SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २३६ प्रथमे काण्डेतु शब्देनैव सोऽर्थः स्वरूपेणैव प्रतिपाद्यते तदाऽस्य सर्वथा प्रतिपन्नत्वात् किमर्थं प्रवृत्तिः? नहि प्रतिपन्न एव तावन्मात्रप्रयोजना वृत्तिर्युक्ता, वृत्तेरविरामप्रसङ्गात् । अथ किञ्चिदप्रतिपन्नं रूपं तदर्थ प्रवर्तनम्। ननु यदप्रतिपन्नं व्यक्तिरूपं प्रवृत्तिविषयः तत् तर्हि न शब्दार्थः, तदेव च पारमार्थिकम् ततोऽर्थक्रियादर्शनात् , नाव्यक्तम् सर्वार्थक्रियाविरहात् । अथ कालान्तरे स्फुटेतरेणाकारेण व्यकी५रुद्योतयन्ति शब्दाः; नन्वसावाकारस्तदा सम्बन्धव्युत्पत्तिकाले कालान्तरे वा नेन्द्रियगोचरस्तत् कथं तत्र शब्दाः प्रवर्तमाना नयनादिगोचरेऽर्थे वृत्ता भवन्ति? तन्नाध्यक्षतः सम्बन्धवेदनम् । नाप्यनुमानेन, तदभावे तदनवतारात् । अथाप्यर्थापत्त्या सम्बन्धवेदनम् । तथाहि-व्यवहारकाले शब्दार्थो प्रत्यक्षे प्रतिभातः, श्रोतुश्च शब्दार्थIतीति चेप्टया प्रतिपद्यन्ते व्यवहारिणः तदन्यथानुपपत्त्या तयोः सम्बन्धं विदन्ति। अत्रोच्यते-सिद्ध्यत्येवं काल्पनिकः सम्बन्धः। तथाहि-श्रोतुः प्रतिपत्तिः १० सङ्केतानुसारिणी दृश्यते, के(क)लि-मार्यादिशब्देभ्यो हि द्रविडाऽऽर्ययोर्विपरीततत्प्रतिपत्तिदर्शनान नियतः सम्बन्धो युक्तः । सर्वगते च तस्मिन् सिद्धेऽपि न नियतार्थप्रतिपत्तियुक्ता। प्रकरणादिकमपि नियमहेतुः नियतार्थसिद्धौ सर्वमनुपपन्नम् । तथाहि-प्रकरणादयः शब्दधर्मः, अर्थधर्मः, प्रतिपत्तिधर्मो वा? शब्दधर्मे तस्मिन् शब्दरूपं नियतार्थप्रतिपत्तिहेतुरिष्टं स्यात्, तच्च सर्वार्थान् प्रति तुल्यत्वात् न युक्तम् । अर्थोऽपि न नियतरूपः सिद्ध इति न तद्धर्मोऽपि प्रकरणोदिः। प्रतिपत्तिधर्मस्तु यदी. १५ष्यतेऽसौ तदा काल्पनिक एवार्थ नियमः न तात्त्विकः स्यात् । तस्मात् सर्व परदर्शनं ध्यानध्यविज़. म्भितम् मनागपि विचाराक्षमत्वात् । तदेवमवस्थितं विचारात् 'न वस्तु शब्दार्थः' इति, किन्तु शब्देभ्यः कल्पना बहिरासंस्पर्शिन्यः प्रसूयन्ते, ताभ्यश्च शब्दा इति । शब्दानां च कार्यकारणभावमात्रं तत्त्वम् न वाच्यवाचकभावः। तथाहि-न जाति-व्यक्त्योर्वाच्यत्वम्, पूर्वोक्तदोषात् । नापि शान-तदाकारयोः, तयोरपि खेन रूपेण स्वलक्षणत्वात् अमिधानकार्यत्वाच्च । शब्दाद् विज्ञानमुत्पद्यते २० न तु तत् तेन प्रतीयते, बहिराध्यवसायात् । कथं तहन्यापोहः शब्दवाच्यः कैल्प्यते ? लोकामिमानमात्रेण शब्दार्थोऽन्यापोह इष्यते, लौकिकानां हि शब्दश्रवणात् प्रतीतिः, प्रवृत्तिः, प्राप्तिश्च बहिरर्थे दृश्यते । यदि लोकाभिप्रायोऽनुवय॑ते बहिरर्थस्तर्हि शब्दार्थोऽस्तु तदभिमानात् नान्यापोहः तदभावात् । अत्रोच्यते-बहिरर्थ एवान्यापोहः तथा चाह-“य एव व्यावृत्तः सैव व्यावृत्तिः" ] नन्वेवं सति स्वलक्षणं शब्दार्थः स्यात्, तदेव विजातीयव्यावृत्तेन २५ रूपेण शब्दभूमिरिष्यते-सजातीयव्यावृत्तस्य रूपस्य शाब्दे प्रतिभासाभावात्-यदि तर्हि विजातीय व्यावृत्तं शब्दर्विकल्पैश्चोल्लिख्यते तथा सति तव्यतिरेकात् सजातीयव्यावृत्तमपि रूपमधिगतं भवेत् , न; विकल्पानामविद्यास्वभावत्वान्न हि ते स्वलक्षणसंस्पर्शभाजः, यतेस्तै (?) सर्वाकारप्रतीति १ प्रतिपद्य-वा० बा०। २-जनतावृत्ति-भां० मां०।-जन्यावृत्ति-हा। ३ यदि प्रति-भां० मां। ४-पन्नव्यक्ति-वा. बा० । ५ स्फुटतरे-कां०। ६-नम्। न हनु-आ. हा० वि० । ७-प्रतीतिचेष्टया प्रतिपाद्य-वि०। ८-न्धं वद-भां० मां०। ९ केवलि-नार्यादिशब्देभ्यो हि द्रावि-भां० मां० विना । "समर्थान्तरभावे च कलि-मार्यादिशब्दवत् । नान्यार्थबोधकत्वं स्याद् ध्वनेर्नियतशक्तितः" ॥ "यथा कलि-मार्यादिशब्दानां द्रविदा(डा)र्यदेशयोर्यथाक्रममन्तकालवर्षोपसर्गाद्यभिधायिनाम्"-तत्त्वसं. का. २६५४ पृ. ७०९, पजि० पृ० ७१० पं० १२। १० सर्व ग-आ० । संर्व ग-वा. बा० । ११ प्रकरणादयस्त्विमे"संसर्गो विप्रयोगश्च साहचर्य विरोधिता । अर्थः प्रकरणं लिङ्ग शब्दस्यान्यस्य संनिधिः" ॥ __वाक्यप० का० २ श्लो० ३१७ पृ० २१४ । १२-पत्तध-वा. बा. विना। १३-पि नियत-हा० वि० ।-पि नियतः सि-आ०। १४-ति नातद्धर्मोभां. मां विना। १५-णादि। प्रति-भां. मां०। १६-पत्रं ध-वा. बा०। १७-मनवस्थितं वा. बा. आ०। १८ प्रश्नयन्ते भां. मां० विना। १९-चकाभा-भां. मां. विना । २०-रूपेणास्व-वा. बा० । २१ तत्त्वेन भां० मां० हा० विना। २२ कल्पते भां० मां० विना। २३-मात्रेणाश-भां० मां० विना। २४-वर्तते वा० बा०। २५-था शब्द: य एव वा. बा०। २६ नत्वेवं मां०। २७-स्य शाब्दे भां० मा० विना । २८-शब्दे वा० बा०। २९-तस्तैः भां० मा० ।-तस्तेः वा. बा.।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy