________________
शब्दार्थ-तत्संबन्धयोर्मीमांसा ।
२५९ विवेकात् ते तद्विषया न सम्भवन्तीति चेत्, दृश्यमपि स्पष्टाकार प्रतिक्षिपन् विकल्पेषु प्रतीत्यपलापित्वादयमुपेक्षामर्हतीति न भिन्नानामेकज्ञानोपकारशक्तिरेकसामान्योपकारशक्तिवदभ्युपगन्तुं युक्ता, न वा व्यक्तीनां सामान्योपकारशक्तिः सामान्यस्याऽनाधेयातिशयत्वात। कथं तर्हि तस्य तत्रापेक्षा इति चेत्, क्षणवत् तदेककार्यकारित्वेन; इति कथमेकसामान्योपकारबलात् सामान्यज्ञानोपकारकसामान्यवादी व्यक्तीनां साधयेत् व्यक्तिकार्यत्वं वा सामान्यस्येति ज्ञानलक्षणकार्य-५ कारिणः सामान्यस्य नावस्तुत्वम् । न वाऽभिधेयत्वात् सामान्यस्यावस्तुत्वम्, अस्य हेतोर्विपक्षाद् व्यावृत्त्यसिद्धेः । अथ वस्तुनोऽभिधेयत्वे साक्षाच्छंब्दादेव वस्तुनो ज्ञानादिन्द्रियसंहतेर्वैफल्यं स्यात्, न चैवम् , अतो विपक्षाद् व्यावृत्तिसिद्धिः प्रकृतहेतोः, असदेतत् ; शब्दाद् वस्तुनोऽस्पष्टाकारप्रतीतस्य स्पष्टाकारप्रतीत्यर्थमिन्द्रियसंहतिरुपजायते इति कथमिन्द्रियसंहतेवैफल्यम् यतो वस्तुनोऽनभिधेयत्वं सिद्ध्येत् ? एकस्यापि वस्तुनः स्पष्टास्पष्टप्रतिभासभेदः सामग्रीभेदात् दूरासन्नादिभेदेन स्पष्टा-१० स्पष्टप्रतिभासादिभेदवत् । एकस्मिन् वृक्षादिस्वलक्षणे स्पष्टेऽस्पष्टावभासिनोऽपि शाब्दज्ञानस्य काचा. भ्रकादिव्यवहितवस्तुप्रतिभासिज्ञानवत् दूरस्थवृक्षादिदर्शनवद् वा न भ्रान्तत्वम् । निदर्शनज्ञानस्यापि भ्रान्तत्वे प्रमाणद्वयानन्तर्भूतस्यास्यााँतवस्तुप्रकोश-संवादाभ्यां प्रमाणान्तरभावः स्यात् । न वा स्पष्टवक्षादिप्रतिभासस्य-- __ "ममैवं प्रतिभासो यो न संस्थानवर्जितः (?)।
एवंमन्यत्र दृष्टत्वादनुमान तथा सति” ॥ [ इत्येवमनुमानेऽन्तर्भावान्न प्रमाणान्तरत्वम् अनुमानस्य च स्वप्रतिभासिन्यनर्थेऽर्थाध्यवसायेन प्रवृत्ते
न्तत्वम् भ्रान्तस्यापि च तस्य पारम्पर्येण वस्तुप्रतिबन्धात् प्रामाण्यमिति वक्तव्यम् , निर्विकल्पकज्ञानप्रतिक्षेपप्रस्तावेनाऽस्य विचारयिष्यमाणत्वात् । न चासद्भूत-भविष्यतोरपि सामान्य निबन्धनशब्दप्रवृत्तेः सामान्यस्यावस्तुधर्मत्वेनावस्तुत्वम्, भूत-भविष्यत्कालसम्बन्धितया तयोर्भावात् । न २० चेदानीं तयोरभावावस्तुत्वम्, स्वज्ञानकालेऽध्यक्षविषयस्याप्यसम्भवादवस्तुत्वप्रसक्तेः। अथ यदि नामातीताऽनागतयोस्तत्कालसम्बन्धितया भावाद वस्तुत्वम् तथापि कथं कालविप्रकृष्टस्यातीतादेरसम्बन्धात् ध्वनिर्गमको भवेत् ? न; पारम्पZणातीतादिना तद्दर्शनद्वारायातस्य शब्दस्य प्रतिबन्धाद व्याप्तिग्रहणायाऽतीतादिविषयानुमानस्येव । न चैवमतिप्रसङ्गः, अनुमानेऽपि प्रसङ्गात् 'आसीदग्निः' इत्यादिश्रुतेः । अविसंवादोऽपि विशिष्टभस्मादिकार्यदर्शनोत्पन्नानुमानप्रवृत्तिलक्षणः२५ कैचिदस्त्येव, अनागतार्थविषये नु (तु) वाक्ये चन्द्रग्रहणोपदेशादौ प्रत्याप्रमाणे(प्रमाण)प्रवृत्तिलक्षणोऽनुभूयत एव, 'अभूद् राजा श्रीहर्षादिः' 'भविष्यति शङ्खश्चक्रवर्ती' इत्यादिश्रुतेर्न प्रतिबन्धाभाँवोऽविसंवादाभावेऽपि तदुपदेष्टस्तद्दर्शनस्याभावासिद्धेः । भावोऽपि कथं सिद्ध इति चेत्, अत एव संशयोऽस्तु, न चैतावता प्रतिबन्धाभावः सिद्ध्यति, संशयस्तु स्यात् यथा अनर्थित्वादप्रवृत्तस्य प्रथमोत्पन्नप्रत्यक्षे । न चैकत्र संशये सर्वत्र संशयः, प्रत्यक्षेऽपि प्रसङ्गात् । संशयितप्रतिबन्धात् तुम वाक्यात् संशयादपि प्रवृत्तिः यथा अनभ्यासावस्थायां प्रत्यक्षात्, अभ्यस्तविर्षे ये तु चन्द्रग्रहणो. पदेशादिनिश्चयादेव तृतीयादिप्रवृत्ताविवाध्यक्षात् । क्वचिद् विसंवादाच्छब्दस्य सर्वत्राप्रामाण्येऽध्य
१-का तद्वि-आ. हा० ।-कात् तद्वि-वि० । २-यान्न भवन्ती चेत् वा० बा० ।-या न संभवन्ती चेत् आ० हा. वि.। ३-वत् तदपि कार्य-वा. वा०। ४-पकारशक्तिः सामान्य-आ० ।-पकारसामान्य-वा० बा०। ५-कारसामान्य-आ. हा०वि०। कारमत्सामान्य-वा० बा०। ६-वादि-आ० । ७-त्वं सा-आ० वि०। ८ नवाऽभिधेयात् आ० हा०। न चा-वि०। ९ व्यावृत्तिसि-वा० बा। १०-च्छब्दादेर्वस्तु-भां०मा०। ११-तीतस्पष्टा-भां० मां० विना। १२-स्थक्षणादिदर्श-वा० बा०। १३ वा भ्रान्त-आ० हा० वि। १४ ज्ञानवस्तु-वा. बा. मां० आ०। ज्ञानं वस्तु-हा०। १५-काशन सं-भां. मां १६ न च स्पष्ट-भां० मा० । न चा स्पष्ट-वि०। १७-वृक्षाणां प्र-वा० बा०। १८-वमत्र आ० हा० वि० । १९ तस्यापा-भां० मां०। २० न वा-भां० मां. वि. विना। २१-तस्य सादृश्यप्र-वा. बा०। २२-नस्यैव वा. बा । २३-क्वचिदेवाऽनाग-वा. बा०। २४-षये वा-भां० मां. विना। २५ वात्ये च-भां०। वाक्यचआ० । २६-क्षप्रामाणे वा० बा० । २७-भावो वि-भां० मा० विना । २८-षये च-वा. बा० । २९-शादिन्नि-भां० मां। ३०-यापि दि-भां० मां ।