SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ संपादकीयं निवेदनम् 0000000000 विवेचितविविधविषया विस्तृता प्रस्तावना तु न प्राप्तकाला समग्रस्य ग्रन्थस्य प्रकाशनात् प्राक, अतः साम्प्रतमिह (क) ग्रन्थस्य विशिष्टता (ख) प्रकाशनस्य योजना चेति वस्तुद्वयमेव प्राधान्येन प्रदर्शयितुं समीहामहे । (क) तत्र (१) ग्रन्थस्य कर्तृन् (२) बाह्याभ्यन्तरखरूपं च वर्णयित्वैव तदीया विशिष्टता प्रतिपाद्यते। (१) ग्रन्थस्य कर्तारः (मूलकाराः) समयः-मूलस्य प्रणेतारस्तत्रभवन्त आचार्याः सिद्धसेनदिवाकरा विक्रमीयप्रथमशताब्दीवर्तिन इत्यवगम्यते पारम्परिकप्रवादेन । आचार्यसिद्धसेना दिगम्बराचार्याभ्यां कुन्दकुन्द-समन्तभद्राभ्यां प्राक्, श्वेताम्बर-दिगम्बरसम्प्रदाययोः पार्थक्याच्च प्राग् बभूवांस इति सम्भावनायाः साधारत्वेन पारम्परिकप्रवादो गवेषणाप्रियैरैतिहासिकैनोंपेक्षणीयः । इदानीन्तनास्तु केचिदैतिहासिकास्तानाचार्यान् विक्रमीयपञ्चमशताब्दीगतत्वेन सम्प्रधारयन्ति । ___ स्थान-जाति-धर्माः-यद्यपि आचार्याणां नाद्यापि जन्मादिस्थानानि परिनिश्चितानि तथाऽपि मालवदेशः तदीया च प्राच्या राजधानी उज्जयिनी तेषां विहारभूमिरिति परम्परातः श्रवणात् तदीयाः कृतयोऽपि तत्रैव प्रदेशे क्वचिल्लब्धजन्मान इति सम्भाव्यते । आचार्यसिद्धसेना यद्यपि जात्या ब्राह्मणाः, कुलधर्मेण च वैदिकास्तथाऽपि ते बहुश्रुतत्वप्राप्तिसमनन्तरमाचार्यवृद्धवादिनामन्तेवासित्वेन जैनी दीक्षामङ्गीचक्रुः। प्रतिभापकर्षः-आचार्यसिद्धसेना जैनदर्शनरहस्यवेदित्वेन विश्रुतेषु सर्वेष्वपि विद्वत्सु मूर्धन्यतां गता इति तु निर्विवादमेव, परंतु समकालीनवैदिक-बौद्ध-जैनादिसमस्तभारतीयदर्शनपारदर्शिविद्वद्गणनायामपि ते लब्धावकाशा इत्यत्र तदीयाः कृतय एव साक्षिण्यः । तेषां संस्कृत-प्राकृतभाषाविशारदता, बहुमुखी प्रतिभा, अस्खलनवाहा कल्पना, वस्तुस्पर्शाभिमुखी तार्किकता, स्पृहणीया दर्शनोपनिषद्वेदिता, प्रकृष्टपरिपाका च गद्यपद्यरचनाचातुरी साक्षात्कर्तुं शक्या प्रतिवाक्यं तदीयासु कृतिषु । कृतयः-आचार्यसिद्धसेनीयाः काश्चिदेव कृतय उपलब्धिपथमायान्ति । तत्र संमतिप्रकरणं प्राकृतोपनिबद्धम् , न्यायावतारः, कल्याणमन्दिरम् , एकविंशतिश्च द्वात्रिंशिकाः संस्कृतपद्यबद्धाः । तत्र सर्वस्मिन्नपि जैनसंस्कृतवाङ्मये प्राथमिकपद्यात्मकप्रमाणग्रन्थत्वेन प्रसिद्धं न्यायावतारं जैनतर्कसाहित्यविकासस्य प्रथमसोपानत्वेनावधारयन्तु तर्कप्रियाः । कल्याणमन्दिरं तीर्थकरपार्श्वनाथस्य स्तुतित्वेनोपलक्षयन्तु स्तुति प्रियाः । द्वात्रिंशिकाः स्तुतिगर्भा अपि विविधदर्शनस्वरूपवर्णनात्वेन निश्चिन्वन्तु तत्त्वज्ञानप्रियाः । तासु च कतिपयाः प्रातिस्विकदर्शनविषया द्वात्रिंशिका एवानुकरोति हरिभद्राचार्यकर्तृकः षड्दर्शनसमुच्चयो माधवाचार्यकर्तृकश्च सर्वदर्शनसंग्रहः । आचार्यसिद्धसेना 'गन्धहस्ती' इति नाम्नाऽपि प्रख्यायन्ते । तत्कृतं चाचारागसूत्रीयप्रथमाध्ययनविवरणं 'गन्धहस्तिविवरणम्' इत्यभिधीयते । तच्च विवरणं न संप्रति सुलभम् ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy