SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोर्मीमांसा । २३१ पोहः' इति प्रस्तावे 'अन्यापोहः शब्दार्थः' इत्युक्ते प्रतिपत्तुर्यथोक्तप्रतिबिम्बलक्षणान्यापोहाध्यवसायी प्रत्ययः समुपजायते अर्थानुर्थात् तु)विधिरूपशब्दार्थनिषेधः । अथ घटादिशब्दमधिकृत्य, तत्रापि यथोक्तप्रतिबिम्बलक्षणोऽपोहः साक्षाद् घटादिशब्दैरुपजन्यमानत्वाद् विधिरूप एव तैः प्रतिपाद्यते, सामर्थ्यात् त्वन्यनिवृत्तेरधिगम इति नानिष्टापत्तिः। न चाप्यनवस्थादोषः, सामर्थ्यादन्यनिवृत्तेर्गम्यमानत्वात् न तु वाच्यतयाँ । अवाच्यपक्षस्यानङ्गीकृतत्वादेव न तत्पक्षभाविदोषोदयावकाशः। ५ 'अपि चैकत्व-नित्यत्व'-इत्यादावपि, यदि पारमार्थिकैकत्वाद्युपवर्णनं कृतं स्यात् तदा हास्यकरणं भवतः स्यात् : यदा तु भ्रान्तप्रतिपत्ननुरोधेन काल्पनिकमेव तद् आचार्येणोपवर्णितं तदा कथमिव हास्यकरणमवतरति विदुषः किन्तु भवानेव विवक्षितमर्थमविज्ञाय दूषयन् विदुषामतीव हास्यास्पदमुपजायते । _ 'तस्माद् येष्वेव शब्देषु नभ्योगः' इत्यादावपि, 'नं केवलं यत्र नभ्योगस्तत्रान्य विनिवृत्त्यंशोऽवगम्यते, यत्रापि हि नभ्योगो नास्ति तत्रापि गम्यत एव' इति स्ववाचैवैतद् भवता प्रतिपादितम् 'स्वात्मैव गम्यते' इत्यवधारणं कुर्वता; अन्यथाऽवधारणवैयर्थ्यमेव स्यात् यतः 'अवधारणसामर्थ्यादन्यापोहोऽपि गम्यते' इति स्फुटतरमेवावसीयते । ने च वन्ध्यासुतादिशब्दस्य बाह्य सुतादिकं वस्त्वन्यव्यावृत्तमपोहाश्रयो नास्तीति किमधिष्ठानोऽपोहो वाच्य इति वक्तव्यम् , यतो न तद्विषयाः शब्दा जात्यादिवाचकत्वेनाशङ्कयाः 'वस्तुवृत्तीनां हि शब्दानां १५ किं रूपमभिधेयम् , आहोश्वित् प्रतिबिम्बम्' इत्याशङ्का स्यादपि, अभौवस्तु वस्तुविवेकलक्षण एवेति तद्वृत्तीनां शब्दानां कथमिव वस्तुविषयत्वाशङ्का भवेत् इति निर्विषयत्वं स्फुटमेव तत्र शब्दानां प्रतिबिम्बकमात्रोत्पादादवसीयत एव ।। __अत एव "ये सङ्केतसव्यपेक्षास्तेऽर्थशून्याभिजल्पाऽऽहितवासनामात्रनिर्मित विकल्पप्रतिबिम्बमात्रावद्योतकाः, यथा वन्ध्यापुत्रादिशब्दाः, कल्पितार्थाभिधायिनः सङ्केतसव्यपेक्षाश्च विवादास्प-२० दीभूता घटादिशब्दा इति स्वभाव हेतुः । यद्वा परोपगतपारमार्थिकजात्याद्यर्थाभिधायका न भवन्ति घटादिशब्दाः, सङ्केतसापेक्षत्वात् , कल्पितार्थाभिधानवेत् । न च हेतोरनैकान्तिकता, क्वचित् साध्य १ अथानु आ० हा० वि० विना। "अर्थात् तु"-तत्त्वसं० पञ्जि. पृ. ३६२ पं० १७। २ पृ. २०१पं० १० तथा ३४। ३-त्वान्न वाच्य-भां. मां०। ४-या वाच्य-आ. हा० वि०। ५ पृ० २.१५० १६ । ६ “एकत्व-नित्यतादिश्च कल्पितो न तु तात्त्विकः । तदत्र हासकरणं महाविद्वत्त्वसूचकम्" ॥ तत्त्वसं० का० १२०० पृ. ३६२ । ७ पृ० २०१५० १८। ८-पि केव-भां० मां० वा० बा० विना । ९ "अवधारणसामर्थ्यादन्यापोहोऽपि गम्यते । खात्मैव गम्यते यत्र विफलो नियमोऽन्यथा" ॥ तत्त्वसं० का० १२०१ पृ. ३६३ । १०-न्यनि-भां० मा०। ११ पृ. २०१ पं० १९ । १२ “यस्य तर्हि न बाह्योऽर्थोऽप्यन्यथावृत्त इष्यते । वन्ध्यासुतादिशब्दस्य तेन क्वाऽपोह उच्यते" ॥ तत्त्वसं० का० १२०२ पृ० ३६३ । १३ "रूपाभावादभावानां शब्दा जात्यादिवाचकाः। नाऽऽशङ्ख्या एव सिद्धास्ते निर्भासस्यैव सूचकाः" ॥ अर्थशून्याभिजल्पोत्थवासनामात्रनिर्मितम् । प्रतिबिम्बं यदाभाति तच्छब्दैः प्रतिपाद्यते" ॥ तत्त्वसं० का० १२०३-१२०४ पृ. ३६३ । १४-वृत्तानां वा० बा०। १५-भावस्तु वस्तूविवेक-वा. या० ।-भावस्तु विवेक-आ० ।-भाववस्तुविवेक-वि० । १६ "तन्मात्रद्योतकाश्चेमे साक्षाच्छब्दाः ससंशयाः । संकेतसव्यपेक्षत्वात् कल्पितार्थाभिधानवत्" ॥ ___ तत्त्वसं० का० १२०५ पृ. ३६४ । १७-तवैकल्प-भां० मा0 वा. बा. विना। १८ "परोपगतमेदादिविधानप्रतिपादकाः । न चैते ध्वनयस्तस्मात् तद्वदेवेति गम्यताम्" ॥ तत्त्वसं० का० १२०६ पृ. ३६४ । १९-वत् हे-आ० हा० वि० । २० संकेतासंभवो पत्र भेदादौ साधितः पुरा । वैफल्यं च न तद्धत्वोः संदिग्धव्यतिरेकिता"॥ तत्त्वसं० का० १२०७ पृ. ३६४ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy