SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ १८ च मूलमन्थस्योपादेयता पाठ्यक्रमप्रवेशनयोग्यता च न लौकिकभाषानुवादमन्तरेण संस्वतीति संप्रधार्य तदनुवादोऽपि विधित्सितः।। परंतु पूर्व सटीकः सम्पूर्णोऽपि ग्रन्थनिभिर्भागैः प्रकाशयितुमुचितः, तदनन्तरं च चतुर्थेन भागेन प्रस्तावना-विषयानुक्रम-परिशिष्टादिसहितो मूलमात्रानुवाद इति निर्णीतं संस्थया। तदनुसृत्य सार्धवर्षद्वयं यावत् प्रयस्य प्रकाश्यतेऽद्य सटीकसंपूर्णप्रथमगाथात्मकः प्रथमो भागः । __अत्र प्रान्ते यत् संक्षिप्तं शुद्धिपत्रकं निवेशितम्, तत्र चानायासेन दृष्टिपथमागता एव अशुद्धयो दर्शिता न पुनः सर्वाः । सर्वासां प्रदर्शनं तु ग्रन्थसमाप्तावेव करिष्यते । ये च महानुभावा यां कामपि अशुद्धिमत्र दृष्ट्वा सूचयिष्यन्ति तैर्वयमुपकृता भविष्याम इति । अस्य ग्रन्थस्य संशोधनाय आदर्शानां (प्रतीनां) पञ्चविंशतिर्लब्धा, तत्र सप्तदशैव एव आदर्शा अत्रास्माभिरुपयोजिताः, तेषां च सप्तदशानामपि संकेतितानि नामानि तत्संकेतसूचनायां सष्टितानि । यैश्च महाशयैरस्य संशोधनकर्मणि निजनिजसंग्रहसत्का आदर्शा दत्तास्तान् वयं भृशं धन्यवादयाम इति । टीकाकारोऽत्र संवादत्वेन चर्चाविषयत्वेन वा अनेकान् ग्रन्थान्, ग्रन्थकारांश्च नामग्राहमनामग्राहं वा प्रदर्शितवान् , तेषां सर्वेषां नामानि तु प्रयतमाना अपि नोपालप्स्महि; किन्तु यानि नामानि उपलभ्य तत्तत्स्थले [ ] ईदृशचिह्ने संक्षिप्य संकेतितानि तानि सर्वाण्यपि तत्संकेतसूचनायां स्पष्टीकृतानि । यानि च तानि नोपलब्धानि तदर्थ [ ] एतदेव चिह्न रिक्त स्थापितम् । ये च महाशया अस्माभिरत्राऽनिर्दिष्टानां प्रन्थानाम् , ग्रन्थकाराणां वा नामानि जानीयुस्ते सकृपमस्मान सूचयेयुः, अस्मन्निर्दिष्टे वा तत्तत्स्थले यत् स्यात् शोध्यं तदपि दर्शयेयुरिति ।। अस्मिन् प्रथमे भागे एकैव प्रथमा गाथा, तस्याश्च समग्रा टीका समपूरि । टीकापरिमाणं प्रायः सार्धसप्तसहस्री श्लोकानाम् । तत्र ये मुख्यमुख्यवादाः, तदीयाः पूर्वपक्षोत्तरपक्षाः, तदन्तर्गता मुख्यमुख्यविषयविभागाः, विशेषतया चर्चिताश्च विशिष्टा विषयाः सन्ति तेषां संक्षिप्तोऽनुक्रमोऽत्र समदर्शि; सविस्तरस्तु सोऽस्य ग्रन्थस्य समातिं यावत् प्रतीक्षणीय इति । पाठान्तरप्रभृतेः सूचनम्-अनोपयोजितेष्वादशॆषु आदर्शचतुष्टये केनचित् कृतानि टिप्पणान्यासन् , तानि आदर्शगतानि टिप्पणानि, पाठान्तराणि, कचित् कचिच्च स्वकृतानि टिप्पणानि प्रतिपत्रमधस्ताद् निर्दिष्टानि । तत्र आदर्शगतानि टिप्पणानि यस्माद्यस्मादादर्शाद् गृहीतानि तत्तन्नामपूर्वकं " " एतञ्चिह्नान्तः सूक्ष्माक्षरेषु स्थापितानि । तथाहि-पृ० २ पं० ३८ आ० टि०-आत्मारामजीसत्कप्रतिगतं टिप्पणमिति । पाठान्तराणि स्थूलेष्वक्षरेषु दर्शितानि । 'लेखकदोषाद् वाचकभ्रमादक्षरसाम्याद् वा कीदृशकीदृशानि पाठान्तराणि, ग्रन्थाशुद्धयो वाऽभिवर्धन्ते' इति ज्ञानसौकर्याय क्वचिद् वयं सर्वथाऽशुद्धान्येव पाठान्तराणि दर्शितवन्त इति । स्वकृतानि टिप्पणानि केवलं सूक्ष्माक्षरैरेवोपन्यस्तानीति । सर्वासु प्रतिषु अशुद्ध एव पाठो यत्रास्माकं प्रतिभातस्तत्र प्रन्थान्तरमाश्रित्यानाश्रित्य वा तस्याशुद्धस्य पाठस्य पार्श्वे ( ) एतचिह्नान्तः शुद्धं पाठांशं समतिष्ठिपाम, पाठसंशोधनकर्मणि च विशेषतो दिगम्बरीय प्रमेयकमलमार्तण्ड'नामानं ग्रन्थं समाशिनियाम, कापि कापि प्रशमरतिप्रकरणम् , वात्स्यायनभाष्यम् , ईदृशमेव वा प्रन्थान्तरमुपयोजितवन्तः । यत्र च यं ग्रन्थमाश्रिय
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy