SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोर्मीमांसा । २५७ तस्य दूषणं स्यात्-इत्येकत्र समर्थस्यान्यत्रापि सामर्थ्यमभ्युपगन्तव्यम् अन्यथैकत्रापि न स्यादित्यवस्तुत्वं तस्य भवेत् । न च सर्वत्रेकसामग्र्यधीनतोपकारः, भिन्नदेशकारणकलापसमवधानहेतूनामेकसामग्र्यधीनतोपकाराभावेऽपि स्वकार्योपयोगोपलब्धेः । न च तेषामप्येकसामग्र्यधीनतोपकारः सम्भवति, अन्वय-व्यतिरेकाभ्यां परस्परोत्पादने सामर्थ्यानवधारणात् तेपाम् ; नहि कुशूलादिस्थस्य बीजादेरुदकादिभावानुविधानेन प्रतिसन्धानमनुभूयते तथापि तत्कल्पनायामतिप्रसङ्गः ततो नैक-५ सामग्र्यधीनताप्युपकारः इत्यनपेक्षोऽनुपकारी स्यात्, अपेक्षत्वे अक्षणिकस्याप्यपेक्षाप्रतिक्षेपोऽयुक्तः स्यात् । अथ क्षणयोः पृथक् सामर्थ्य नास्ति, स्वहेतोः सहितयोरेवोत्पन्नयोः पृथगसमर्थयोरपि सामर्थ्यमभ्युपगम्यते, नन्वेवमक्षणिकस्यापि तदन्यसहायस्यैव सामर्थ्य किं नाभ्युपगम्यते ? स्वहेतुप्रतिनियमाद् युक्तं क्षणिके सामर्थ्यम् नाक्षणिक इति चेत्, नन्वेवमक्षणिकेऽपि स्वहेतुप्रतिनियमात् सामर्थ्य को विरोधः ? स्वहेतोस्तदन्यापेक्षया समर्थस्योत्पन्नस्याक्षणिकस्यान्यसन्निधिकाल एवाऽक्षेपेण १० कार्यकारित्वं स्यात् । अन्योनपेक्षत्वादपेक्षणीयस्यापि सन्निहितत्वादुत्तरोत्तरपरिणामस्याप्येकत्वेनासत्त्वादिति चेत्, न; कालान्तरभाविकार्यकारित्वलक्षणस्याक्षणिकस्यान्यानपेक्षत्वेऽपि कालान्तरांपेक्षत्वात् क्षणवदक्षेपेण न कार्योत्पादकत्वम् । यथा हि अन्यसहायस्याद्ये क्षणे समुत्पन्नस्य क्षणस्यान्यानपेक्षत्वेऽपि द्वितीयक्षणापेक्षत्वान्न प्रथमक्षण एव कार्यारम्भकत्वम् अन्यथा कार्य-कारणयोरेकदैवोत्पत्तेर्द्वितीयक्षणे जगद् वस्तुशून्यम् अक्षणिकं वा स्यात् तथाऽक्षणिकस्यापि कालान्तरापेक्ष-१५ त्वानोतरपरिणामापेक्षकार्यऽक्षपोत्पादकत्वम् । अथ प्रागकारकस्वभावस्य पश्चादपि कथं कारकत्वम् अक्षणिकस्य कारकाकारकावस्थाभेदादेकत्वहानेः? न; अस्यान्यत्रापि समानत्वात् । तथाहिआत्मसत्ताकालेऽकारकस्वभावस्यापि क्षणस्य द्वितीये क्षणे कारकत्वम् अन्यथैककालत्वं कार्यकारणयोः स्यादित्युक्तम् । न चैकदा कारकत्वमेवान्यदाऽकारकत्वं तत्रेति युक्तम्, अक्षणिकेऽप्यस्य समानत्वात् । नापि क्रमेणाऽक्षणिकस्यानेककार्यकारित्वमयुक्तं तत्स्वभावभेदेनैकत्वहानिप्रसक्तेरिति २० वकव्यम्, यतो नाक्षणिकस्योत्तरकालभाविकार्यकारित्वमन्य देककार्यकारित्वात् यतः स्वभावमेदादेकत्वं न स्यात् अक्रमेणानेककार्यकारि एकक्षणवत्, क्षणे ह्यकत्रोपादानभाव एवान्यत्र सहकारिभाव इत्यनेककार्यकारित्वेऽपि न स्वभावभेदः । पूर्वापरकार्यकारित्वयोरभेदेऽप्यक्षणिके न तद्भावभाविकायोणामक्रमेणोत्पत्तियुक्ता, तदुत्पत्तिप्रत्ययंवैकल्यात। तथाहि-यद यदोत्पित्सु काय तत तदैव तदुत्पत्तिप्रत्ययापेक्षयाँ, अक्षणिकस्य कर्तुं सामर्थ्य प्रागेवास्तीति न स्वभावभेदः अक्रमेण कार्योत्प-२५ त्तिर्वा । तदुक्तम् "यद् यदा कार्यमुत्पित्सु तत् तदोत्पादनात्मकम् । ___ कारणं शक्तिभेदेऽपि न भिन्नं क्षणिकं यथा" ॥ [ अथ विद्यमानोऽपि कार्यकारणभावोऽक्षणिके दरवसेयः व्यतिरेकाभावात् , असदेतत् उत्पत्तिमतोऽव्यापिनोऽक्षणिकस्योत्पत्तेः प्रागन्यत्र वा सतो देशकालव्यतिरेकात् कथं व्यतिरेकाभावः३० कालव्यापिनोऽपि च नित्यस्य देशव्यतिरेकात् सर्वत्र चायमेव व्यतिरेको न व्यतिरेकान्तरमस्ति । यतो न कश्चिदग्न्यादिकारणसामान्यव्यतिरेकी कालो विद्यते, कालव्यतिरेकिणो विशेषस्यैव कारण १-कार भि-भां० मां० वा०। २-स्परोपदाने वा० वा०। ३ कुसृला-वा० वा ।। ४ नैका सा-वा० बा०। ५-स्यापे-वि०। ६-पो युक्तः हा०वि०। ७-म्यते स्या स्व-वा० बा०। ८ नन्वक्ष-भां. मां० विना। ९-नस्याऽन्यसन्नि-वा० बा० । १०-कन्यमन्नि-आ० हा० वि०। ११-स्यादतोऽन्या-वा० बा । १२-न्यापक्ष-वा. बा०। १३-क्षत्वे का-आ० हा० वि०। १४-राक्षेपत्वा-वा० बा०। १५-स्यात्मानपेभा० मां. विना। १६ द्वितीयक्षणत्वान्न वा. बा०। १७-णापेक्षान्न आ० हा० वि०। १८-तीये क्ष-भां० मां०। १९-त्तरोत्तरा(र)परि-वा० बा०। २०-कार्यऽपेक्षोत्पाद-भां. मां। २१-आत्मन स-वा. बा। २२-स्या क्ष-आ. हा०वि०। २३ प्र. पृ. पं० १५। २४-न्यदैक-वा० बा० विना। २५-णांक-वा० बा। २६-यविकल्प्यात् आ० वि०।-यविकल्पात् हा०। २७ “यथैव हि क्षणिकं कारणं यद् यदा यत्र यथोत्पित्सु कार्य तत् तदा तत्र तथोत्पादयति, तस्यैवंविधसामर्थ्य सद्भावात् तत्सामर्थ्यापेक्षिणः कार्यस्य खकालनियमः सिध्यतीति कल्प्यते तथा नित्यमपि कारणं यद् यदा यत्र यथा फलमुत्पित्सु तत् तदा तत्र तथोपजनयति, तस्य तादृशसामर्थ्ययोगात् तत्सामर्थ्यापेक्षिणः फलस्य कालनियमः किं न कल्पयितुं शक्यः ?"-अष्टस० पृ. ९.५० ८। २८ तदेव भां० मा० । २९-याक्ष-भा०मा० वा.बा.विना।३०-ण वा कार्योत्पत्तिःतदु-भां० मां०।३१-त्रचासतोपदेश-भां. मां। स० त०३३
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy