SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे - क्रिया - कालादीनां त्वसत्त्वादेवायुक्तं वस्तुधर्मत्वम्, भवतु वा वस्तुधर्मत्वमेषां तथापि प्रतिबिम्बलक्षणस्यापोहस्य भ्रान्तैबा (न्तैर्वा) ह्यव्यक्तिरूपत्वेनावसितत्वाध्यवसायवशाद् व्यक्तिद्वारको लिङ्ग - सङ्ख्यादिसम्बन्धो भविष्यति, तेन यदुक्तम् 'व्यक्तेश्वाव्यपदेश्यत्वात् तद्वारेणापि नास्त्यसौ' इति, २२४ ५ तद नैकान्तिकम्, संवृतिपक्षे चासिद्धम् - "व्यक्तिरूपावसायेन यदि वाऽपोह उच्यते । तल लिङ्गाद्यभिसम्बन्धो व्यक्तिद्वारोऽस्य विद्यते” ॥ [ तत्त्वसं० का० ११४३ ] इति । 'अपोह उच्यते' इति' 'शब्देन' इति शेषः, 'तद्' इति तस्मात्, 'अस्य' इत्यपोहस्य | 'आख्यातेषु न च' इति, १० अत्र आख्यातेष्वन्यनिवृत्तिर्न सम्प्रतीयते इत्यसिद्धम् । तथाहि - जिंज्ञासिते कस्मिंश्चिदर्थे श्रोतु बुद्धि (द्धे) र्निवेशाय शब्दः प्रयुज्यते व्यवहर्तृभिः न व्यसनितयाः तेनाभीष्टार्थप्रतिपत्तौ सामर्थ्यादनभीष्टव्यवच्छेदः प्रतीयत एव, अभीष्टानभीष्टयोरन्योन्यव्यवच्छेदरूपत्वात् । सर्वमेवाभीष्टं यदि स्यात् तदा प्रतिनियतशब्दार्थो न प्राप्नोति इति या च कस्यचिदर्थस्य परिहारेण श्रोतुः क्वचिदर्थे शब्दात् प्रवृत्तिः सा न प्राप्नोति; तस्मात् 'सर्वमेवाभीष्टम्' इत्येतदयुक्तम्, अतः 'पचति' इत्यादिशब्दानामन१५ भीष्टव्यवच्छेदः सामर्थ्यात् स्फुटमवगम्यत एव - " तथाहि - पचतीत्युक्ते " नोदासीनो ऽवतिष्ठते । दीव्यति वा नेति गम्यतेऽन्यनिवर्तनम् ” ॥ [ तत्त्वसं० का० ११४६ ] तेन 'पर्युदासरूपं हि "निषेध्यं तत्र न विद्यते' इति यदुर्केम् तदसिद्धम् । येश्च - ' पचतीत्यनिषिद्धं तु स्वरूपेणैव तिष्ठति' । इति । २० तत्र स्ववचनन्याधीतः । तथाहि - 'पचति' इत्येतस्यार्थ 'स्वरूपेणैव' इत्यनेनावधारणेनावधारित १ पृ० १९७ पं० २८ तथा ४४ । “क्रिया - कालादियोगोऽपि पूर्वमेव निराकृतः । तम्मात् सांकेतिका एते न व्यक्तिष्वपि भाविनः " ॥ तत्त्वसं ० का ० ११४२ पृ० ३५१ ॥ २-थापि चेति बि-भां० मां० ।-थापि विति बि-आ० हा० वि० । ३ भ्रान्ति - वा० वा० विना । "भ्रान्तैर्बाह्यव्यक्तिरूपत्वेन" - तत्त्वसं० पञ्जि० पृ० ३५१ पं० ८ । ४ पृ० १९७ पं० ४४ - पृ० १९८ पं० २ । ५ ' अपोह उच्यते' अत्र वाक्ये | ६- ति विशेषः भ० मां० वा० वा० । ७ पृ० १९८ पं० ४ तथा २३ । ८ इति सि वा० बा० विना । ९ जिज्ञासते आ० । १० “अभिप्रेते निवेशार्थं बुद्धेः शब्दः प्रयुज्यते । अनभीष्टव्युदासोऽतः सामर्थ्येनैव सिद्धयति” ॥ तत्त्वसं० का० ११४४ पृ० ३५१ । “श्रोतुर्बुद्धेर्निवेशाय”-तत्त्वसं० पञ्जि० पृ० ३५१ पं० २० । ११ यदि यस्या - आ० । यदीयं स्याहा० वि० । 'यदीदं स्या' - वि० सं० । “सर्वमेव न चाभीष्टं सर्वार्थानियमाप्तितः । तत् पचत्यादिशब्दानां विनिवर्त्य परिस्फुटम् " ॥ तत्त्वसं० का० ११४५ पृ० ३५१ । १२ “प्रतिनियतः शब्दार्थः " - तत्त्वसं० पञ्जि० पृ० ३५१ पं० २६ । १३ - तदुक्तम् वि० । दा-आ० वि० । १५ शास्त्रवा० स्याद्वादक० पृ० ४०७ द्वि० पं० ४ । १६ अतः परम् १४- asal “औदासीन्यमतश्चैवमस्त्यन्यच क्रियान्तरम् । पर्युदासात्मकाऽपोह्यं नियतं यद्यदिष्यते” ॥ तत्त्वसं ० का ० ११४७ पृ० ३५२ । १७ निषेध्यं ति तत्र न हा० वि० । निषेध्य ति तत्र न आ० । १९ पृ० १९८० ७ तथा २७ । २० “ पचतीत्यनिषिद्धं तु स्वरूपेणैव तिष्ठति । इत्येतच्च भवद्वाक्यं परस्परपराहतम्” ॥ “अन्यरूपनिषेधोऽयं स्वरूपेणैव तिष्ठति । इत्यन्यथा निरर्थ स्यात् प्रयुक्तमवधारणम्” ॥ १८ पृ० १९८ पं० ६ तथा २३ । तत्त्वसं ० का ० ११४८-११४९ पृ० ३५२ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy