SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ टीकाकाराः टीकाया रचयितारः श्रीमदभयदेवसूरयः श्वेताम्बरराजगच्छीयप्रद्युम्नसूरिशिष्यत्वेन प्रसिद्धा विक्रमीयदशमशताब्दीभाजः। तेषां जन्मस्थान-जातिप्रभृति नैव विदितम्, अन्यास्तु तत्कृतयो न श्रूयन्ते। यद्यपि वादमहार्णवस्तत्कृतित्वेन क्वचिदुल्लिखितो भाति तथाऽपि दीर्घातिदीर्घवादमालाजटिलां प्रस्तुतां टीकामेव वादमहार्णवत्वेन कल्पयन्ति केचिदित्यास्तां तावत् । किंतु श्रीमदभयदेवसूरीणामसाधारणे दार्शनिकवैदुष्ये नैव विद्यते संशयलेशः । (२) ग्रन्थस्य बाह्याऽभ्यन्तरखरूपम् बाह्यं स्वरूपम्-मूलं संमतिसंज्ञकं प्राकृतार्यापद्यमयं काण्डत्रयविभक्तं सप्तषष्टयुत्तरशतसंख्यकगाथापरिमितम् । टीका च 'तत्त्वबोधविधायिनी' संज्ञिता संस्कृतगद्यमयी पञ्चविंशतिसहस्रसंख्यकश्लोकपरिमिता वर्तते। आभ्यन्तरं स्वरूपम्-विषयोऽस्य ग्रन्थस्यानेकान्तप्रधानो दार्शनिको वेदितव्यः । मूलकारै नदर्शनमात्रप्रसिद्धान् नय-सप्तभङ्गी-ज्ञान-दर्शन-द्रव्य-पर्यायादिपदार्थान् व्यवस्थापयितुं तार्किकपद्धत्या तानेव पदार्थान् विशदीकृत्यानेकान्तस्वरूपं प्रतिष्ठापितम्, तच्च प्रधानतया खतीर्थ्यान् पुरातनान् आगमिकानभिलक्ष्यीकृत्यैवेति मूलकारीया शैली । टीकाकारीया चान्यैव, तैस्तु प्राधान्येन दर्शनान्तरीयप्रवादनिरसनमुद्दिश्य दार्शनिकवादसंग्रहालयप्रख्यैव टीका निरमायि । तत्र च यदा कश्चिदपि दार्शनिको विषयश्चर्चयितुमुपक्रम्यते तदा तद्विषयावलम्बिनः सर्वेऽपि पक्षकाराः क्रमेणोपतिष्ठमानाः स्वं स्वं पक्षं स्थापयितुकामाः पूर्वपूर्ववादिस्थापितं पक्षं दूषयन्ति । पर्यवसाने च सिद्धान्ती स्याद्वादी प्रागुपन्यस्तान् सर्वानेव पक्षान् यथासंभवं समीक्ष्य सिद्धान्तं प्रादुष्करोति । ईदृश्या च प्रतिपादनभङ्गया प्रस्तुता टीका सर्व विषयस्पर्शिनिर्णायकसभापतिसमलंकृतामनेकसभ्यभूषितां स्वतां चर्चापरिषदं स्मारयति । मीमांसककुमारिलभट्टकृतश्लोकवार्तिक-नालन्दाविश्वविद्यालयप्रधानाचार्यशान्तिरक्षितकृततत्त्वसंग्रहीयकमलशीलकृतपञ्जिका-दिगम्बराचार्यप्रभाचन्द्रकृतप्रमेयकमलमार्तण्ड-न्यायकुमुदचन्द्रोदयद्वयप्रभृतीन स्वपूर्ववर्तिनो ग्रन्थान् बिम्बत्वेनाश्रयमाणैषा टीका स्वोत्तरवर्तिभिः वादिदेवसूरिकृतस्याद्वादरत्नाकर-मल्लिषेणसूरिकृतस्याद्वादमञ्जरी-वाचकयशोविजयकृतनयोपदेशीय-शास्त्रवार्तासमुच्चयीयवृत्तिद्वयप्रभृतिभिर्ग्रन्थैबिम्बत्वेनाश्रितेति टीकामेनां दिदृक्षुभिरुभयेऽपि ते ग्रन्था अवश्यद्रष्टव्याः । (ख) प्रकाशनयोजना। सुलभदर्शनेतिहाससामग्रीकतया स्पृहणीयमध्यमकालीनदार्शनिकग्रन्थान्यतमतया च सटीकस्यास्य मन्थमणेः संशोध्य प्रकाशनं चिकीर्षितमनया संस्थया । अनुपलभ्यमानासु बह्वीषु संमतिटीकासु एकस्याः श्वेताम्बराचार्यमल्लवादिकृतत्वेन, द्वितीयस्याश्च दिगम्बराचार्यसुमतिकृतत्वेन संसूचका उल्लेखा लभ्यन्ते नान्यासाम् । उपलभ्यते चाभयदेवसूरिरचितैव टीकेति सैव प्रकाशनीयत्वेन निर्धारिता।। संक्षिप्तटीकान्तरस्य दुर्लभत्वात् लभ्यमानटीकायाश्च जटिलत्वात् सुगममपि मूलप्रन्थं दुर्गमममिमन्यमानाः सर्वेऽपि जिज्ञासवः प्रायशः खं तदनधिकारिणं मत्वा तमभ्यसितुं नोत्सहन्ते । तस्य
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy