SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे - विपर्ययेऽनुपलम्भात् अशक्यसमयत्वात् अनन्यभाक्त्वाच्चेति । पूर्वं स्वलक्षणादौ सङ्केतासम्भवस्य सङ्केत वैफल्यस्य च प्रसाधितत्वान्न हेतोः सन्दिग्धविपक्षव्यतिरेकता । २३२ अथ यथा स्वलक्षणादौ सङ्केतासम्भवः वैफल्यं च तथाऽपोहपक्षेऽपि ततञ्चाकृतसमयत्वात् तन्मात्र द्योतकत्वमपि शब्दानां न युक्तमित्यनैकान्तिकता प्रथम हेतोः । तथाहि न प्रतिबिम्बात्मकोऽ ५ पोहः वक्त - श्रोत्रोरेकः सिद्ध्यति, न ह्यन्यदीयं ज्ञानमपरोऽवग्दर्शनः संवेदयते प्रत्यात्मवेद्यत्वा (त्वाद) ज्ञानस्य, अज्ञानव्यतिरिक्तश्च परमार्थतः प्रतिविम्बात्मलक्षणोऽपोहः ततश्च वक्तृ-श्रोत्रोरेकस्य सङ्केतविषयस्यासिद्धेः कुत्र सङ्केतः क्रियेत गृह्येत वा ? न ह्यसिद्धे वस्तुनि वक्ता सङ्केतं कर्तुमीशः, नापि श्रोता ग्रहीतुम् अतिप्रसङ्गात् । तथाहि श्रोता यत् प्रतिपद्यते स्वज्ञानारूढमर्थप्रतिविम्बकं न तद् वक्रा संवेद्यते यच्च वक्रा संवेद्यते न च तत् श्रोत्रा; द्वाभ्यामपि स्वावभासस्यैव संवेदनात्, आन१०र्थक्यं च तत्र सङ्केतस्य । तथाहि यत् सङ्केतकाले प्रतिबिम्बकमनुभूतं श्रोत्रा वक्रा वा न तद् व्यव हारकालेऽनुभूयते तस्य क्षणक्षयित्वेन चिरनिरुद्धत्वात् यच्च व्यवहारकालेऽनुभूयते न तत् सङ्केतकाले दृष्टम् अन्यस्यैव तदानीमनुभूयमानत्वात् न चान्यत्र सङ्केतादन्येन व्यवहारो युक्तः अतिप्रसङ्गात्, असदेतत्; येतो न परमार्थतो ज्ञानाकारोऽपि शब्दानां वाच्यतयाऽभीष्टः येन तत्र सङ्केतासम्भवो दोषः प्रेर्यते यतः सर्व एवायं " शाब्दो व्यवहारः स्वप्रतिभासानुरोधेन तैमिरिकद्वय१५ द्विचन्द्रदर्शनवद् भ्रान्त इष्यते, केवलमर्थशून्या भिजल्पवासनाप्रबोधाच्छब्देभ्योऽर्थाध्यवसायिविकल्पमात्रोत्पादनात् तत्प्रतिबिम्बकं शब्दानां वाच्यमित्यभिधीयते जननात् न त्वभिधेयतया । तत्र यद्यपि स्वस्यैवावभासस्य वक्तृ-श्रोतृभ्यां परमार्थतः संवेदनम् तथापि तैमिरिकद्वयस्येव भ्रान्तिबीजस्य तुल्यत्वात् द्वयोरपि वक्तृ-श्रोत्रोर्बाह्यार्थव्यवस्थाध्यवसायः तुल्य एव । तथाहि - वक्तुरयमभिमानो वर्तते 'यमेवाहमर्थ प्रतिपद्ये तमेवायं प्रतिपाद्यते' एवं श्रोतुरपि योज्यम् । एकार्थाध्यवसायित्वं कथं २० वक्तृ - श्रोत्रोः परस्परं विदितम् इति न वाच्यम्, यतो यदि नाम परमार्थतो न विदितम् तथापि भ्रान्तिबीजस्य तुल्यत्वादस्त्येव परमार्थतः स्वसंविदितं प्रतिबिम्बकम् । स्वप्रतिभासानुरोधेन च तैमिरिकद्वयद् भ्रान्त एव व्यवहारोऽयमिति निवेदितम् तेनैकार्थाध्यवसायवशात् सङ्केत करणपपद्यत एव न चाप्यानर्थक्यं सङ्केतस्य, सङ्केतव्यवहारकालव्यापकत्व ( त्वं) प्रतिबिंबे वक्तृ - श्रोत्रोरध्यवसायातून परमार्थतः । यदुक्तम् २५ “व्यापैकत्वं च तस्येदमिष्टमाध्यवसायिकम् । मिथ्यावभासिनो ह्येते प्रत्ययाः शब्दनिर्मिताः” ॥ [ तत्त्वसं० का० १२१२ ] ततः स्थितमेतद् न शब्दस्याकल्पितोऽर्थः सम्भवति । १ पृ० १७४ पं० २३ । पूर्वखल-आ० वा० बा० विना । २ " ननु चापोहपक्षेऽपि कथं संकेतसंभवः । साफल्यं च कथं तस्य न द्वयोः स हि सिद्ध्यति” ॥ " वक्तृ श्रोत्रोर्न हि ज्ञानं वेद्यते तत् परस्परम् । संकेते न च तद् दृष्टं व्यवहारे समीक्ष्यते” ॥ 1 तत्त्वसं ० का ० १२०८ - १२०९ पृ० ३६४ ॥ ३- त्वमिति श- भ० मां० विना । ४- त्यात्मसंवेद्य भ० मां० । “प्रत्यात्मसंवेदनीयमेवाऽवग्दर्शनान ज्ञानम् । न ह्यन्यदीयज्ञानमपरोऽपरदर्शनः संवेदयते । ज्ञानादव्यतिरिक्तश्च" - तत्त्वसं० पजि० पृ० ३६५ पं० ३ | ५- त्मकल - भ० मां० । ६ कुत वा० वा० । ७ क्रियते भां० मां० । ८ श्रोत्रा यत् प्रतिपाद्यते आ० । श्रोता यत् प्रतिपाद्यते वि० हा० । ९-त्वात् व्यव - आ० हा ० वि० । १० “स्वस्य स्वस्यावभासस्य वेदनेऽपि स वर्तते । बाह्यार्थाध्यवसाये यद् द्वयोरपि समो यतः " ॥ " तिमिरोपहताक्षो हि यथा प्राह शशिद्वयम् । खसमाय तथा सर्वा शाब्दी व्यवहृतिर्मता” ॥ तत्त्वसं० का ० १२१०-१२११ पृ० ३६५-३६६ । ११- म्भवे दो-आ० हा० वि० । १२-यं शब्दो भ० मां० विना । १३- त्पादात् भ० मां० । १४- यस्यैव वा० वा० हा ० वि० । १५ " प्रतिपद्यते " - तत्त्वसं० पञ्जि० पृ० ३६५ पं० २४ । १६- वदभ्रान्त-भां० मां० विना । १७ प्र० पृ० पं० १४ । १८- क्यं संकेत व्यवहार भां० म० विना । १९ व्यापकत्वस्य प्रति-भां० मां० वा० बा० । “संकेतव्यवहाराप्तकालव्यापकत्वं च " - तत्त्वसं० पञ्जि० पृ० ३६६ पं० १० । २० - बिम्बं व-आ० । २१ - पकं च वा० वा० आ० हा० वि० । २२ तस्येवमि - वा० बा० । तस्यैवमि आ० हा ० वि० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy