमेयक. पृ० १२८ द्वि. पं. १। १४-साय्युपपद्य-भां• मां। १५-त्रापिसं-वि० । १६-क्षस्य तत्रापि आ० हा०वि० ।-क्षस्य तच्छस्य तत्रापि वा० बा०। १७ पृ. २०३ पं०६। प्रमेयक. पृ. १२८ द्वि०पं०३। १८ तस्य कार्यकारणभाव-आ० हा०वि०। १९ प्रमेयक० पृ. १२८ द्वि. पं. ४ । २० "शब्दात् तस्य वाच्यतयाऽप्रतीतेः"-प्रमेयक. पृ० १२८ द्वि. पं० ५। २१ पृ. २०३ पं० १४। २२-बिम्बकस्य भां० म०। प्रमेयक पृ० १२८ द्वि० ५० ५। २३-तीयव्यावृत्तेश्चौप-आ० हा०वि०। २४ “संबन्धिन्याः" प्रमेयक.टि. पृ० १२८ द्वि. पं. १४ । २५-स्तुत्वस्व-आ. हा० वि० । २६-मन्यथावृत्त-वा. बा. । -मन्यथाव्यावृत्त-आ. हा०वि०मा०।-'मन्यथा व्यावृत्त-' भां० सं०। २७-च्छरू-भां. मां. वा. बा. विना। २८-वात् सामानव्य-वा. बा०।-वात् समानव्य-आ. हा०वि०। २९ नबा-वा० बा।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy