SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे - स्तराभावाद् व्यापकानुपलब्धेरक्षणिकाद् व्यावर्त्तमानं सत्त्वमनित्यत्वं व्याप्नुयात् तदन्यस्यापि सत्वात् ? अथ क्षणिक एव भावः प्रतिक्षणमनुपलक्षितविनाशः सत्वमात्रेणोपलक्ष्यमाणो विपक्षः, तत्र क्रम - यौगपद्याभ्यामर्थक्रियोपलब्धिरस्तीति । ननु कथं क्षणिकत्वेन विपक्षस्यानिश्चये तत्रैवार्थक्रियो५पलब्धिर्नान्यत्रेत्य वसीयते तयोर्विशेषानुपलक्षणात् अक्षणिकत्वप्रतीतेरुभयत्राविशेषात् ? पारिशेष्या दत्रैवार्थक्रियोपलब्धिश्चेत् कुतः पारिशेष्यसिद्धिः ? यदि व्यापकानुपलब्धे स्तदे तरेतराश्रयत्वं प्रतिपादितम् । अतो विपक्ष बाधकप्रमाणाभावात् सन्दिग्धव्यतिरेकः 'कृतकत्वात्' इति हेतुः । ने चाणि क्रम- यौगपद्याभ्यामर्थक्रियाकारिण्यर्थक्रियाविरोधः, तत्रैव क्रमाक्रमजन्मनां कार्याणां जननात् । अथाक्षणिकजन्मनां कार्याणामक्रमेणैव स्याज्जन्म तज्जनन स्वभावस्याक्षणिकस्य सर्वदा १० भावात् अविकारिणोऽन्यानपेक्षत्वादविरतिप्रसङ्गश्च अन्यथा द्वितीयादिक्षणेऽजननादव स्तुत्वप्रसक्तिः, तस्मिन्नपि क्षणेस व प्रसङ्गः तदैव तज्जन्मनां सर्वेषामप्युत्पत्तिः तदुत्पादन स्वभावस्य प्रागपि सद्भावादित्यतो न कथञ्चिदक्षणिकस्यार्थक्रिया, असदेतत् क्षणवदक्षणिकस्याविकारिणोऽपि न विरोधः सहकार्यपेक्षया, नहि क्षणस्यापि विकारोऽस्ति अपेक्षणीयात् तस्य विभागाभावात् विभाग वा क्षणस्य न क्षणः स्यात् । न वा विभागिनोऽपि क्षणस्य विकारित्वम्, तथाभ्युपगमेऽ१५ क्षणिकस्याप्यपेक्षणीयकृतो विकारोऽक्षणिकविरोधी न भवेत् । अविकारिणोऽपि क्षणस्य सापेक्षत्वे 'पराऽपेक्षाऽविकारिणोऽप्यपेक्षणीयादक्षणिकस्यापि स्यात् । ततश्च कथमक्षणिकस्याविकारिणोऽपेक्षणीयात् क्रम- यौगपद्याभ्यामर्थक्रियाविरोधो भवेत् ? सापेक्षत्वे हि यथाप्रत्ययं क्रम- यौगपद्याभ्यामर्थक्रियाकारित्वमक्षणिकस्य युक्तमेव । अत एव नाविच्छेदेन जनकः, सर्वदा सहकारिप्रत्ययसन्निधानयोगात् । २५६ केवलस्यैव सामर्थ्ये सहकार्यपेक्षया न किञ्चिदिति केवल एव कार्य कुर्यात् । असामर्थ्येऽन्यसाहित्येऽपि न सामर्थ्यम् अनाधेयातिशयत्वेन पूर्वापरस्वभाव परित्यागोपादानाभावात् उभयथापि व्यर्थमक्षणिकस्यार्थान्तरापेक्षणमिति चेत् क्षणिकेऽपि समानोऽयं प्रसङ्गः । तथाहि — क्षणयोरपि प्रत्येकमसामर्थ्य एककालयोः सहितयोरपि तयोरसामर्थ्यम् अप्रच्युताऽनुत्पन्नपूर्वापररूपत्वात् । समर्थयोरपि किं परस्परापेक्षयेति तयोरन्यतरत् केवलमेव जनयेत् नापरम्, तद्देशावस्थानेऽपि २५ वैयर्थ्यात् कार्यनिष्पत्तेरन्यतरेणैव कृतत्वात् । अतो न सामग्रीजनिका भवेत् । तथा चैकस्मादेव कार्यस्योत्तरोत्तर परिणामात्मतयोत्पत्तेर्न परिणामेऽपि कारणान्तरापेक्षा भवेत्, अनेपेक्षै ( क्ष्यै) व कारणान्तराणि परिणामान्तराणि जनयेत् केवलस्यैव सर्वत्र सामर्थ्यात् । असामर्थ्येऽविभागस्यान्येनापि न किञ्चित् क्रियत इत्यकिञ्चित्करोऽपि तदेककार्यकरणादन्यो यदि तदुपकार्यभ्युपगम्येत तदाऽक्षणिकस्याप्येवं किमुपकारि सहकारिकारणं न भवेत् ? परस्परमेकसामध्यधीन तोपकारस्त३० दुपकारवतोः क्षणयोः, तदेव स्वकार्योपयोगित्वं तयोरिति चेत्, तर्हि अन्त्यक्षणस्यापि स्वविषयसर्वज्ञज्ञानोत्पादनेनैकसामग्र्यधीनतालक्षण उपकारोऽस्तीति सजातीयकार्योपयोगित्वं किं न स्यात् ? अथैकंसामध्यधीन तोपकारित्वेऽप्यसामर्थ्यान्न सजातीयकार्योपयोगित्वं चेत्, नन्वेवमेकत्रा समर्थस्याम्यत्र योगिविज्ञाने स्वग्राहिणि कथं सामर्थ्यमिति वक्तव्यम् ? इत्थंभूतस्यापि सामर्थ्यं नैयायिकस्यापि स्वग्राहिज्ञानजननाऽसमर्थस्यार्थज्ञाने सामर्थ्यं किं न स्यात् - येना ( येन ना ) र्थचिन्तनमुत्सी देदिति २० ७ इन्यसा - हा० । मर्थ्ये इत्यसा १ पृ० २५५ पं० ३२ । २ त्वादिहै - भ० मां० । त्वादिहे वा० बा० । ३ न वा वा० बा० आ० हा० । ४ तथैव भां० म० । ५- दनाख वा० बा० । ६- तत् क्षणिकस्या - वा० वा० । -र्यपेक्षणे न भां० मां० । ८ क्षणकस्या भ० मां० वा० बा० विना । ९ क्षणिकस्य वि० । क्षणिस्य हा० । १०- क्षया कृतो वा० वा० । ११- कारो न भ-भां० मां० विना । १२- पि सर्वस्य सा वा० बा० । १३ -कस्य विवा० बा० हा० । कस्यो वि-आ० । १४- त्यये क्र- वा० वा० । १५ मध्ये आ० वि० । १६ क्षणेकयोरपि वा० वा० । १७- कसा - आ० हा ० वि० १८ मध्ये वा० बा० । १९-क्षयोपि तयो - वा० बा० ॥ २०-तरत्वात् के-आ० ।-तरत्वत् के वि० ।-तरथेत् के हा० । २१ - तू परं भां० मां० वा० बा० विना । २२ - क्षाभावात् भ० मां० । २३ - नपेक्षोष का वा० वा० । नपेक्षेव का - हा० । २४ तदेवकार्यकारणा-वा० वा० । २५ - कारिकरणं वा० बा० । २६ अन्तक्ष-वा० वा० । २७ - ज्ञानोपादानेनैक-भां० मां० वा० वा० । २८-त्वं न भ० मां० वा० बा० विना । २९- कस्य सा-वा० बा० । ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy