SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २६२ प्रथमे काण्डेविकल्पप्रतिबिम्बकेऽयं युक्तः । अथ धर्मद्वयानुरक्तकर्मिविकल्पेऽप्ययमुपपत्स्यते, अयुक्तमेतद। तथाभूतविकल्पाभ्युपगमे एकान्तवा दिनामनेकाकारैकविकल्पाभ्युपगमादनेकान्तवादप्रसक्तेः ।। चाऽतात्त्विकमनेकत्वमिति नायं दोषः, तथाभ्युपगमे ज्ञानात्मन्यविद्यमानस्यानेकत्वस्य स्वसंवेदनेनापरिच्छेदप्रसक्तेः; वेदने वा स्वसंवेदनस्याप्रत्यक्षत्वप्रसङ्गः। अविद्यमानाकारग्राहित्वेन सदसतो५रेकत्वाऽनेकत्वयोनितादात्म्यविरोधादनात्मभूतं च वैचित्र्यं कथमतदाकारं ज्ञानवेदनं साकारक्षाकवादिनां परिच्छिनत्ति ? परिच्छेदे वा परिच्छेदसत्तायाः सर्वत्राऽविशेषात् सर्वैकवेदनप्रसक्तिः । निराकारविज्ञानाभ्युपगमे च बहिरर्थसिद्धेर्विज्ञानवादानवतारप्रसङ्गः। अथ तदपि साकारमभ्युपगम्यते तदा तत्रापि कथमनेकाकारमेकम् ? अनेकत्व स्याऽतात्त्विकत्वे पुनरपि स एव प्रसङ्गोऽनकस्थाकारी, पारमार्थिकानेकाकारज्ञानाभ्युपगमे स्यात् संवेदनात् तस्य सिद्धिः किन्त्वनेकान्तवादोऽ१० भ्युपगतः स्यात् । अपि च, अनेकत्वस्य वुद्धावप्यतात्त्विकत्वाभ्युपगमेऽन्तर्बहिरविद्यमानस्य तैख वैशद्यावभासिता न स्यात्, अर्थनिराकृतये द्वैरूप्यसाधनं च बुद्धेर्निराकारत्वादसङ्गतमेव स्यात् । अथ पूर्वमर्थ निराकृतये तस्या द्वैरूप्यसाधनम् पश्चादेकस्यानेकत्वायोगात् द्वैरूप्यस्यापि निराकरणाददोषः, असदेतत्; पूर्वमेव द्वैरूप्यप्रतिघातिन्यायोपनिपातसम्भवात् । अथैतद्दोषपरिजिहीर्षया वैचित्र्यं बुद्धिमाश्लिष्यतीत्यभ्युपगम्यते, ननु बहिर्भूतेनाऽर्थेन वैचित्र्यस्य कोऽपराधः कृतः यत् १५ तन्नास्कन्दतीति । अथैकत्व-नानात्वयोर्विरोध एवापराधः, नन्वयं विज्ञानेऽपि समानः। न च वुद्धेर्नीलादिप्रतिभासानामेकयोगक्षेमत्वात् तदेकत्वम्, एकयोगक्षेमत्वेन स्वभावभेदानिरीकरणाद सहभाविनां चित्त-चैत्तानां नानात्वेऽप्येकयोगक्षेमत्वस्य भावात् । अथ चित्तादावभिन्नयोगक्षेमस्य नियमवतोऽभावः असहभाविनां तेषामभिन्नयोगक्षेमत्वस्याभावात् , न; नीलादिप्रतिभासेष्वपि नाना श्रयेषु तस्याभावात् । अभिन्नाश्रयेष्वभिन्नयोगक्षेमनियमसद्भावो नीलादिप्रतिभासेविति चेत्, न; २० सहभाविचित्त-चैत्तेष्वप्यस्य समानत्वात् सहभाविनां तेषां तथैवानुभवात् । सर्वथैकत्वं च नीलादि प्रतिभासानामध्यक्षविरुद्धम् प्रतिभासमेदाद् मेदसिद्धेः। न च भ्रान्तोऽयं भेदप्रतिभासः अबाधि तत्वात् । न चाऽमिन्नयोगक्षेमत्वादिति बाधकम्, अस्याऽसाध्याव्यतिरेकिंणोऽयथोक्तलक्षणत्वात् प्रतीयमानयोश्चैकत्वानेकत्वयोः को विरोधः? न चेयं प्रतीतिर्मिथ्या बाधकाभावात् । न च विरोध एवास्या बाधकः विरोधासिद्धेरितरेतराश्रयत्वात् । तथाहि-अस्याः प्रतीतेर्बाधायां विरोधः २५ सिद्ध्यति, तत्सिद्धौ चातस्तस्या बाधेति परिस्फुटमितरेतराश्रयत्वम् । न च प्रतीतेरन्यदस्ति विरोध साधकमित्यस्तु बहिरेवं सामानाधिकरण्यव्यवहारः, तथैवास्योपलब्धेः। } अथ विकल्पस्यायं विभ्रमः बहिः सामानाधिकरण्यादेरयोगात् नानाफलेयोनीलोत्पलादिशब्द-विकल्पयोरेकस्मिन्नर्थे वृत्तिविरोधात्, धर्म-धर्मिणोरेकान्तभेदाऽभेदयोर्गत्यन्तराभावात्-तयोश्चाव्यतिरेकाभ्युपगमे शब्देन विकल्पेन चैकेन स्वलक्षणस्य विषयीकरणेऽशेषस्वभावाक्षपादपरस्य शब्दादेस्तदेकवृत्तेस्तैद्भिनफ३० लत्वाभावात् तद्भेदे सकृद् ग्रहणस्यावश्यंभावित्वात् तल्लक्षणत्वादभेदस्य अन्यथा गृहीतागृहीतयोर्भेदप्रसक्तेः, धर्म-धर्मिणो दपक्षेऽपि घट-पटादिशब्दवदेकत्रावृत्तेर्भवेदुपाधिद्वारेणैकत्रोपाधिमति शब्दविकल्पयोः प्रवृत्तिः यदि तयोरुपकार्योपकारकभावः स्यात् तदभावे पारतच्यासिद्धेः तयोरुपाध्यु १-धर्मिकल्पे वा० वा.। २-कल्प्येऽप्य-भां० मां०३-मनेकमनेकत्वमिति भां० ।-मनेकमिति वा० बा। ४-सङ्गो वि-भां० मां० विना। ५-रोधना-आ. हा०वि०। ६-भूतं वै-आ० । ७ वा सत्तायाः वा. बा०। ८ सर्वकावे-भां० आ० हा०वि०। ९-दनाप्र-आ०। १०-गमे स्या सं-आ० हा०वि०।-गमे तसंवा० वा०। ११-नान् तस्य भां० मां०। १२-कस्य आ० हा० वि०।-कत्वे कस्य वा०या०। १३-तस्या वै-वा. बा०। १४-तस्याः द्वै-वा० बा०। १५-व्यस्योपरा-आ० हा० वि०। १६-धः, नन्वयं वा० बा०। १५-राक्रमणात् वा० बा० । १८-मभवतो-आ० हा० वि० । १९वात् तन्नी-वि०।-चात् त नी-हा०।-वात्पनी-वा. बा। २०-भागेपुपि वा० बा०।-भासेप्यपि मां-भासेद्यवि आ० । २१-भातेवि-भां० मां० । २२-चित्ताचैतेवा. बा० । २३-णो यथोक्त-भां० मां०। २४-वास्याः बा-भां. मां -वा स्यात् बा-आ.। २५-त्यवस्तु वा. बा०। २६-वहि सा-आ० हा० वि०। २७-हारस्यैवास्योप-वा० बा० । २८-लयो नी-वा. बा. विना । २९-तयोश्च व्य-आ०। ३०-चापक्षेपा-भां० मां -वाक्षवावप-वा. बा०। ३१-पावप-आ• हा. वि०। ३२ शब्दादेक-वा० बा । ३३-स्तद्भिनाफलभावात् वा० बा०। ३४ तद्भद स-भां• मा० विना । ३५-धर्मिणो पक्षेपि वा. बा.। ३६ यदेत-आ.। ३७ तदाभावे मा०। ३८-तमयसि-वा० बा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy