SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ २२० प्रथमे काण्डेप्युत्पलश्रुतिरनर्थिकैव । तथाहि-यत् तद् अनंशं वस्तु उत्पलजात्या सम्बद्धं तदेव नीलगुणतज्जातिभ्यां सम्बद्ध्यते, तश्चानंशत्वात् सर्वात्मना नीलश्रुत्यैवाभिहितम् किमपरमनभिहितमख स्वरूपमस्ति यदभिधानायोत्पलश्रुतिः सार्थिका भवेत्।। उद्दथोतकरस्त्वाह-" 'निरंशं वस्तु सर्वात्मना विषयीकृतं नांशेन' इत्येवं विकल्पो नावतरति, ५सर्वशब्दस्यानेकार्थविषयत्वात् एकशब्दस्य चावयववृत्तित्वात्" [ ] इति, असदेतत् : वाक्यार्थापरिक्षानत एवमभिधानात् । तथाहि-प्रथमेनैव नीलशब्देन सर्वात्मना तत् प्रकाशितम्' इत्यस्यायमर्थो विवक्षितः-यादृशं तद् वस्तु तादृशमेवाभिहितम् न तस्य कश्चित् स्वभावस्त्यक्तः यदभिधानायोत्पलश्रुतिाप्रियेत निरंशत्वात् तस्य, इति वाक्छलमेतत्-'कृत्स्नैक देशविकल्पानुपपत्तिस्तत्र' इति, एर्वमन्येषामप्यनित्यादिशब्दानां प्रयोगोऽनर्थकः, प्रयोगे वा पर्या१० यत्वमेव स्यात् तरु-पादपादिशब्दवत् । उक्तं च "अन्यथैकेन शब्देन व्याप्त एकत्र वस्तुनि ।। बुंड्या वा नान्यविषय इति पर्यायंता भवेत्" ॥ [ _] इति। अथ भवत्पक्षेऽप्येकेन शब्देनाभिहिते वस्तुनि भेदान्तरे संशय-''विपर्यासाभावप्रसङ्गः शब्दान्तराप्रवृत्तिप्रसङ्गश्च कमान्न भवति? संवृत्या शब्दार्थाभ्युपगमानास्माकमयं दोषः । तथाहि-नील१५शब्देनानीलपदार्थव्यावृत्तमुत्पादिष्पप्लवमानरूपतया तेषामप्रतिक्षेपकमध्यवसितबाह्यरूपं विकल्पप्रतिबिम्बकमुपजायते पुनरुत्पलश्रुत्या तदेवानुत्पलव्यावृत्तमारोपितबाटंकवस्तुस्वरूपमुपजन्यते; तदेवं क्रमेणानीलानुत्पलव्यावृत्तमध्यवसितबाकिरूपं भ्रान्तं विकल्पप्रतिबिम्बकमुपजन्यत इति तदनुरोधात् सांवृतं सामानाधिकरण्यं युज्यत एव । यदुक्तम् 'लिङ्ग-सङ्ख्यादिसम्बन्धो न चापोहस्य विद्यते' इति, अत्र वस्तुधर्मत्वं लिङ्ग-सहयादीनामसिद्धम् स्वतन्त्रेच्छाविरचितसङ्केतमात्रभावित्वात् । प्रयोगः-यो १-म्बन्ध्यते भां. मां० विना। २ तत्त्वसं० पजि. पृ. ३४४ पं० ११। शास्त्रवा० स्याद्वादक. पृ० ४०६ द्वि० पं०१। "न चे भेदविनिर्मुक्त कार्य-भेदविकल्पनम् । न वाक्यार्थाऽपरिज्ञानादिदं ह्यत्र विवक्षितम्" ॥ तत्त्वसं• का० १११५ पृ. ३४४ । ३-क्यार्थपरि-भां० मां० विना । ४ "प्रथमेनैव शब्देन सर्वथा तत् प्रकाशितम् । नात्मा कश्चित् परित्यक्तो यादृशं तत् तथोदितम्" ॥ तत्त्वसं० का० १११६ पृ. ३४४ । शास्त्रवा० स्याद्वादक. पृ० ४०६ द्वि. पं० २। ५-तं तस्य न क-वा० बा० विना । ६ "एतेनैव प्रकारेण नान्येषामप्युदीरणम् । सफलं तत्र शब्दानामुक्तौ पर्यायता ध्रुवम्" ॥ तत्त्वसं० का० १११७ पृ० ३४४ । ७ बुद्धावा वा० बा०। ८-यतो भ-आ० हा०वि०। ९ तत्त्वसं० पजि. पृ० ३४५ पं० २ । शास्त्रवा० स्याद्वादक० पृ. ४०६ द्वि. पं०६। १०-विपर्ययाभावः प्रस-आ० हा० वि० ।-विपर्ययाभावाप्रस-वा. बा०। ११-न्तरप्रवृ-वा० बा०।। १२ “अस्माकं तु न शब्देन बाह्यार्थः प्रतिपाद्यते । शब्दान्न चापि विज्ञानं बाह्यार्थविषयं मतम्" ॥ "यतः सर्वात्मना ताभ्यो विषयीकरणात् परम् । शब्दज्ञानान्तरं तत्र पर्यायत्वं प्रयास्यति" ॥ तत्त्वसं० का० १११८-१११९ पृ. ३४५। १३ “प्रतिबिम्ब तु शब्देन क्रमेणैवोपजन्यते । एकत्वेन च तद् भाति बाह्यत्वेन च विभ्रमात्" ॥ "सामानाधिकरण्यादि प्रतिबिम्बानुरोधतः। परमार्थेन शब्दास्तु मता निर्विषया इमे" ॥ तत्त्वसं. का. ११२०-११२१ पृ. ३४५। १४-लादिप्लव-वा. बा०। १५-रूपभ्रान्तिवि-वा. बा. । १६-धात् संवृ-आ० हा० वि० । १७ पृ. १९७ पं० २८ तथा ४४ । १८-धर्मलिङ्ग-वा. बा.। “लिङ्ग-संख्यादियोगस्तु व्यक्तीनामपि नास्त्ययम् । इच्छारचितसंकेतनिमित्तो न हि वास्तवः॥ तत्त्वसं. का. ११२२ पृ. ३४५। शास्त्रवा० स्याद्वादक. पृ०४०६ द्वि. पं०९।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy