SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २५८ प्रथमे काण्डेत्वेऽपि सामान्योपादानम् सामान्य एव प्रतिबन्धावधारणाद् अन्यथा व्याप्त्यसिद्धिः। यतो यदेव वधारणकाले प्रतिबद्धस्य प्रतिबन्धविषयतयाऽवधार्यते तस्यैव कालव्यतिरेकोऽन्यो वा दर्शनीयः। न चास्ति तथाभूतस्य कालव्यतिरेक इति सर्वत्र देशव्यतिरेक एव युक्तः अस्य सर्वत्र सम्भवात् , व्यापिनोऽपि नित्यस्याव्यतिरेकात् सामर्थ्यानवधारणेऽपि तत्सम्भवाविरोधात् सन्दि५ग्धासिद्धोऽक्षर्णिको हेतुः स्यात् । अथान्वयादपि सामर्थ्य निश्चीयते न केवलादेव व्यतिरेकात् अतिप्रसङ्गात न चात्रान्वयोऽस्ति, प्रागविकलेऽपि कारणे कार्यानुत्पत्तेः अविकेले च कारणे कार्यमनु त्पन्नं तस्याजनकात्मकत्वं सूचयति, पश्चादपि जनकत्व विरोधात् तस्यैकस्वभावत्वात्, न; अस्य दूषणस्यान्यत्रापि समानत्वात् । तथाहि-प्रथमे क्षणेऽविकलेऽप्यन्त्यकारणसामग्री विशेष कार्यानुत्पत्तेरविशेषात् द्वितीयेऽपि क्षणे कार्योत्पत्तिविरोधः स्यात् । एवमन्वय-व्यतिरेकाभ्यामव्यापिनि १० नित्येऽक्षणिके च सामर्थ्य सिद्धेः असिद्धोऽर्था(र्थ)क्रियाविरोध इत्यर्थक्रियालक्षणसत्त्वविशिष्टं कृत कत्वं न निवर्तयितुमलम् । एतेन सामान्यस्य नित्यत्वादनर्थक्रियाकारित्वेन निरस्तमवस्तुत्वम् । न च सामान्यभाविनः कार्यस्यैवासम्भवात् तस्यानर्थक्रियाकारित्वम्, न नित्यत्वात् न हि जातिर्वाहदोहादिकार्यकारिणी अविशेषेऽपि तस्याः कार्यविशेषात् विशिष्टे वा तदेकत्वहाँनेरिति वक्तुं युक्तम्, यतो न वाह-दोहादिकमज्ञानरूपमेव कार्यम् यतस्तदभावादवस्तुत्वं स्यात् यावता विज्ञानलक्षणमपि १५कार्यमर्थानामस्तीति कथं तत्करणेऽपि सामान्यस्यावस्तुत्वम् शब्दाय॑न्तक्षणवत् ? अथ केवलादेव सामान्यात् तदाहिज्ञानसद्भावे तदेव तेन गृह्यते न कदाचिद् व्यक्तिरिति व्यक्तेस्तत्सम्बन्धित्वेनाग्रहणात् न व्यक्तौ ततः प्रवृत्तिः स्यात् , व्यक्तिसहायात् सामान्यात् तज्ज्ञानोत्पत्तौ कथं व्यक्तीनामेकज्ञाने प्रत्येकं तासामभावेऽपि सामान्यसद्भावभाविनि सामर्थ्यावधारणम् ? इत्युभयथापि ज्ञानकि याऽसम्भवात् कथं तथापि तद्वस्तुत्वम् ? असदेतत् ; व्यक्तीनामन्यतमव्यक्तिसव्यपेक्षस्यैव सामा२० न्यस्य तत्र सामर्थ्यात् कुविन्दादेरिवान्यतमवेमाऽपेक्षस्य, नहि प्रत्येकं वेमाऽभावे कुविन्दः पटं करोतीति कुविन्दादेव पटोत्पत्तिः, वेमरहितादनुत्पत्तेः । एवमेकैकव्यक्त्यपाये विज्ञानोत्पत्तावपि न केव. लमेव सामान्यं तद्धेतुः अन्यतमव्यक्त्यपेक्षस्यैव सामर्थ्यात्, अनुपकारकस्यानपेक्षणीयत्वात् । सामान्योपकारे ततस्तज्ज्ञानस्यैवोपकारः किं नेष्यते ? किं सामान्योपकारेण ? भिनानामेकार्थक्रिया न सम्भवतीति सामान्यमेकमिष्टम् , ताश्चेद् व्यक्तयो नानात्वेऽप्येक २५ सामान्यमुपकुर्वन्ति कस्तासां तज्ज्ञानेनापराधः कृतः यतस्तास्तज्ज्ञानमेव नोपकुर्वन्ति ? कार्यश्च तासां प्राप्तः सामान्यात्मा ततो लभ्यस्यातिशयस्यानन्तरत्वात्, अर्थान्तरत्वे सम्बन्धानुपपत्तिरित्यप्यचोयम्, यतो न भिन्नानामेकार्थक्रियाविरोधात् सामान्यमिष्टम् किन्तु भिन्नेष्वभिन्नाभा सात् साक्षादर्पिततदाकारा बुद्धिः सामान्यमन्तरेणेन्द्रियर्बुद्धिवन्न सम्भवतीत्यभिन्नसामान्यवादिभिः सामान्यमिष्टम् । यदि वा (चा)ऽऽधिपत्यमात्रेणेन्द्रियादीनां रूपत्वाभावेऽपि रूपज्ञानजननवदिहापि ३० व्यक्तीनामाधिपत्यमात्रेणोपयोगोऽभ्युपगम्यते तदा व्यक्तिष्विन्द्रियादिवदर्पिततदाकारा बुद्धिरभिनप्रतिभासिनी न स्यात् । न च स्वलक्षणस्य विकल्पबुद्धावप्रतिभासनात् नैवार्पिततदाकारा बुद्धि रभिन्नप्रतिभासिनीति वक्तव्यम्, 'विकल्पाः स्वलक्षणविषया न सन्ति' इत्यस्यासिद्धेः । स्पष्टाकार १ व्याप्यसि-वा. बा. हा० । व्याप्तसि-मां०। २ सिद्धेः भां० मां०। ३ न वा-मां० वि० विना । ४-वा विशेषात् आ० । ५-सिद्धः क्ष-भां० मां०। ६-णिकहेतुः आ० हा० वि०।-णिके हेतुः वा. बा.। ७ न वान्वयो-भां० मां० वा. बा० विना। ८-नुपपतेः वि०। ९-कल्पे च आ०। १०-रणका-भां. मां०। ११-कात्मतां भां० मां० । १२-धास्त-आ० हा० वि० । १३-त्पत्तिर-वा० बा०। १४ नित्ये क्षआ०। १५ सामर्थ्यासिद्धे सिद्धोऽर्थः क्रियाविशेष इत्यर्थ-आ. हा. वि० । सामर्थ्य सिद्धोऽर्थक्रियाविशेष इत्यर्थ-वा. बा० । १६-शिष्ट कृत-आ० । १७-कत्वं नि-भां. मां० विना । १८-स्यैव स-वा० बा०। १९-हानिरि-भां० मां। २०-द्यन्त्यक्ष-भां० मां०। २१ गृह्येत मां०। २२-नान्यग्रभां० मा०। २३-स्तु मस-भां० मां० विना। २४ प्रत्येकंमेवमा-वा० बा०। २५-वमेकैव्य-भां० मां० वा. बा० विना। २६-कारणस्या-आ. हा० वि०। २७ ततस्वज्ञा-वा० ०। २८-नस्येवो-वा० बा० विना। २९-रत्वे सम्बन्धा-आ० हा० वि०। ३०-द्यं ततो आ० हा० वि०। ३१-नासाभो साक्षादर्पित-वा. बा० ।-नाभासासापक्षादर्पित-आ० हा० ।-नाभासापक्षादर्पित-वि.। ३२-बुद्धिव न आ० हा० वि० । ३३ व्यक्तेष्विन्द्रिया-हा०। ३४-नी स्यात् वा० बा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy