SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २३८ प्रथमे काण्डेन च व्यक्तिदर्शनवेलायां स्वेन वपुषा बुद्धिग्राह्याकारतया प्रतिपदमवतरन्ती जाति भाति व्यक्तिव्यतिरेकेणापरस्य बहिर्लाह्यावभासस्याभावादिति वक्तुं शक्यम्, व्यक्त्याकारेऽप्यस्य समानत्वात् । न च बुद्धिरेव 'गौौः' इति समानाकारा बहिः साधारणनिमित्तनिरपेक्षा प्रतिभाति, तथाभ्युपगमे प्रतिनियतदेशकालाकारतया तस्याः प्रतिभासाभावप्रसङ्गात् । न चासाधारणा व्यक्तय ५एव तद्बुद्धिनिमित्तम्, व्यक्तीनां भेदरूपतयाऽविशिष्टत्वात् कर्कादिव्यक्तीनामपि 'गौौः' इति बुद्धिनिमित्तत्वापत्तेः। न च व्यक्तीनां मेदाऽविशेषेऽपि यास्वेव 'गोर्गौः' इति बुद्धिरुपजायमाना समुपलभ्यते ता एव तामुपजनयितुं प्रभवन्ति, यथा यास्वेवं गुडूच्याद्योषधिषु मेदाविशेषेऽपि ज्वरादिशमनलक्षणं कार्यमुपलभ्यते ता एव तन्निमित्तं नान्या इति वक्तुं युक्तम् , साधारणनिमित्त व्यतिरेकेणापि देशकालादिनियतसाधारणप्रत्ययस्य तत्रोत्पत्त्यभ्युपगमेऽसाधारणप्रत्ययस्यापि तन्नि१० मित्तमन्तरेणापि तासूत्पत्तिप्रसक्तेन स्वलक्षणस्यापि व्यवस्था स्यात् । तथाहि-परेणाप्येवं वक्तुं शक्यम्-अमेदाविशेषेऽप्येकमेवे ब्रह्मादिस्वरूपं प्रतिनियतानेकनीलाद्याभासनिबन्धनं भविष्यतीति किमपररूपादिस्वलक्षणपरिकल्पनया? अथ रूप-रसाद्याभासज्ञानस्य तद्रूपस्वलक्षणमन्तरेणापि सम्भवेऽपरस्यार्थक्रियानिबन्धनार्थव्यवस्थापकस्याभावान प्रवृत्यादिलक्षणो व्यवहार इति स्वलक्ष णाकारज्ञानस्य तन्निमित्तत्वेन तद्यवस्थापकत्वम्, एतत् सदृशाकारज्ञानेऽपि समानम् । नहि १५सामान्यमन्तरेणापि भिन्नानामेककार्यकर्तृत्वं न सम्भवतीति तत् परिकल्प्यते किन्तु समाना कारप्रत्ययोऽबाधितरूँपः तथाभूतविषयव्यतिरेकेणोपजायमानो मिथ्यारूपः प्राप्नोतीति विशेष प्रत्ययस्येवाऽबाधितरूपस्य समानप्रत्ययस्यापि सामान्यमालम्बन तं निमित्तमभ्युपगन्तव्यमित्यस्ति वस्तुभूतं सामान्यम्; अन्यथा समानप्रतिभासायोगात् । एककार्यतासारश्येनैकत्वाध्यवसायादेकप्रतिभास इति चेत्, वाह-दोहादिकार्यस्य प्रतिव्यक्तिभेदात् कथमभेदः कार्याणाम् ? २० इति तत्राप्यपरैककार्यतासादृश्येनैकत्वाध्यवसायेऽनवस्थाप्रसक्तेः, एककार्यतया भावानामप्रतीतेः कथममेदाध्यवसायादेकः प्रतिभासः येनैककार्यकारित्वम् अतत्कारिपदार्थविवेको वा सामान्य तद्यवहारनिबन्धनं स्यात् ? एकसाधनतयोऽमेदोऽप्यत एव न सामान्यम्, वाह-दोहादेरेकार्थत्वाभावेऽप्येकविज्ञानजनकत्वेनामेदाध्यवसाये तद्विज्ञानस्यापि प्रतिव्यक्तिभिन्नत्वात् । एकाकारपरामर्शज्ञानजनकत्वेनामेदाध्यवसाये तत्परामर्शस्यापि प्रतिव्यक्तिभिन्नत्वात् अपरपरामर्शजनकत्वे२५नामेदाध्यवसायेऽनवस्था। अथैकाकारपरामर्शज्ञानस्य स्वत एवाभेदाध्यवसायरूपत्वादेकत्वमिति नानवस्था, तजनका भवानां त्वेकाकारपरामर्शज्ञानहेतुत्वादेकत्वम् अनुभवनिमित्तव्यक्तीनां च तथाभूतानुभवजनकत्वेनोपचरितं तत् । नन्वेवं व्यक्तीनामेवाव्यवहितैकाकारपरामर्शहेतुत्वं वस्तुभूतं सामान्यमभ्युपगन्तव्यम् किं पारम्पर्यपरिश्रमेण ? या हि प्रत्यासत्या प्रतिव्यक्ति भिन्नानुभवा एकं परामर्शज्ञानं जनयन्ति तयैव प्रतिनियता व्यक्तयः स्वगतसमानीकारार्पकत्वेन तद् ३० जनयिष्यन्तीति न कश्चिद् दोषः । यथा ह्यनुभवज्ञानं भिन्नमपि परामर्शज्ञानं प्रतिनियतैकाकारतया १ व्यक्तिदर्शनवपुषा वि०। २-लायां स्थेन वा० बा० ।-लायास्तेन आ० हा०। ३ बुद्धिावा. बा. विना। ४ “न चानुगतप्रतिभासो बहिः साधारणनिमित्तनिरपेक्षो घटते प्रतिनियतदेशकालाकारतया तस्य प्रतिभासाभावप्रसङ्गात्"-प्रमेयक० पृ. १३७ प्र. पं०८। ५ "न चाऽसाधारणा व्यक्तय एव तन्निमित्तम् , तासां भेदरूपतयाऽऽविष्टत्वात्"-प्रमेयक० पृ. १३७ प्र. पं०९। ६ "कर्कः श्वेताश्वः"-प्रमेयक. टि. पृ० १३७ प्र. पं० १४ । न व्य-आ० हा०। ८-दादिवि-आ० हा०। ९-व गडच्या-हा. वि.। १०-च्याद्यौषआ०। ११ तास्वत्प-वा० बा०। १२-व बुद्ध्यादि-भां. मां० वा. बा. विना। "अमेदाविशेषेऽप्येकमेव ब्रह्मादिरूपं प्रतिनियतानेकनीलाद्याभासनिबन्धनम्"-प्रमेयक० पृ० १३७ द्वि० पं०३ । १३-म्भवे पर-आ० हा. वि०। १४-नाधिकार-आ. हा०वि०। १५-यो बाधि-भा०मा०। १६-रूपतथा-हा० वि०। १७-भूतनिमि-मां०। १८-त्यतिवस्तु-वा. बा०। १९-तत्कापि प-आ. वि. वा. बा। तत्त्वापि प-हा। तत्कोपि प-कां०। २०-या मेदो-हा० वि०। २१-कात्वा-वि० । २२-पि परिव्य-भां० मा० । २३-नुभावानां वा. बा. विना। २४ यथा हिमां०। २५-त्याप्रत्या प्र-आ. हा०वि०। २६-ना एव भवावा. बा० । २७ स्वगतं समानाकारार्थकत्वेन भां० मा० विना। २८-नाधिकारा-वा. बा०। २९-ध्यतीति भां० मां०। ३० कारविल-भां० मा० वा. वा. विना।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy