SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १९ संशोधितः पाठस्तत्र सर्वत्र पत्रस्याधस्ताद् ग्रन्थनामग्राहं तग्रन्थ पृष्ठ- पङ्क्तिदर्शनपूर्वकं चोपयुक्ततग्रन्थंपार्ट ” एतचिह्नान्तः सूक्ष्माक्षरैः समददर्शाम । 66 यांश्चात्यन्तमशुद्धान् पाठान् संस्कर्तुं नालमभूम, तत्र तदशुद्ध पाठनिकटे ? ईदृशं चिह्नं कृतवन्तः; कचिश्च खण्डितप्रायपाठस्याधः 'एष पाठः खण्डितप्रायः' इत्यपि प्रदर्शितवन्त इति । प्रस्तुतटीकायां तेषु तेषु वादस्थलेषु पूर्व तावत् प्रतिवादस्थलं सविस्तरं पूर्वपक्षो निक्षिप्तः, तदनन्तरं च तत्प्रतिविधानरूपे उत्तरपक्षे पूर्वपक्षमण्डिताः सर्वा युक्तयो निरस्ताः । 'यत्र चोत्तरपक्षे या पूर्वपक्षदर्शिता युक्तिर्दलिता सा पूर्वपक्षे क्क क्क आयाता' इति निरूपणाय तत्तत्पत्रस्याधस्तात् तत्तत्पूर्वपक्षस्य पृष्ठं पङ्क्तिं च निरदिनाम यतो जिज्ञासवो जना उत्तरपक्षखण्डितास्तास्ताः पूर्वपक्षयुक्तीः सरलतया समवबुध्येरन् । टीकाकृता च यत्र यत्र 'तदुक्तमस्माभिः' इत्यादि निर्दिष्टं तत्र तत्र तानि तानि तदुक्तपूर्वस्थलानि सपृष्ठपङ्किकं यथाशक्ति समदीदृशामेति । क्वचिच्च कस्यचिदेकस्य विषयस्य प्रतिपादने अन्तराऽन्तरा अन्या अपि प्रसङ्गप्राप्ता लघीयस्यो द्राघीयस्यो वा चर्चाश्चर्चिताः टीकाकृता, तासां च अन्तरागतानां चर्चानामाद्यन्तौ ज्ञातुं प्रति चर्चमादौ {एतादृशं चिह्नम्, अन्ते च ) एतादृशं चिह्नं निरटङ्किष्महि, तस्य च {} एतादृशस्य समग्रस्य चिह्नस्य 'दूरान्वयसूचकं चिह्नम्' इति संज्ञां व्यधिष्महि । एतदर्थं पश्यत पृ० ५७ पं १४पृ० ५९ पं० ३२ इति । अस्य प्रथमस्य भागस्य संशोधनकर्मणि प्रवर्तक श्री कान्तिविजयानां विद्याप्रियैः सुशीलैः प्रशिष्यैः श्री पुण्यविजयमुनिभिर्बहुमूल्यं साहायकमनुष्ठितं तदर्थं तेषां कृतज्ञा वयम् । सुखलालः बेचरदासश्च ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy