SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २३४ प्रथमे काण्डेअथ प्रथमं शब्द-लिङ्गाभ्यां जातिरवसीयते ततः पश्चात् तया स्वलक्षणं लक्ष्यते तेन विना तस्या अयोगादिति लक्षितलक्षणया प्रवृत्तिर्भवेत् , नैतदपि सम्यक् न ह्यत्र क्रमवती प्रतीतिः-पूर्व जातिराभाति पश्चात् स्वलक्षणमिति । किञ्च, जात्यापि स्वलक्षणं प्रतिनियतेन वा रूपेण लक्ष्येत, साधारणेन वा ? तत्र न तावदाद्यः पक्षः, प्रतिनियतरूपस्य स्वलक्षणस्य प्रतिपत्तेरसम्भवात् नहि ५शब्दानुमानवेलायां जातिपरिमितं प्रतिनियतं स्वलक्षणमुद्भाति सर्वतो व्यावृत्तरूपस्याननुभवात्, अनुभवे वा प्रत्यक्षप्रतिभासाविशेषः स्यात् । न च प्रतिनियतरूपमन्तरेण जातिर्न सम्भवति, तत् कुतस्तया तस्य लक्षणम् ? अथापि साधारणेन रूपेण तया स्वलक्षणं लक्ष्यते 'दाहादियोग्यं वलिमाप्रमस्ति' इति, तदप्यसत्; साधारणस्यापि रूपस्यार्थक्रियाऽसम्भवात् प्रतिनियतस्यैव रूपस्य तत्र सामोपलब्धेः; ततश्च तत्प्रतिपत्तावपि कथं प्रवृत्तिः? पुनस्तेनापि साधारणेनापरं साधारणं रूपं १०प्रत्येतव्यम् तेनाप्यपरमिति साधारणरूपप्रतिपत्तिपरम्परा निरवधिर्भवेत् तथा चार्थक्रियासमर्थरूपानधिगतेर्वृत्त्यभाव एव । किञ्च, यदि नाम जातिराभाति शब्द-लिङ्गाभ्याम् व्यक्तेः किमायातम् येन सा तां व्यनक्ति ? तयोः सम्बन्धादिति चेत्, सम्बन्धस्तयोः किं तदा प्रतीयते, उत पूर्व प्रतिपन्नः? नं तावत् तदा भात्यसौ व्यक्तेरनधिगते; केवलैव हि तदा जाति ति यदि तु व्यक्तिरपि तदा भासेत तदा किं लक्षितलक्षणेन ? सैव शब्दार्थः स्यात् । तदनधिगमे न तत्सम्बन्धाधिगतिः । अथ पूर्वमसौ १५ तत्र प्रतीतः तथापि तदैवासौ भवतु; नोकदा तत्सम्बन्धेऽन्यदापि तथैव भवति अतिप्रसङ्गात् । अथ जातेरिदमेव रूपम् , यदुत विशेषनिष्ठता? ननु 'सर्वदा सर्वत्र जातिविशेषनिष्ठा' इति किं प्रत्यक्षे. णावगम्यते, यद्वाऽनुमानेन ? तत्र न तावत् प्रत्यक्षेण सर्वव्यक्तीनां युगपदप्रतिभासनान्नैकदा तन्निठता तेन गृह्यते, क्रमेणापि व्यक्तिप्रतीतौ निरवधेय॑क्तिपरम्परायाः सकलायाः परिच्छेत्तुमशक्यत्वात् तनिष्ठता न जातेरधिगन्तुं शक्या । कादाचित्के तु जातेर्व्यक्तिनिष्ठताऽधिगमे 'सर्वदा न तनिष्ठता' २० इत्युक्तम् । तन्न प्रत्यक्षेण जातेस्तनिष्ठता प्रतिपत्तुं शक्या। नाप्यनुमानेन, तत्पूर्वकत्वेन तस्य तद्भावेनाप्रवृत्तेः । तन्न जात्यापि तद्भावे व्यक्तेरधिगमः कर्तुं शक्यः। किञ्च, यदि जातिरभिधानगोचरः तथा सति नीलत्वजातिरुत्पलत्वजातिश्च द्वयमपि परस्परमिन्नं प्रतीतमिति न सामानाधिकरण्यं भवेत् ; न हि परस्परविभिन्नार्थप्रतीतौ तद्यवस्था 'घटः पटः' इति दृश्यते । अथ गुण-जाती प्रतिनियतमेकमधिकरणं बिभ्राते ततस्तद्वारेणैकाधिकरणता २५शब्दयोः। ननु गुणजातिप्रतीतौ शब्दजायां न तद्धिकरणमाभाति तस्य शब्दागोचरत्वात्, न चानुद्भासमानवपुरधिकरणं सन्निहितमिति न समानाधिकरणताव्यवस्था अतिप्रसङ्गात्, पुनरपि तदेव वक्तव्यम्-शब्दैरनभिधीयमानमधिकरणं तदभिहितैर्जात्यादिभिराक्षिप्यमाणं तद्यवस्थाकारि' इति । तत्र च समाधिन सामायातमधिकरणं (मधिकरणमेकाधिकरणतां) शब्दयोः कर्तुमलम्, घट-पटशब्दयोरपि ताभ्यामभिहिताभ्यामेकस्य भूतलादेराधारस्याऽऽक्षेपादेकार्थताप्रसङ्गात् । तथा, ३० जातिपक्षे धर्मधर्मिभावोऽप्यनुपपन्न एव, यदि हि व्यक्तावाश्रिता जातिः प्रेतीयेत तदा तद्धर्मः स्यात्, यदा तु व्यक्तिः सत्यपि नाभाति शब्दजे ज्ञाने तदा जातेरेव केवलायाः प्रतिभासनात् कथं जाति-जातिमतोर्धर्मधर्मिभावः? नहि नीलादिः केवलं प्रतीयमानः कस्यचिद्धर्मो धर्मी वा; यदापि प्रत्यक्षे द्वयं प्रतिभाति तदाऽपि भेदप्रतिभासे सति न धर्मधर्मिभावः, सर्वत्र तथाभावप्रसङ्गात् । अथ प्रत्यक्षे तादूप्यं प्रतिभाति जाति-व्यक्त्योः तेनायमदोष इति चेत्, अत्रोच्यते-तादूप्येण विज्ञान३५मिति किं व्यक्तिरूपतया जातेरधिगतिः, अथ जातिरूपतया व्यक्तेरिति? तत्र यद्याद्यः पक्षः तथा सति व्यक्तिरेव गृहीता न जातिः। द्वितीयेऽपि जातिरूपाधिगतिरेव न व्यक्तिरिति न सर्वथा धर्मिधर्मभावः । तन्न जातिः शब्द-लिङ्गयोर्विषयः। १ तस्य अयोगा-आ। तस्या योगा-भां० म०। २ लक्षिते लक्षणाया प्र-वा. बा० । लक्षितलक्षणयोः प्र-आ• हा० वि०। ३-मुद्भवति वा० बा०। ४-भासवि-वा० बा०। ५-सा व्यन-भा० मा० विना। ६ न भवेत् तदा आ० । न सावेत् तदा वि.। न सावच्छदा हा० । न च तदा वा० बा० । -दा प्रतिभा-भां० मा०। ८ यदि त ब्य-वा० बा० । यदि व्य-आ• हा० वि०। ९ तचेव वा. बा० । तदैव वि०। १०-स्परतो मि-भां० मां। ११-समाधिकरणं विभाते ततस्तद्धारेणैकाविकरणमेका. धिकरणतां शब्दयोः कर्तुमलम् , घट-वा. बा० । १२-ायत-आ० वि०। १३ प्रतीयते भां. मां. विना।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy