SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ २१६ प्रथमे काण्डे-- शब्दान्तरव्यपोहोऽपि ताटगेव प्रतिबिम्बात्मक एवावगम्यते" ॥ [ तत्त्वसं० का० १०८८] इति पाचकापोहपक्षेऽपि दूषणं विस्तरतः प्रतिपादितमयुक्तं द्रष्टव्यम्। 'अगम्यगमकत्वं स्यात्' इति, ५अत्र प्रयोगेऽपि यदि 'अवस्तुत्वात्' इति सामान्येनोपादीयते तदा हेतुरसिद्धः यतः प्रति बिम्बात्मनोर्वाच्य-वाचकापोहयोर्वाह्यवस्तुत्वेन भ्रान्तैरवसितत्वात् सांवृतं वस्तुत्वमस्त्येव । अर पारमार्थिकमवस्तुत्वमाश्रित्य हेतुरभिधीयते तदा सिद्धसाध्यता नहि परमार्थतोऽस्माभिः किञ्चिद वाच्यं वाचकं चेष्यते । यत उक्तम् - "न वाच्यं वाचकं चास्ति परमार्थेन किञ्चन। क्षणभङ्गिपु भावेषु व्यापकत्ववियोगतः" ॥[तत्त्वसं० का० १०९०] क्षणिकत्वेन सङ्केतव्यवहाराप्तकालव्यापकत्वाभावात् स्वलक्षणस्येति भावः । स्यादेतत् नामाभिस्तात्त्विको वाच्यवाचकभावो निषिध्यते, किं तर्हि ? तात्त्विकीमपोहयोरवस्तुतामाश्रित्य सांवृतमेव गम्यगमकत्वं निषिध्यते ने भाविकम्: तेन (तेन न) हेतोरसिद्धतापि (ता, नापि) सिद्धसाध्यता प्रतिज्ञादोषो भविष्यतिः द्वयोरपि हि सांवृतत्वे तात्त्विकत्वे वाऽऽश्रीयमाणे स्यादेतद् दोषद्वयमिति, १५ नैवम्; हेतोरनैकान्तिकताप्रसक्तेः कल्पनारचितेपु हि महाश्वेतादिष्वर्थेषु तद्वाचकेषु च शब्देषु परमार्थतो वस्तुत्वाभावेऽपि सांवृतस्य वाच्यवाचकभावस्य दर्शनात् । स्यादेतत् तत्रापि महाश्वेता. दिषु सामान्यं वाच्यं वाचकं च परमार्थतोऽस्त्येव ततो न तैर्व्यभिचारः, असदेतत्: सामान्यस्य विस्तरेण निरस्तत्वात् न तेषु सामान्यं वाच्यं वाचकं वा महाश्वेतादिष्वस्तीति कथं नानकान्तिकता हेतोः? स्यादेतत् यद्यपि तत्र वस्तुभूतं नास्ति सामान्यं वाच्यम् वाँचकं (कं तु) महाश्वेतादिशब्द२० स्वलक्षणमस्त्येव, न; सर्वपदार्थव्यापिनः क्षणभङ्गस्य प्रसाधितत्वान्न शब्दस्वलक्षणस्य वाचकत्वं युक्तम्, क्षणभङ्गित्वेन तस्य सङ्केतासम्भवात् व्यवहारकालानन्वयाच्चेति प्रतिपादितत्वात्। "तस्मात् तद् द्वयमेष्टव्यं प्रतिविम्बादि सांवृतम् । तेषु तद् व्यभिचारित्वं दुर्निवारमतः स्थितम्"॥ [तत्त्वसं० का० १०९४ ] १-रद्यपो-वा० बा० । २ "यादृशोऽर्थान्तरापोहो वाच्योऽयं प्रतिपादितः । शब्दान्तरव्यपोहोऽपि ताहगेवावगम्यताम्" ॥ तत्त्वसं० का० । ३-तमुक्तं द्र-भां० मा० विना। ४ अगम्यं भां. मां० विना। ५ पृ० १९५ पं० २४ तथा ४३ । ६ “वस्त्वित्यध्यवसायत्वान्नाऽवस्तुत्वमपोहयोः । प्रसिद्धं सांवृते मार्गे तात्त्विके त्विष्टसाधनम् ॥ तत्त्वसं० का० १०८९ पृ. ३३७ । ७-मस्त्वेवाप पर-वा० बा०। ८-कं वेष्य-भां० । ९-कं वास्ति वा० बा० । १० शास्त्रवा० स्याद्वादक. पृ. ४०५ द्वि० पं० १०। ११-हारऽप्तका-वा० बा०। १२ नाभाविक-आ० हा०वि० । “न भाविकम् , तेन न हेतोरसिद्धता, नापि सिद्धसाध्यता प्रतिज्ञादोषः"-तत्त्वसं० पञ्जि.पृ० ३३८ पं०५।१३-ति नैव हे-आ० हा०। १४ “तद् गम्यगमकत्वं चेत् सांवृतं प्रतिषिध्यते । तात्त्विकी समुपाश्रित्य विनिवृत्त्योरवस्तुताम्" ॥ "तथापि व्यभिचारित्वं दुर्वारमनुषज्यते । विकल्परचितैरथैः शब्दैस्तद्वाचकैरपि" ॥ तत्त्वसं. का. १०९१-१०९२ पृ. ३३८ । १५ शास्त्रवा० स्याद्वादक० पृ० ४०५ द्वि० ५० ११। १६ पृ० ११० पं० ८-पृ० ११३ पं० २८ । १७ “नहि तेष्वस्ति सामान्य वाच्यं तस्य च वाचकम् । न वाचकत्वं शब्दस्य क्षणभनि खलक्षणम्" ॥ तत्त्वसं. का. १०९३ पृ. ३३८ । १८ वाचकं च महा-वा. बा. विना । “वाचकं तु"-तत्त्वसं० पजि० पृ. ३३८ पं० २१ । १९ शब्दलक्षणवाच-भा. मा. विना। २.-ङ्गित्वे च तस्य संकेतनासंभ-वा. बा०। २१ पृ. १७५ पं०५ तथा ३०। २२ शास्त्रवा० स्याद्वादक. पृ० ४०५ द्वि०पं० १३ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy