SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ २२६ प्रथमे काण्डेसिद्धान्त० पृ० २९९ ] इत्यनेन पूरणार्थे 'यत्'प्रत्ययविधानात् । 'तद्विविक्तोऽसौ' इति औदासिन्या. 'दिविविक्त (क्तः), 'विधिवाक्येन सममन्यनिवर्तनम्' इति यथा 'पचति' इत्यादौ विधिवाक्ये सामर्थ्यादौदासीन्यादिनिवृत्तिर्गम्यते तथा द्वितीयेऽपि नञि इति सिद्धमत्राप्यन्यनिवर्तनम् । स्पष्टार्थ तु नञ्चतुष्टयोदाहरणम्। ५ 'चादीनां नञ्योगो नास्ति' ईति, अत्र "समुच्चयादिर्यश्चार्थः कश्चिच्चादेरभीप्सितः। तदन्यस्य विकल्पादेर्भवेत् तेन व्यपोहनंम्" ॥ [ तत्त्वसं० का० ११५९ ] आदिशब्देना(न) 'वा'शब्दस्य विकल्पोऽर्थः, 'अपि'शब्दस्य पदार्थासम्भवानाऽ(र्थसम्भावना) न्ववसर्गादयः, 'तु'शब्दस्य विशेषणम्, 'एच'कारस्यावधारणमित्यादेर्ग्रहणम् । 'तदन्यस्य' इति १० तस्मात् समुच्चयादन्यस्य, 'तेन' इति चादिना । 'वाक्यार्थेऽन्यनिवृत्तिश्च व्यपदेष्टुं न शक्यते' 'इति, अत्रापि कार्यकारणभावेन सम्बद्धा एव पदार्था वाक्यार्थः यतो न पदार्थव्यतिरिक्तो निरवयवः शबलात्मा वा कल्माषवर्णप्रख्यो वाक्यार्थोऽस्ति, उपलब्धिलक्षणप्राप्तस्य तादृशस्यानुपलब्धेः पदार्थस्य चापोहरूपत्वं सिद्धमेव । तथाहि-'चैत्र! गामानय' इत्यादिवाक्ये वैत्रादिपदार्थव्यतिरेकेण बुद्धौ १५ नान्योऽर्थः परिवर्तते चैत्राद्यर्थगतौ च सामर्थ्यादचैत्रादिव्यवच्छेदो गम्यते; अन्यथा यद्यन्यकादि. व्यवच्छेदो नाभीष्टः स्यात् तदा चैत्रादीनामुपादानमनर्थकमेव स्यात् । ततश्च न किञ्चित् कश्चिद् व्यवहरेदिति निरीहमेव जगत् स्यात् । 'अनन्यापोहशब्दादौ वाच्यं न च निरूप्यते' 'ईति, १-दिविक्तः वा. बा। दिव्यक्त-भां०मा०। २ पृ. २२५५०४०। ३ वादी-आ. विना। ४ पृ. १९८ पं० १७ तथा ३९ । ५ शास्त्रवा० स्याद्वादक० पृ. ४०८ प्र. पं० २। ६ आदिशब्दे वा वा. बा० विना । “आदिशब्देन 'वा' शब्दस्य"-तत्त्वसं० पनि० पृ. ३५४ पं० १९। ७ कल्पार्थः भां० मां० । ८ पदार्थासंभवानान्वसर्गा-आ० । पदार्थासंभवीनाच्चसर्गा-हा० । पदार्थासंभवनाच्चसर्गा-वि० । ९-नात्वयसर्गा-वा० बा० । “अपिः पदार्थ-संभावनाऽन्ववसर्ग-गहरे-समुच्चयेषु'-पाणि अ० १ पा० ४ सू० ९५ महाभा० पृ. २९६ । काशि० अ०१ पा० ४ सू० ९६ पृ० ८१। “'अपि' शब्दस्य पदार्थ-संभावनान्ववसर्गादयः"-तत्त्वसं. पजि. पृ. ३५४ ५ १९। "गर्हा-समुच्चय-प्रश्न-शङ्का-संभावनास्वपि"-अमर० का० ३, लो० २४८ । "अपि पदार्थाऽनुवृत्त्यपेक्षा-समुच्चयाऽन्ववसर्ग-गहाऽऽशी:-संभावन-भूषण-संवरण-प्रश्नाऽवमर्शेषु" -है. तत्त्वप्र. महा० न्या० पृ. ६५५०४-१०। “अपि संभावनाशकागर्हणासु समुच्चये ॥ प्रश्न युक्तपदार्थेषु कामचारक्रियासु च"। है. अनेका० का० ७ ओ०३३-३४ । "गर्हा-समुच्चय-प्रश्न-शङ्का-संभावनाखपि" ॥ शाश्वत श्लो० ७८२ । “अपि संभावना-प्रश्न-शङ्का-गर्हा-समुच्चये । तथा युक्तपदार्थेषु कामचारक्रियासु च" ॥ बङ्गीयविश्व० अपिशब्दे। १० "समुच्चयादेरन्यस्य"-तत्त्वसं० पजि. पृ. ३५४ पं० २१ । ११ पृ० १९८ पं० १७ तथा ३९ । १२ "वाक्यार्थेऽन्यनिवृत्तिश्च सुज्ञातैव तथा ह्यसौ । पदार्था एव सहिताः केचिद् वाक्यार्थ उच्यते"॥ "तेषां च ये विजातीयास्तऽपोह्याः सुपरिस्फुटाः। वाक्यार्थस्याऽपि ते चैव तेभ्योऽन्यो नैव सोऽस्ति हि"॥ तत्त्वसं० का० ११६०-११६१ पृ. ३५४ । १३ वाच्यार्थी-भां. मां। "वाक्यार्थों"-तत्त्वसं० पजि. पृ. ३५५ पं०३ । “तद्वयतिरिक्तनिरवयवस्य शबलात्मनः कल्माषवर्णप्रख्यस्य वाक्यार्थस्याऽनुपलब्धेः"-शास्त्रवा० स्याद्वादक. पृ. ४०८ प्र. पं० ५। १४ "चैत्र! गामानयेत्यादिवाक्यार्थेऽधिगते सति । कर्तृ-कर्मान्तरादीनामपोहो गम्यतेऽर्थतः" ॥ तत्त्वसं० का० ११६२ पृ. ३५५ । शास्त्रवा० स्याद्वादक. पृ. ४०८ प्र.पं०४। १५ पृ. १९८ पं०२०। १६ पृ. १९९ पं. १ तथा २३ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy