SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २२३ शब्दार्थ--तत्संबन्धयोर्मीमांसा । अत्र च कुमारिलो हेतोरसिद्धतां प्रतिपादयन्नाह-दारादिशब्दः कदाचित् जातौ प्रयुज्यते कदाचित व्यक्तीः तत्र यदा जातो तदा व्यक्तिगतां सङ्ग्यामपादाय वर्तते व्यक्तयश्च बहर यदा तु व्यक्तौ प्रयुज्यते तदा तयक्त्यवयवानां पाणि-पादादीनां बहुत्वसङ्ख्यामादाय वर्तते । वनशब्देन तु धव-खदिर पलाशादिलक्षणा व्यक्तयस्तत्सम्बन्धिभूतवृक्षत्वजातिगतसङ्ख्या विशिष्टाः प्रति द्यन्ते तेन 'वनम्' इत्येकवचनं भवति जातिगतैकसंख्याविशिष्टद्रव्याभिधानात् अथवा धवादि- ५ व्यक्तिसमाश्रिता जातिरेव 'वन'शब्देनोच्यते; तेनैकवचनं भवति जातेरेकत्वादिति । नन्वेवं 'वृक्षः' 'घटः' इत्यादावप्येकवचनमुच्छिन्नं स्यात् सर्वत्रैवास्य न्यायस्य तुल्यत्वात् । तथाहि-अत्रापि शक्यमेवं वक्तुम्-'जाती व्यक्ती वा वृक्षादिश्चेत् प्रयुज्यते' इत्यादि । अथ मतम्वक्षादी व्यक्तरवयवानां च सङ्ख्याविवक्षा नास्ति; यद्येवं न तर्हि वस्तुगतान्वयाद्यनुविधार्थिनी सङ्ख्या, विवक्षाया एवान्वय-व्यतिरेकानुविधानात् । ततश्च सैव 'दाराः' इत्यादिषु बहुवचनस्य निबन्धनमस्तु १० भेदाभावेऽप्येकमपि वस्तु बहुत्वेन विवक्ष्यते इति नासिद्धता हेतोः। यञ्चोक्तम्-'वनशब्दो जातिसङ्ख्याविशेषिता व्यक्तीराह' इति, तत्र, न जातेः सङ्खयांऽस्ति द्रव्यसमाश्रितत्वादस्याः । अथ वैशेषिकप्रक्रिया नाश्रीयते तदा भावे सङ्ख्यायास्तया कथं धवादिव्यक्तयो विशेषिताः सिद्ध्यन्ति ? स्यादेतत् सम्बद्धसम्बन्धात तत्सम्बन्धतो वा सिद्ध्यन्ति । तथाहि-यदा जादेर्व्यतिरेकिणी सङ्ख्या तदैकत्वसङ्ख्यासम्बद्धया जात्या १५ धवादिव्यक्तीनां सम्बन्धात् पारम्पर्येण तया धवादिव्यक्तयो विशेष्यन्ते; यदा तु जातेरव्यतिरिक्तैव सङ्ख्या तदा साक्षादेव सम्बन्धात् तया विशेप्यन्त इति जातिसङ्ख्या विशेषिताः सिद्ध्यन्ति, असदेतत्; यतो यदि सम्बद्धसम्बन्धात् सम्बन्धतो वा धवादिव्यक्तिषु वनशब्दस्य प्रवृत्तिस्तदैकोऽपि पादपो 'वनम्' इत्युच्येत प्रवृत्तिनिमित्तस्य विद्यमानत्वात् । तथाहि-बहवोऽपि धवादयो जातिसङ्ख्यासम्बन्धादेव 'वनम्' इत्युच्यते नान्यतः; स च सम्बन्धः एकस्मिन्नपि पादपेऽस्तीति किमिति न२० तेथोच्येत अथवा 'धवादिव्यक्तिसमाश्रिता' इत्यत्र पंक्षे एकस्यापि तरोः 'वनम्' इत्यभिधानं स्यात् । तथाहि-यैवासौ वनशब्देन जातिर्बहुव्यक्त्याश्रिताऽभिधीयते सैवैकस्यामपि धवादिव्यक्तौ व्यवस्थिता; ततश्च वनधियो निमित्तस्य सर्वत्र तुल्यत्वाद् एकत्रापि पादपे किमिति वनधीन भवेत् ? १ “तत्र व्यक्तौ च जातौ च दारादिश्चेत् प्रयुज्यते” ॥ "व्यक्तेरवयवानां च संख्यामादाय वर्तते । वनशब्दः पुनर्व्यक्तीर्जातिसंख्याविशेषिताः॥ बह्वीराहाऽथवा जाति बहुव्यक्तिसमाश्रयाम्"। श्लो० वा. वन) श्लो० ९१-९२-९३ पृ. ६३७ । तत्त्वसं० का० ११३५-११३६ पृ. ३४९ । २-तां न स-आ० हा० वि० । ३-क्षणव्य-वा० बा०। ४ जात्योरे-वा० बा० । ५ “ननु चैतेन विधिना सर्वमेकं वचो हतम् । नान्यत्राऽस्ति विवक्षा चेत् सैवास्त्वस्य निबन्धनम्" ॥ तत्त्वसं. का० ११३७ पृ. ३४९ । ६-यिनीं स-भां० मां०। ७ प्र० पृ. पं० ४ तथा २५ । ८ "जातेरपि न संख्याऽस्ति भावे वा तद्विशेषिताः । कथं संबद्धसंबन्धाद् यदि संबन्धतोऽपि वा" ॥ तत्त्वसं० का० ११३८ पृ. ३५० । ९-यादि द्रव्यमाश्रित-भां० मां० विना। १० भावस-वा० बा० । ११-न्ति तस्यादे-भां० मां. वा० बा० विना। १२-तत्संबन्धसंबन्धात् तत्सं-आ० बा० ।-तत्संबन्धात् तत्सं-हा० वि० । १३ “यद्येवमभिधीयेत वनमेकोऽपि पादपः । बहवोऽपि हि कथ्यन्ते संबन्धादेव सोऽस्ति च" ॥ तत्त्वसं• का० ११३९ पृ. ३५० । १४ संबन्धसं-आ० हा०। १५-त्युच्यते भां० मां विना। १६-हवो ध-भां० मा० वा. बा. विना। १७-थोच्यते आ०। १८ अथ थ-वा. बा. विना। "बहुव्यक्त्याश्रिता या च सैवैकस्यामपि स्थिता । तन्निमित्तस्य तुल्यत्वात् तत्रापि वनधीभवेत् ॥ "अन्वय-व्यतिरेकाभ्यामेकादिवचसस्ततः । नियमोऽयं विवक्षातो नार्थात् तद्वयभिचारतः" ॥ तत्त्वसं० का० ११४०-११४१ पृ. ३५० । १९ प्र. पृ. पं० ५। २० पदे भां० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy