SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २६० प्रथमे काण्डे - क्षस्यापि कचिद् विसंवादात् सर्वत्राप्रामाण्यप्रसक्तिः । न चास्पष्टावभासित्वांत् भूतादेरवस्तुत्वम्, अध्यक्षविषयस्यापि कस्यचित् तथाभावेनावस्तुत्वप्रसक्तेः । तेन सामान्यस्यावस्तुत्वम् । अभ्युपगमवादेन च नित्यसामान्यपक्षभाविदोष परिहारः कृतः, परमार्थतस्तु नैकान्ततः किञ्चिद् वस्तु नित्यमनित्यं वा, बहि: नव-पुराणाद्यनेकक्रमभाविपर्यायाक्रान्तस्य समानाऽसमानपरिणामा५त्मकस्यैकस्य घटादेः अन्तश्च हर्ष - विषादाद्यनेकविवर्त्तात्मकस्य चैतन्यस्याबाधितप्रतीतिविषयस्य व्यवस्थितत्वात् । तैन्नैकान्ततः क्षणिकत्वं व्यक्तीनामिति सङ्केतव्यवहारकालव्यापकत्वस्य भावान तत्र शब्दसैङ्केतासम्भवः नापि सङ्केतवैयर्थ्यम् । अत एव 'उत्पन्नाऽनुत्पन्नेषु स्वलक्षणेषु शब्दसङ्केतस्याशक्यक्रियत्वात् स्वलक्षणस्य (स्या) वाच्यत्वम्' इति यदुक्तं तद् निरस्तम् । 'यो यत्कृते प्रत्ययेन प्रतिभासते' इत्यादिप्रयोगे 'न प्रतिभासते च शाब्दे प्रत्यये स्वलक्षणम्' १० इत्यसिद्धो हेतुः स्वलक्षणप्रतिभासस्य शाब्दे प्रत्यये व्यवस्थापितत्वात् दूरव्यवस्थितपादपग्राह्यध्यक्षप्रत्यय इवास्पष्टप्रतिभासेऽपि । अत एव - १५ तथा "अन्यदेवेन्द्रियग्राह्यं अन्यच्छब्दस्य गोचरः । शब्दात् प्रत्येति भिन्नाक्षो न तु प्रत्यक्षमीक्षते " ॥ [ "अन्यथैवाग्निसम्बन्धाद् दाहं दग्धोऽभिमन्यते । अन्यथा दाहशब्देन दाहार्थः सम्प्रतीयते” ॥ "शब्देनाव्यापृताक्षस्य बुद्धावप्रतिभासनात् । अर्थस्य दृष्टाविव तदनिर्देशस्य वेदकम्" ॥ [ ] ] इत्यादि शब्दबुद्धावस्पष्टप्रतिभासमुपलभ्य यदुच्यते परेण तन्निरस्तम्, प्रत्यक्षबुद्धावप्यस्पष्टस्वलक्षण२० प्रतिभासस्य प्रतिपादितत्वात् । यत्र हि विशेषोपसर्जनसामान्यप्रतिभासो ज्ञाने तद् अस्पष्टं व्यवहियते, यत्र च सामान्योपसर्जन विशेषप्रतिभासः सामग्रीविशेषांत् तदस्प (तत् स्प) ष्टमुच्यते । सामान्यविशेषात्मकत्वं च वस्तुनः प्रतिपादितम् प्रतिपादयिष्यते च यथावसरम् । तेन 'न चैकवस्तुनो रूपद्वयमस्ति, एकस्य द्वित्वविरोधात्' इत्यादि असङ्गतमेव । न चाशेषविशेषाध्यासितवस्तुप्रतिभासविकल्प( कल ) स्य शाब्दप्रत्ययस्यान्यथाभूते वस्तुन्यन्यथाभूतावभासित्वेन प्रवृत्तेर्भ्रान्तित्वम्, प्रत्यक्षस्यापि २५ तथाऽवभासित्वेन भ्रान्तत्वप्रसक्तेः; न ह्यस्मदादिप्रत्यक्षे क्षणिक-नैरात्म्याद्यशेषधर्माध्यासितसंख्योपेतघटाद्याकारपरिणतसमस्त परमाणु प्रतिभासः तथैवानिश्चयात् । अंत एव १-त्वात् कृतादे-वा० बा० । २ तत्र सा-भां० मां० विना । ३ - मार्थस्तु भां० मां० विना । ४ तत्रैकान्ततः क्षणिकत्व व्य-भां०] मां० । ५- सङ्केता नापि आ० हा ० वि० । ६ पृ० १७६ पं० ११।७ पृ० १७७ पं० ११।८ अन्यशब्द - भां०] मां० वा० बा० विना । ९ पृ० १७७ पं० ६ । अनेकान्तज० पृ० ४५ द्वि० पं० ४ अम० । आचार्यहरिभद्रेणायं श्लोक एवं व्याख्यातः - " 'अन्यदेव' इत्यादि, प्रत्यक्षमिति योगः, अन्यदेव स्वलक्षणमिन्द्रियग्राह्यम् अन्यत् सामान्यलक्षणं शब्दस्य गोचरः, कथमेतदेवम् ? इत्याह- ' शब्दात् प्रत्येति भिन्नाशः " सामान्यलक्षणाध्यवसायेन 'न तु प्रत्यक्षमीक्षते' वस्तु । अनेकान्तज० टी० लि० प्र० पृ० ६० द्वि० पं० ७ तथा अनेकान्तज० टी० पृ० १७१ पं० २७। शास्त्रवा • स्त० ११ श्लो० २३ । तत्र चोपाध्याययशोविजयेनाऽपि व्याख्यातोऽयं श्लोकः । न्यायकुमुद० लि० प्र० पृ० २८० द्वि० पं० १२ । १० पृ० १७७ पं० ९ तथा ३३-३४ । अनेकान्तज० पृ० ४५ द्वि० पं० ४ अम० । व्याख्या चास्यैवम् -"'अन्यथा दाहसम्बन्धात्' स्वलक्षणानुभवेन 'दाहं दग्धोऽभिमन्यते' पुमान् 'अन्यथा दाहशब्देन ' सामान्यलक्षणाध्यवसायेन 'दाहार्थः संप्रतीयते' अनेकान्तज० टी० लि० प्र० पृ० ६० द्वि० पं० ८ शास्त्रवा० स्त० ११ श्लो० २४ व्याख्याऽप्यस्य यशोविजयकृता द्रष्टव्या । न्यायकुमुद० लि० प्र० पृ० २८० द्वि० पं० १२ । ११ पण्डितरत्नकीर्तिना खापोह सिद्धिप्रकरणे 'यच्छास्त्रम्' इति निर्दिश्य समुद्धृतोऽयं श्लोकः पादत्रिकप्रमाणः-अपोहसि० पृ० ६ पं० १६ । १२ व्यावृताक्षस्य हा० । व्यावृत्ताक्षस्य आ० वि० । “व्यापृताख्यस्य” अपोहसि० । १३ - षात् त ष्ट - वा० बा० । षाध्यासितवस्तुप्रतिभासवैकल्यादप्यस्य तथात्वमाशङ्कनीयम्, प्रत्यक्षेऽपि प्र० पं० १३ । - ' विकलस्य' वि० सं० १६ - भ्रान्तित्वं-आ० । १७ भ्रान्तित्व-आ० । भां० मां० वा० बा० विना । १९ एतदेव अक्षरशः शास्त्रवा० स्याद्वादक० पृ० ४१४ द्वि० पं० १ । १४ पृ० १७७ पं० १५ । १५ " न चाशेषविशेतथात्वप्रसक्तेः " - शास्त्र वा ० स्याद्वादक० पृ० ४१४ १८ क्षणिके नैरा
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy