SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २२२ प्रथमे काण्डे 'स्थितिः' 'स्थानम्' 'स्वभावः' चेत्यादिभिः शब्दैः कथमुच्येत? अथ स्थित्यादीनां परस्परमविभक्तरूपत्वात् प्रत्येकमेषु लिङ्गत्रययोगिता; ननु यद्येषां परस्परमविभक्तं रूपं तदैकमेव परमार्थतो लिङ्गं स्यात् न लिङ्गत्रयम्। अन्यस्त्वाह-"स्त्रीत्वादयो गोत्वादय इव सामान्यविशेषाः" [ ]। तत्र पसे ५सामान्य विशेषाणामौवा(वात्) स्त्रीत्वादीनामपि तद्रूपाणामभाव इत्यसम्भवि लक्षणम् । किच, तेष्वेवे सामान्य विशेषेवन्तरेणाप्यपरं सामान्यविशेष 'जातिः' 'भावः' 'सामान्यम्' इत्यादेः स्त्री-पु-नपुंसकलिङ्गस्य प्रवृत्तिदर्शनात् अव्यापिता च लक्षणस्य, न हि सामान्येष्वपराणि सामान्यानि "निःसामान्यानि सामान्यांनि" [ ] इति वैशेषिकसिद्धान्तात् । यदा तु सामान्यस्याप्यपराणि सामान्यानीष्यन्ते वैयाकरणैः-यथोक्तम् "अर्थजात्यभिधानेऽपि सर्वे जातिविधायिनः। व्यापारलक्षणा यस्मात् पदार्थाः समवस्थिताः" ॥ [ वाक्यप० तृ० का० श्लो० ११] न हि शास्त्रान्तरपरिदृष्टा जातिव्यवस्था नियोगतो वैयाकरणैरभ्युपगन्तव्या, प्रत्ययाभिधा. नाऽन्वयव्यापारकार्योन्नीयमानरूपा हि जातयः न हि तासामियत्ता काचित्; अतो यथोदितकार्यदर्शनात् सामान्याधारा जातिः सम्प्रतिज्ञायते तथाभूतप्रत्यय-शब्दनिबन्धनम् । 'व्यापारलक्षणा' १५इति अभिधानप्रत्ययव्यापारतो व्यवस्थितलक्षणा इत्यर्थः तदाऽनन्तरोक्तमेव दृषणम्स्याभावात्' इत्यादि । अपि च, न हि असत्सु शशविषाणादिषु जातिरस्ति वस्तुधर्मत्वात् तस्याः; इति तेषु 'अभावआदिशब्दप्रयोगो न स्यात् । तस्माद्व्यापिनी लिङ्गव्यवस्थेतीच्छारचितसङ्केत. मात्रभाविन्येवेयं लिङ्गत्रयव्यवस्थेति स्थितम् । सङ्ख्याया अपि वस्तुगतान्वयव्य तिरेकानुविधानाभावो नौसिद्धः । तथाहिं'-सी मायिक्ये २० (क्येव) न वास्तवी दारोंदिष्वसत्यपि वास्तवे" भेदे विवक्षावशेनोपकल्पितत्वात्; अन्यथा बहुत्वै. कत्वादिसङ्ख्या वस्तुगतभेदाभेदलक्षणा यदि स्यात् तदा 'आप' 'दारा' 'सिकताः' 'वर्णः' इत्यादावसत्यपि वैस्तुनो भेदे बहुत्वसङ्ख्या कथं प्रवर्तते? तथा, 'वनम्' 'त्रिभुवनम्' 'जगत्' 'षण्णगरी' इत्यादिष्वसत्यप्यभेदेऽर्थस्यैकत्वसङ्ख्या न व्यपदिश्येत; अतो नासिद्धता हेतोः । नाप्यनेकान्तिकः सर्वस्य सर्वधर्मत्वप्रसङ्गात् , सपक्षे भावाच्च न विरुद्धः। १-मुच्यते भां० मां० विना। २-कमेवं प-भां० मां० ।-कमेक प-वा० बा० । ३ "गोत्वादय इवैतेऽपि यदि स्त्रीत्वादयो मताः । सामान्यस्य निरासेन तेऽपास्ता एव तादृशाः" ॥ तत्त्वसं० का० ११३१ पृ. ३४७ । शास्त्रवा० स्याद्वादक. पृ. ४०७ प्र. पं० २। ४-भाव स्त्री-भां०।-भावा स्त्रीत्वानाना-आ० । 'भावात् वि० सं० । “सामान्यविशेषाणां निरस्तत्वात्"तत्त्वसं० पञ्जि. पृ० ३४८ पं० २। ५ "जाति वश्च सामान्यमिति वा तेषु संमतम् । न सामान्यानि युज्यन्ते सामान्येष्वपराणि हि" ॥ तत्त्वसं. का. ११३२ पृ० ३४८ । ६ वाक्यप० तृ. का. पृ० १७ पं०८। ७ "सर्वे जात्यभिधायिनः"-वाक्यप० तथा तत्त्वसं० पञ्जि. पृ. ३४८ पं० ११। ८ शास्त्रवा० स्याद्वादक० पृ. ४०७ प्र. पं०६। ९ “सामान्याधारा जातिः सती 'जातयः' इत्यस्याः श्रुतेर्निबन्धनमिति। 'व्यापारलक्षणा' इति"-तत्त्वसं० पजि. पृ० ३४८ पं० १५। १०-म्प्रति जा-मां० । ११-यते यथा वि०। १२ तथा-भां० मां०। १३ प्र० पृ. पं० ५। १४ “अभावो निरुपाख्यत्वं तुच्छतेत्यादि वा कथम् । सामायिक्येव तेनैषा लिङ्गत्रितयसंस्थितिः ॥ तत्त्वसं० का० ११३३ पृ० ३४८ । १५ वाक्यप० तृ• का० श्लो० ६. पृ. ५४ । १६ तथापि सा वा० वा. विना। १७ “संख्याऽपि सा मायिक्येव कल्प्यते हि विवक्षया। भेदाभेदविवेकेऽपि दारादि-विपिनादिवत् ॥ तत्त्वसं० का० ११३४ पृ. ३४८ । १८ सापि सामायित्येव न वा-भां. मां० । सा सायि सामायिक्येन वन वा-वा. बा०। । १९-रादिपु स-आ• हा० वि०। २०-वे च मे-वि०। २१ शास्त्रवा० स्याद्वादक. पृ. ४०७ प्र. पं० १०। २२ वस्तुतो भे-वा० बा० विना। २३-देऽपि ब-आ० हा• वि०। २४-कत्वं स-आ० बा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy