SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २३० प्रथमे काण्डे तत्रापि यथाऽसौ बाह्यरूपतया भ्रान्तैरवसीयते न तथा स्थित इति बाह्यरूपत्वाभावाने भावः, न चाभावो बाह्यवस्तुतयाऽव्य(ध्य)वसितत्वात् इति कथं 'यदि भावः स किं गौः' इत्यादि(दे) कपक्षभाविनः 'प्रेष-सम्प्रतिपत्त्योरभावः' इत्यादेश्चाभावपक्षभाविनो दोषस्यावकाशः? अथ पृथक्त्वै. कत्वादिलक्षणः कस्मान्न भवति ? व्यतिरेको(काऽ)व्यतिरेकाऽऽश्रिताऽनाश्रितत्वादिवस्तुगतधर्माणां ५कल्पनाशिल्पिघटितविग्रहेऽपोहेऽसम्भवात् । यञ्चोक्तम्-'क्रियारूपत्वादेपोहस्य विषयो वक्तव्यः' इति, तदसिद्धम् ; शब्दवाच्यस्यापोहस्य प्रतिबिम्बात्मकत्वात् । तच्च प्रतिबिम्बकम् अध्यवसितबाह्यवस्तु. रूपत्वाद् न प्रतिषेधमात्रम् ; अत एव 'किं गोविषयः अथाऽगोविषयतः (षयः)' इत्यस्य विकल्प यस्यानुपपत्तिः गोविषयत्वेनैव तस्य विधिरूपतयाऽध्यवसीयमानत्वात् । १० यच्चोक्तम्-'केन ह्यगोत्वमासक्तं गोर्येनैतदपोह्यते' इति, अत्रापि, यदि हि प्राधान्येनान्यनिवृत्तिमेव शब्दः प्रतिपादयेत् तदैतत् स्यात् यावतार्था(थ)प्रतिबिम्बकमेव शब्दः करोति, तद्गतौ च सामर्थ्यादन्यनिवर्त्तनं गम्यत इति सिद्धान्तानभिज्ञतया यत् किश्चिदभिहितम् । व्यतिरेकाव्यतिरेकादिविकल्पः पूर्वमेव निरस्तः । यदुक्तम्-'किमयमपोहो वाच्यः' इत्यादि, १५ तत्रीन्योपोहे 'वायत्वम्' इति विकल्पो यद्यन्यापोहशब्दमधिकृत्याभिधीयते तदा विधिरूपेणैवासौ तेन शब्देन वाच्य इत्यभ्युपगमान्नानिष्टापत्तिः। तथाहि-'किं विधिः शब्दार्थः आहोश्विदन्या १ "न भावो नापि चाभावोऽपृथगेकत्वलक्षणः । नाश्रिताऽनाश्रितोऽपोहो नैकानेकश्च वस्तुतः" ॥ ___ "तथाऽसौ नास्ति तत्त्वेन यथाऽसौ व्यवसीयते । तत्र भावो न चाभावो वस्तुत्वेनाऽवसायतः"॥ तत्त्वसं. का. ११८९-११९. पृ. ३६०-३६१ । २ भ्रान्तेर-वा. बा.। ३-न्न भावो बाह्यवस्तुतया आ० वा. बा० ।-न्न भावो बाह्यवस्तु तथाऽव्यवस्थितत्वा-हा० वि०। ४ "बाह्यरूपतया दर्शितत्वात्"-तत्त्वसं० पञ्जि. पृ० ३६१ पं. ७। ५-त्यादिभाव-भां. मां० हा. वि. विना । पृ. २००५० १२ तथा २६ । ६ पृ. २०० पं० १३ तथा २८ । ७-ति व्यतिरेकाश्रि-भां० मां. विना । ८ "भेदाभेदादयः सर्वे वस्तुसत्परिनिष्ठिताः । निःखभावश्च शब्दार्थस्तस्मादेते निरास्पदाः"॥ तत्त्वसं० का० ११९१ पृ. ३६१ । "व्यतिरेकाव्यतिरेकादयः"-तत्त्वसं० पजि० पृ० ३६१ पं० ११।। ९ पृ. २०० पं० १६ । १० क्रियाया रू-आ. हा. वि.। ११-दपोह्यस्य भा. मा. विना । १२ विषय इ-क । “-विषयः"-तत्त्वसं० पजि० पृ. ३६१ पं० १५। १३ पृ० २०० पं० १७। १४ पृ. २०. पं० १९ तथा ३६ । १५-क्तं गौर्येनै-आ० हा० विना। १६ “अन्यार्थविनिवृत्तिं च साक्षाच्छब्दः करोति नः । कृते खार्थाभिधाने तु सामर्थ्यात् साऽवगम्यते"॥ “न तदात्मा परात्मेति विस्तरेणोपपादितम् । (पृ. २०३ पं० २३ ) परपक्षानभिज्ञेन तस्मादेतदिहोच्यते" ॥ "केन ह्यगोत्वमासक्तं गोयनैतदपोह्यते । इति नैवाभिमुख्येन शब्देनैतदपोह्यते" ॥ तत्त्वसं० का० ११९२-११९३-११९४ पृ० ३६१ । १७ “यावताऽर्थप्रतिबिम्बकमेव"-तत्त्वसं० पजि. पृ. ३६१ पं० २५। १८ प्र. पृ. ५० ५। १९ पृ. २०१५० ८। २. “कतमेन च शब्देन वाच्यत्वं परिपृच्छयते । अपोहस्य किमेतेन यदि वा किं घटादिना" ॥ "शब्दार्थः किमपोहो वा विधिर्वेति निरूपणे । अपोह इति भाव्यतद् यत् तदेवं प्रतीयते" ॥ "प्रतिबिम्बं हि शब्दार्थ इति साक्षादियं मतिः। जात्यादिविधिहानिस्तु सामर्थ्यादवगम्यते"। “घट-वृक्षादिशब्दाश्च तदेव प्रतिबिम्बकम् । ब्रुवन्ति जननात् साक्षादर्थादन्यत् क्षिपन्ति तु" ॥ "तस्मान्न विधिदोषोऽस्ति नानिष्ठा च प्रसज्यते । अवाच्यपक्षदोषस्तु तदनङ्गीकृतेर्न नः" ॥ तत्त्वसं. का. ११९५-११९६-११९७-११९८-११९९ पृ. ३६२ । २१-न्यापोह्यवा-वा. बा०। २२-च्यत्वमिति कल्पे आ. हा. वि० ।-च्यत्वविकल्पे भां. मां। "तत्रान्यापोहवाच्यत्वविकल्पः"-तत्त्वसं० पजि. पृ. ३६२ पं० १४। २३ आहोश्चिद-हा. वि. । आहेतस्विदवा. बा.।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy