SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोर्मीमांसा । २३७ दोषाः। केवलममिमानमात्र बहिराध्यवसायस्तदभिप्रायेण वाच्यवाचकभावः शब्दार्थयोरित्यन्यापोहः शब्दभूमिरिष्टः। परमार्थतस्तु शब्द-लिङ्गाभ्यां बहिरर्थसंस्पर्शव्यतीतः प्रत्ययः केवलं क्रियत इति तत्संस्पर्श(M)भावेऽपि च पारम्पर्येण वस्तुप्रतिबन्धादविसंवादः । तथाहि-पदार्थस्यास्तित्वात् प्राप्तिः न दर्शनातू, केशोन्दुकादेर्दर्शनेऽपि प्राप्त्यभावात् । अथ प्रतिभासमन्तरेण कथं प्रवृत्तिः? ननु प्रतिभासेऽपि कथं प्रवृत्तिः ? तस्मिन्नप्यनर्थित्वे तदभावात् अर्थित्वे च सति दर्शनविरहेऽपि भ्रान्तेः ५ सद्भावात् प्रतिबन्धाभावात् तु तत्र विसंवादः। यदा तु विकल्पानां स्वरूपनिष्ठत्वान्नान्यत्र प्रतिबन्धसिद्धिस्तैदा स्वसंवेदनमात्रं परमार्थसतत्त्वम्, तथापि कथं 'समयपरमार्थविस्तरः' इति सत्यम् ? ['सामान्य-विशेषात्मक एव शब्दार्थः' इति प्रतिपादनपरः सविस्तरं स्याद्वादिसिद्धान्तोपन्यासः] अत्र प्रतिविधीयते-यदक्तम-'यः 'अतस्मिंस्तत्' इति प्रत्ययः स भ्रान्तः, यथा मरीचिकायां १० जलप्रत्ययः, तथा चायं मिनेष्वर्थे वभेदाध्यवसायी शाब्दः प्रत्ययः' इति, तत्र भिन्नेष्वमेदाध्यवसायित्वलक्षणो हेतुरसिद्धः “मेदेस्व(प्व)मेदाध्यवसायित्वस्य तत्रानुपपत्तेः । न च सामान्यस्याभिन्नस्य वस्तुरूपस्याभावान्नासिद्धता हेतोः, 'गौ!ः' इत्यबाधितप्रत्ययविषयत्वेन तस्याभावासिद्धेः। अथाबाधितप्रत्ययविषयस्यापि तस्याभावस्तर्हि विशेषस्याप्यभावप्रसक्तिः, तथाभूतप्रत्ययविषयत्वव्यतिरेकेणापरस्य तद्यवस्थानिबन्धनस्य तत्राप्यभावात् । यथा हि पुरोव्यवस्थितगोवर्गे व्यावृत्ताकारा १५ बुद्धिरुपजायमाना संलक्ष्यते तथा 'गौ\ः' इत्यनुगताकारेणाप्युपजायमाना सैव लक्ष्यते । न चानुगतव्यावृत्ताकारा बुद्धिात्मकवस्तुष्यतिरेकेण घटते, अबाधितप्रत्ययस्य विषयव्यतिरेकेणापि सद्भावाभ्युपगमे ततो वस्तुव्यवस्थाऽभावप्रसक्तेः। न चानुगताकारत्वं बुद्धेर्वाध्यत इति वक्तुं युक्तम्, सर्वत्र देशादावनुगतप्रतिभासस्याऽस्खलद्रूपस्य तथा ताकारव्यवहारहेतोदेर्शनात् । अतो व्यावृत्ता. कारानुभवांशाऽनधिगतमनुगतमाकारमवभासयन्त्यक्षान्वयव्यतिरेकानुविधायिन्यबाधितरूपा बुद्धि-२० स्नुभूयमानाऽनुगताकारं वस्तुभूतं सामान्य व्यवस्थापयति । न च शाबलेयादिप्रतिनियतव्यक्तिरूपविवेकेन साधारणरूपस्यापरस्य भेदेनाप्रतिभासनाद व्यक्तिरूपाद् भिन्नमभिन्नं वा सामान्यं नाभ्युपगन्तुं युक्तमिति शक्यं वक्तुम् , यतः सैंमानदेशसमानेन्द्रियग्राह्याणामपि वाताऽऽतप-घट-पटादीनां प्रतिभासभेदोन्नापरं भेदव्यवस्थापकम् । स च शाबलेयादिव्यक्ति जात्योरपि समस्ति, शाबलेयादिव्यक्तिप्रतिभासाभावेऽपि बाहुलेयादिव्यक्तिप्रतिभासे २५ 'गौ!ः' इति साधारणावभासस्य तद्यवस्थानिबन्धनस्य संवेदनात् । एकान्ततो व्यक्त्यमेदे तु सामान्यस्य शाबलेयादिव्यक्तिस्वरूपस्येव तदभिन्नसाधारणरूपस्यापि बाहुलेयादिव्यत्यन्तरे प्रतिभासो न स्यात्, अस्ति च व्यत्यन्तरेऽपि 'गौ!ः' इति साधारणरूपानुभा(भ)वः अतः कथं न मिन्नसामान्यसद्भावः? १-व्यव-वा.बा.। २-त्यन्योपो-वि०। ३-मार्थस्तु भां०मा०। ४ तत्सत्यंस्प-आ०। ५-स्पर्श. तोवे-वा० बा०। ६-णा-वा. बा.। ७-दपि सं-वा० बा०। ८-स्यास्थित्वात् प्रा-भां मां। स्यार्थत्वा प्रा-वा. बा. । केशान्दुकादे-वा. बा. हा. । केशादुकादे-आ० । केशाण्डकादे-भा. मां०। १.-प्यर्थित्वे-भां. मां.वा. बा. विना। ११ भ्रान्तैः भां. मां० विना । १२-त्वान्नाम्यथा प्रति-वा. बा.। -वान प्रति-वि.। १३-स्तथा वा बा । १४ पृ. १७३ पं. १३ । १५ पृ. १७४ पं०९। १६ 'मिनेष्व' वि० सं०। १७ न वा सा-हा। न चासा-वि०। १८-स्यापि मि-वि०। १९-स्याभा-भां• मां वा.बा.विना। "विशेषस्याप्यसत्त्वप्रसङ्गः"-प्रमेयक. पृ. १३६ द्वि. पं. १०। २०-स्थिते गो-भा. मां। २१ वृस्याका-वा. बा०। २२-भूतस्य व्यव-भां० मा० । “सर्वत्र देशादावनुगतप्रतिभासस्याऽस्खलद्रूपस्य तथाभूतव्यवहारहेतोरुपलम्भात्"- प्रमेयक० पृ. १३६ द्वि. पं० ११। २३-भूतसा-वि० । “वस्तुभूतं सामान्य"प्रमेयक० पृ. १३६ द्वि. पं०१२। २४ सामान्यदे-वा० बा०। २५-दानापरभेद-हा. वि.। २६-क्तिहास्यो-मां० । “स च सामान्य-विशेषयोरप्यस्ति"-प्रमेयक. पृ. १३. प्र. पं०२। २७-वे बाहु-वि० । २८-स्य साब-भां. मां०। २९-न्तरे गौ-हा।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy