SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ १० शब्दार्थ-तत्संबन्धयोर्मीमांसा। २३३ [संविद्वपुरन्यापोहवादिप्राज्ञाकरमतस्य उपन्यासः ] अपरस्त्वन्यथा प्रमाणयति-इह खलु यद् यत्र प्रतिभाति तत् तस्य विषयः, यथाऽक्षजे संवेदने परिस्फुटं प्रतिभासमानवपुरर्थात्मा नीलोदिस्तद्विषयः, शब्द-लिङ्गान्वये च दर्शनप्रसवे बहिरेस्वतस्वप्रतिभासरहितं स्वरूपमेव चकास्ति तत् तदेव तस्य विषयः। पराकृतबहिरैर्थस्पर्श च संविपुरन्यापोहः वस्तुनि शब्द-लिङ्गवृत्तेरयोगात् । तथाहि-जातिर्वा तयोर्विषयः, व्यक्तिर्वा तद्वि- ५ शिष्टा? तत्र न तावदाद्यः पक्षः, जातेरेवासम्भवात् । तथाहि-दर्शने व्यक्तिरेव चकास्ति, पुरः परिस्फुटतयाऽसाधारणरूपानुभवात् । अथ साधारणमपि रूपमनुभूयते 'गोर्गौः' इति, तदसत्; शाबलेयादिरूपविवेकेनाऽप्रतिभासनात् । न च शाबलेयादिरूपमेव साधारणमिति शक्यं वक्तुम् , तस्य प्रतिपत्तिव्यक्ति(प्रतिव्यक्ति)मिन्नरूपोपलम्भात् । तथा च पराकृतमिदम् "सर्ववस्तुषु बुद्धिश्च व्यावृत्त्यनुगमात्मिका।। जायते द्यात्मकत्वेन विना सा च न युज्यते” ॥ "न चात्रान्यतरा भ्रान्तिरूपचारेण वेष्यते। दृढत्वात् सर्वथा बुद्धर्भ्रान्तिस्तद् भ्रान्तिवादिनाम्" ॥ [ श्लो० वा० आकृ० श्लो० __५-७ ] इति । 'घात्मिका बुद्धिः' इति यदीन्द्रियबुद्धिमभिप्रेत्योच्यते तदयुक्तम्। तस्या असाधारणरूपत्वात् ,१५ नहि द्वयोर्बहिर्माह्याकारतया परिस्फुटमुद्भासमानयोस्तदभिन्न भिन्नं वा दर्शनारूढं साधारणं रूपमाभाति । अथ कल्पनाबुद्धिाकारा अभिधीयते । तथाहि-यदि नाम अपास्तकल्पने दर्शने न जातिरुद्राति कल्पना तु तामुल्लिखन्ती व्यवसीयते 'गौ!ः' इति, एतदप्यसत्; कल्पनाशानेऽपि जातेरनवभासनात् । तथाहि-कल्पनाऽपि पुरः परिस्फुटमुद्भासमानं व्यक्तिस्वरूपं व्यवस्यन्ती हृदि चाभिजल्पाकारं प्रतीयते, न च तयतिरिक्तः वर्णाकृत्यक्षराकारशून्यः प्रतिभासो लक्ष्यते वर्णा-२० दिस्वरूपरहितं च जोतिस्वरूपमभ्युपगम्यते, तन्न कल्पनावसेयाऽपि जातिः । यच्च क्वचिदपि ज्ञानेनावभाति तदसत्, यथा शशविषाणम् , जातिश्च क्वचिदपि ज्ञाने परिस्फुटव्यक्तिप्रतिभासवेलायां स्वरूपेण नाभाति तन्न सती। ____ अथापि शब्द-लिङ्गजे ज्ञाने स्वरूपेण सा प्रतिभाति तत्र सम्बन्धप्रतिपत्तेः, स्वलक्षणस्य च तत्रासाधारणरूपतया प्रतिभासनावसायात् सम्बन्धग्रहणासम्भवाश्च तेन्न शब्द-लिङ्गभूमिः । ननु२५ तत्रापि परिस्फुटतरो व्यक्तेरेवाकारः शब्दस्य वा प्रतिभाति न तु वर्णाकाररहितोऽनुगतैकस्वरूपः प्रयोजनसामर्थ्यव्यतीतः कश्चिदाकारः केनचिदपि लक्ष्यते, शब्द-लिङ्गान्वयं हि दर्शनमर्थक्रियासमर्थतयाऽस्फुटदहनाकारमाददानं प्रवर्तयति जनम्, तत् कथमन्यावभासस्य दर्शनस्याऽन्याकारो जात्यादिविषयः ? यदि च जात्यादिरेव लिङ्गादिविषयः तथा सति जातेरर्थक्रियासामर्थ्य विरहादधिगमेऽपि शब्द-लिङ्गाभ्यां न बहिरर्थे प्रवृत्तिर्जनस्येति विफलः शब्दादिप्रयोगः स्यात् । अथ जाते-३० रर्थक्रियासामर्थ्यविरहेऽपि स्वलक्षणं तत्र समर्थमिति तदर्था प्रवृत्तिरर्थिनाम्, ननु तत् स्वलक्षणं लिङ्गादिजे दर्शने सदपि न प्रतिभाति, न चात्मानमनारूढेऽर्थे विज्ञानं प्रवृत्ति विधातुमलम् सर्वस्य सर्वत्र प्रवर्तकत्वप्रसङ्गात् । यत् तु तत्र प्रतिभाति सामान्यं न तद् दाहादियोग्यम्, यदपि ज्ञानामिधानं तस्य फलं मतं तदपि पूर्वमेवोदितमिति न तदाऽपि प्रवृत्तिः साध्वी। १-लादि स तद्विष-भा० मां० विना। २-रास्वतत्त्वप्रतिभासारहि-वा. बा.। ३-रर्थसंस्पर्श भां० मा०। ४-नुभा-आ. हा०वि०। ५-सनात्तच्च शाब-भां. मां० ।-सनानुब शाब-आ. हा. वि.। ६ तस्य प्रतिव्यति प्रतिव्यक्ति भिन्न-वा० बा । तस्य प्रतिपत्ति भिन्न-वि०, तस्य प्रतिव्यक्ति भिन्न-वि. सं० । तस्य प्रतिपत्तिः व्यक्तिमिन्न-मां०। ७ बुद्ध भ्रा-वा. बा०। ८-ति बुद्ध्यात्मि-आ० हा०वि०। ९-नामुल्लि-भां०मा० विना। १०-क्तिरू-आ० हा० वि०। ११-दि वाऽभि-आ० हा० भां०। १२-तिरिक्तैः वर्णा-भां० मा०।-तिरिक्तवर्णा-आ० हा० वि०। १३ जाते स्व-आ. हा० वि०। १४-हणसम्भ-आ. विना। १५ तत्र श-भा. मा. विना। १६-तया स्फुट-भा०मा० वा० बा• विना। १७ जलम् वा० बा० । १८-रहाधिग-आ. हा. वि.। १९-नां तत् आ०। २०-ति तद-आ. हा. वि.। २१-र्था प्र-आ० । स० त० ३०
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy