SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोर्मीमांसा । २२१ यदन्वय व्यतिरेको नानुविधत्ते नासौ तद्धर्मः, यथा शीतत्वमग्नेः, नानुविधत्ते च लिङ्गसयादिर्वस्तुनोऽन्वय-व्यतिरेकाविति व्यापकानुपलब्धिः। न चायमसिद्धो हेतुः; यतो यदि लिङ्गं वस्तुतो वस्तु स्यात् तदैकस्मिंस्तटाख्ये वस्तुनि 'तटः' 'तटी' 'तटम्' इति लिङ्गत्रययोगिशब्दप्रवृत्तेरेकस्य वस्तुनखैरूप्यप्रसक्तिः स्यात् । न चैकस्य स्त्री पुनपुंसकाख्यं स्वभावत्रयं युक्तम् एकत्वहानिप्रसङ्गात्, विरुद्धधर्माध्यासितस्याप्येकत्वे सर्व विश्वमेकमेव वस्तु स्यात् । ततश्च सहोत्पत्ति-विनाश- ५ प्रसङ्गः। किञ्च, सर्वस्यैव वस्तुन एकशब्देन शब्दान्तरेण वा लिङ्गत्रयप्रतिपत्तिदर्शनात् तद्विषयाणां सर्वचेतसां मेचकादिरत्नवच्छबलाभासताप्रसङ्गः। अथ सत्यपि लिङ्गत्रययोगित्वे सँति सर्ववस्तूनां यदेव रूपं वक्तुमिष्टं प्रतिपादकेन तन्मात्रावभासान्येव विवक्षावशाच्चेतांसि भविष्यन्ति न शबलाभासानि; ननु यदि 'विवक्षावशादेकरूपाणि चेतांसि भवन्ति' इत्यङ्गीक्रियते तदा तानि यात्मकवस्तुविषयाणि न प्राप्नुवन्ति तदाकारशून्यत्वात् , चक्षुर्विज्ञानवत् शब्दविषये । योऽपि मन्यते १० "संस्त्यान-प्रसव-स्थितिषु यथाक्रमं स्त्री-पुं-नपुंसकव्यवस्थाति (स्था" [ ] इति) तस्यापि तन्न युक्तम् ; येतो यदि स्थित्याद्याश्रया लिङ्गव्यवस्था तदा तट-शृङ्खलादिवत् सर्वपदार्थेष्व. विभागेन त्रिलिङ्गताप्रसक्तिः स्थित्यादेविद्यमानत्वात्-अन्यथा 'तटः' 'तटी' 'तटम्' इत्यादावपि लिङ्गत्रयं न स्यात् विशेषाभावात्-इत्यतिव्यापिता लक्षणदोषः । व्यभिचारदर्शनाद् वाऽव्यापिता च-असत्यपि हि स्थित्यादिके शशविषाणादिष्वसद्रूपेसु (षु) 'अभावः' 'निरंपाख्यम्' 'तुच्छता' १५ इत्यादिभिः शब्दैः लिङ्गत्रयप्रतिपत्तिदर्शनात् । इतश्चाव्यापिनी-स्थित्यादिष्वेव प्रत्येकं लिङ्गत्रययोगिशब्दप्रवृत्तिदर्शनात् । तथाहि-प्रसव उत्पादः, संस्त्यानं विनाशः, आत्मस्वरूपं च स्थितिः तत्र प्रसवे स्थिति-संस्त्यानयोरभावात् कथं 'उत्पादः' 'उत्पत्तिः' 'जन्म' इत्यादेः स्त्री-पु-नपुंसकलिङ्गस्य शब्दस्य प्रवृत्तिर्भवेत् ? तथा, संस्त्याने स्थिति-प्रसवयोरभावात् कथं 'तिरोभूतिः' 'विनाशः' 'तिरोभवनम्' इत्यादिभिः शब्दैर्व्यपदिश्येत 'संस्त्यानम्' इत्यनेन च? तथा, स्थितौ संस्त्यान-प्रसवयोरसम्भवात् २० १-त्यादि व-आ०। २-ङ्गं वस्तु स्यात् आ० । "तटस्तटी तटं चेति नै(३)रूप्यं न च वस्तुनः । शबलाभासताप्राप्तेः सर्वेषां तत्र चेतसाम्" ॥ तत्त्वसं• का० ११२३ पृ. ३४६ । ३ "सर्व विश्वमेकमेव"-तत्त्वसं० पञ्जि० पृ० ३४६५०११। ४-ण च लि-आ०। ५-सनाप्र-भां०मा०विना । ६ असत्यपि वि० गु० अवसत्यपिआ०। ७ 'सति' वस्तुभूते, तथा च 'वस्तुभूते लिङ्गत्रयसंबन्धे सत्यपि' इत्यर्थः । ८ “विवक्षानुगतत्वे वा न स्युस्तद्विषयाणि ते । तदशादेकरूपाणि नैकरूपं च वस्तु तत्" ॥ तत्त्वसं. का० ११२४ पृ. ३४६ । ९-दात्मानि वा० बा० विना। १० "शब्दविषयम्”-तत्त्वसं० पञ्जि० पृ० ३४६ पं०२१। ११-वस्थितितवि० गु०।-वस्थेतिति त-हा०।-वस्थातिति त-आ० ।-वस्थितेति त-भां० मा० । “यथोक्तस्त्री-पुं-नपुंसकत्व. व्यवस्थेति"-तत्त्वसं० पञ्जि. पृ० ३४६५०२२ । स्त्री-पुं-नपुंसकव्यवस्था"-शास्त्रवा० स्याद्वादक. पृ० ४०६ द्वि०पं०१४ । १२ "स्थिति-प्रसव-संस्त्यानसंश्रया लिङ्गसंस्थितिः । यदि स्यादविभागेन वि(त्रि)लिङ्गत्वं प्रसज्यते" ॥ तत्त्वसं. का. ११२५ पृ. ३४६ । शास्त्रवा० स्याद्वादक० पृ. ४०७ प्र. पं. १। १३-वच्छहप-वा. बा०। १४-नाचा व्या-भां० मां० ।-नात्वा व्या-वा० बा० । १५ अभावो निरूपाख्यत्वं तुच्छतेति यदुच्यते । तत्र स्थित्यादिसंबन्धः कोऽसत्सु परिकल्प्यते" ॥ तत्त्वसं० का० ११२६ पृ० ३४७ । १६-द्रपो स्व-वा. बा० । “शशविषाणादिषु असद्रूपेषु"-तत्त्वसं० पजि. पृ० ३४७ पं०५। शास्त्रवा० स्याद्वादक. पृ. ४०७ प्र.पं. १-२। १७ निरूपा-भां. मा. विना। १८-त्यादिशब्दैः आ० कां। १९ “उत्पादः प्रसवश्चैषां नाशः संस्त्यानमिष्यते । आत्मरूपं तु भावानां स्थितिरित्यभिधीयते" ॥ "तत्रोत्पादे न नाशोऽस्ति तद् किमुत्पत्तिरुच्यते । नात्माकारा स्थितिश्चास्ति तत् कथं जन्म गीयते"। "संस्त्याने न द्वयं चान्यत् तत् कथं व्यपदिश्यते । तिरोभावश्च नाशश्च तिरोभवनमित्यपि" ॥ "स्थितौ स्थितिः खभावश्च हेतुना केन वोच्यते । अथाऽविभक्तमेवैषां रूपं स्यादेकलिङ्गता॥ तत्त्वसं. का. ११२७-११२८-११२९-११३० पृ. ३४.। २०-नात् इतश्चाव्यापिनी तथाहि आ० हा० वि०। २१-स्य प्रवृ-वा० बा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy