SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ - तत्संबन्धयोर्मीमांसा | २२७ अत्र, नात्रे भवदभिमतो जात्यादिलक्षणो विधिरूपः शब्दार्थः परमार्थतोऽवसीयते जात्यादेर्निषिद्धत्वात् । “किन्तु विध्यैव साध्यस्माद् विकल्पो जायते ध्वनेः । पश्चादपोहशब्दार्थ निषेधे जायते मतिः” ॥ [ तत्वसं० का० ११६४ ] यैद्यनपोहशब्दादपोहशब्दार्थनिषेधे मतिर्जायते इतीष्यते न तर्ह्यपोहशब्दार्थोऽभ्युपगन्तव्यः तस्य निषिद्धत्वात्, असदेतत्; ५ “स त्वसंवादकस्तादृग्वस्तुसम्बन्धहानितः । न शाब्दाः प्रत्ययाः सर्वे भूतार्थाध्यवसायिनः " ॥ [ तत्वसं० का० १९६५ ] 'सः' इति अनन्यापोहशब्दादिः, 'असंवादकः' इति न संवदतीत्यसंवादकः, न विद्यते त्रा (वा) संवादो (संवादोऽस्येत्यसंवा) दकः । कस्मात् ? 'वस्तुसम्बन्धहानित:' तथाभूतवस्तुसम्बन्धाभावात् पूर्व हि जात्यादिलक्षणस्य शब्दार्थवस्तुनो निषिद्धत्वात् । यद्येवं तर्हि कथमनन्यापोहशब्दादिभ्योऽ-१० पोहशब्दार्थनिषेधे मतिरुपजायत इति उच्यते; वितथविकल्पाभ्या सवासनाप्रभवतया हि केचन शाब्दाः प्रत्यया असद्भूतार्थनिवेशिनो जायन्त एव इति न तद्वशाद् वस्तूनां सदसत्ता सिद्ध्यति । च 'प्रमेय- ज्ञेयशब्दादेः' इति, अत्र कैस्य प्रमेयादिशब्दस्यापोह्यं नास्तीत्यभिधीयते ? यदि तावैदवाक्यस्थ प्रमेयादिशब्दमाश्रित्योच्यते तदा सिद्धसाध्यता, केवैलस्य प्रयोगाभावादेव निरर्थकत्वात् यतः श्रोतृजनानुग्रहाय प्रेक्षा- १५ वद्भिः शब्दः प्रयुज्यते न व्यसनितया, न च केवलेन प्रयुक्तेन श्रोतुः कश्चित् सन्देह विपर्यासनिवृत्तिलक्षणोऽनुग्रहः कृतो भवेत् । तथाहि यदि श्रोतुः कचिदर्थे समुत्पन्नौ संशय-विपर्यासौ निवर्त्य " निस्सन्दिग्धप्रत्ययमुत्पादयेत् प्रतिपादक एवं तेनास्यानुग्रहः कृतो भवेत् नान्यथा । न च केवलेन शब्देन प्रयुक्तेन तथाऽनुग्रहः शक्यते कर्तुम्, तस्मात् संशयादिनिवर्त्तने निश्चयोत्पादने च श्रोतुरनुग्रहात् शब्दप्रयोग साफल्यमिति वाक्यस्थस्यैवास्य प्रयोगः । अथ वाक्यस्थमेव ज्ञेयादिशब्द मधि- २० कृत्योच्यते, तद् असिद्धम् ; तंत्र हि वाक्यस्थेन प्रमेयादिशब्देन यदेव मूढमैंतिभिः संशयस्थान मिष्यते १ " अनन्या हशब्दादौ न विधिर्व्यवसीयते । परैरभिमतः पूर्व जात्यादेः प्रतिषेधनात् " ॥ तत्त्वसं ० का ० ११६३ पृ० ३५५ । २- रूपश- मां० विना । ३ पृ० १७४ पं० २४ । ४- ध्यवशाय्यस्माद्वि-भां० मां० । ५ यद्यनपोहशब्दार्थ निषेधे आ० हा ० वि० । यद्यन्यपोहशब्दार्थ निषेधे वा० बा० । “ययपोहशब्दार्थनिषेधे मतिर्जायते"तत्त्वसं० पञ्जि० पृ० ३५५ पं० २० । ६ सर्वऽसं-आ० । ७-दक इति न संवादकः कस्मात् आ० हा० । ८ दकः कस्मात् वा० बा० विना । "न संवदतीत्यसंवादकः, न विद्यते वा संवादोऽस्येत्य संवादकः "तत्त्वसं० पञ्जि० पृ० ३५५ पं० २४ । ९ विवक्षा विक - वा० बा० । “ वितथविकल्पवासनावशात् तत्र तथाविधाविकल्पक्रमेणो (णा) न्यापोह निषेध मतिप्रवृत्तः " - शास्त्रवा० स्याद्वादक० पृ० ४०८ प्र० पं० ६ । १० यच्च ज्ञेय - प्रमेयश-भां० मां० वा० बा० विना । " यदपि ज्ञेय प्रमेयादिशब्दानां न किञ्चिदपोह्यमस्ति " - शास्त्रवा० स्याद्वादक ० पृ० ४०८ प्र० पं० ७। ११ पृ० १९९ पं० ४ तथा २३ । १२ " प्रमेय - ज्ञेयशब्दादौ कस्याऽपोह्यं न विद्यते । न ह्यसौ केवलोऽकाण्डे प्रेक्षावद्भिः प्रयुज्यते " ॥ तत्त्वसं० का० ११६६ पृ० ३५६ । १३- वद् वाक्यस्थ प्र-आ० हा ० वि० । १४ - वाक्यार्थ प्र-वा० बा० । १५ - वलप्रयोगा-भां० मी० । १६ “किन्त्वारेक-विपर्याससंभवे सति कस्यचित् । क्वचित् तद्विनिवृत्त्यर्थ धीमद्भिः स प्रयुज्यते” ॥ “निस्संदेहविपर्यासप्रत्ययोत्पादनादतः । तेनैव तैः प्रयुक्तेन साफल्यमनुभूयते” ॥ तत्त्वसं० का० ११६७-११६८ पृ० ३५६ । १९ - वर्तनेन नि-मां० मां० । २०- स्थ. १७- पर्ययौ भां० मां० । १८ निस्संदिग्धं प्र-भ० मां०। स्यैव प्र-भां०] मां० वा० बा० विना । २१- गः आद्यवा-भां० मां० । २२ - क्यस्तुमेव आ० हा ० वि० । २३ " यत् तत्र जडचेतोभिराशङ्कास्पदमिष्यते । तदेव क्षिप्यते तेन विफलोच्चारणाऽन्यथा ॥ " किञ्चिद्ध्यशङ्कमानोऽसौ किमर्थं परिपृच्छति । अतत्संस्कारकं शब्दं ब्रुवन् वा स्वस्थधीः कथम् " ॥ "चक्षुर्ज्ञानादिविज्ञेयं रूपादीति यदुच्यते । तेनाऽऽरोपितमेतद्धि केनचित् प्रतिषिध्यते” ॥ "न चक्षुराश्रितेनैव रूपं नीलादि वेद्यते । किन्तु श्रोत्राश्रितेनापि नित्येनैकेन चेतसा " ॥ तत्त्वसं० का० ११६९-११७०-११७१-११७२ पृ० ३५६-३५७ ॥ २४ - मतिभिः संशायास्था - वा० बा० । मतिभिराशङ्कास्था- मां० । मतिभिराशङ्कयस्था-भां० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy