SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोर्मीमांसा । २०७ पर्यायता । स्यादेतत् यदि नाम नीरूपेवेकरूपत्वं भावो नास्ति तथापि काल्पनिकस्य तस्य भावात् पर्यायतासञ्जनं युक्तमेव । नन्वेवं पर्यायाऽपर्यायव्यवस्था शब्दानां कथं युक्ता ? उक्तं च "रूपाभावेऽपि चैकत्वं कल्पनानिर्मितं यथा। विभेदोऽपि तथैवेति कुतः पर्यायता ततः”? ॥ [तत्त्वसं० का० १०३२] "भावतस्तु न पर्याया न पर्यायश्च (नापर्यायाश्च) वाचकाः। न ह्येकं वाच्यमेतेषामनेकं चेति वर्णितम्" ॥ [ तत्त्वसं० का० १०३३] इति।। यदि परमार्थतो भिन्नमभिन्नं वा किञ्चिद् वाच्यं वस्तु शब्दानां स्यात् तदा पर्यायापर्यायता भवेत् यावता-स्वलक्षणं जातिस्तद्योगो जातिमांस्तथा' इत्यादिना वर्णितम्-यथैषां न किञ्चिद् वाच्यमस्तीति । पर्यायादिव्यवस्था तु अन्तरेणापि सामान्यम् सामान्यादिशब्दत्वस्य व्यवस्थापै. नात् । तस्य चेदं निबन्धेनं यद् बहूनामेकार्थक्रियाकारित्वम्-प्रकृत्या केचिद् भावा बहवोऽप्येकार्थ-१० क्रियाकारिणो भवन्ति; तेषामेकार्थक्रियासामर्थ्यप्रतिपादनाय व्यवहर्तभिर्लाघवार्थमेकरूपाध्यारोपेणैका श्रुतिर्निवेश्यते, यथा-बहुषु रूपादिषु मधूदकाद्याहरणलक्षणैकार्थक्रियासमर्थेषु 'घटः' इत्येका श्रुतिर्निवेश्यते। कथं पुनरेकेनानुगामिना विना बहुष्वेका श्रुतिर्नियोक्तुं शक्या? इति न वक्तव्यम् , इच्छामात्रप्रतिबद्धत्वात् शब्दानामर्थप्रतिनियमस्य । तथाहि-चैथू-रूपाऽऽलोक-मनस्कारेषु रूपविज्ञानैकफलेषु यदि कश्चिद् विनाप्येकेनानुगामिना सामान्येनेच्छावशादेकां श्रुतिं निवेशयेत् तत् १५ किं तस्य कश्चित् प्रतिरोद्धा भवेत् ? न हि तेषु लोचनादिष्वेकं चक्षुर्विज्ञानजनकत्वं सामान्यमस्ति यतः सामान्य-सैमवाय-विशेषा अपि भवद्भिः चक्षुर्मानजनका अभ्युपगम्यन्ते, न च तेषं सामान्यसमवायोऽस्ति निःसामान्यत्वात् सामान्यस्य, समवायस्य च द्वितीयसमवायाभावात्। न , घटादिकार्यस्योदकाहरणादेस्तज्ज्ञानस्य च स्वलक्षणरूपत्वेन भिन्नत्वात् कथमेककार्यकारिस्वम् ? इति वक्तव्यम्, यतो यद्यपि स्खलक्षणभेदात् तत्कार्य भिद्यते तथापि ज्ञानाख्यं तावत् कार्य-२० मेकार्थाध्यवसायिपरामर्शप्रत्ययहेतुत्वादेकम्; तज्ज्ञानहेतुत्वाचार्था घटादयोऽभेदिन इत्युच्यन्ते । १-पत्वं भवतो नास्ति वा० बा० । “भावतो नास्ति'-तत्त्वसं० पजि० पृ० ३२४ पं०९। २-कस्य भावा-बा० ।-कस्य तस्य तावत् पर्याय-मां०। ३ एतदेव पर्यायतासजन 'रूपाभावेऽपि' इत्यादिश्लोकेन प्रत्युक्तम् -प्र. पृ० पं०३। ४ 'नन्वेवम्' इत्यादिनाऽऽशङ्कितं तु 'भावतस्तु न' इत्यादिना श्लोकेन समाहितम्-प्र० पृ. ५० ५। ५पर्यायव्यव-वा. बा. आ०। ६-पि वैकत्वं आ० हा। न पर्यायस्य मां० वा. बा. विना। "नापर्यायाश्च"-तत्त्वसं० का० १०३३ पृ. ३२४ । ८ न ह्येवं वा-बा० । न ह्येक वा-भा० मां० । “न टकं बाह्यम्"-तत्त्वसं० का० १०३३ पृ. ३२४। ९-षां मनेकं चेति आ० ।-बां मते किञ्चिद्विवर्णि-वि०।-षामनेकान्तवर्णिताम् बा०। १० श्लोकद्वयमेतत् शास्त्रवा० स्याद्वादक. पृ० ४०२ द्वि. पं० १२-१३ । ११ वाच्यवस्तु शब्दानां वाच्यं स्यात् मां०। १२ पृ० १७४ पं० २३ तथा ४० । १३ "किन्त्वनेकोऽपि यद्येककार्यकारी य ईक्ष्यते । तत्रैकधर्मारोपेण श्रुतिरेका निवेश्यते" ॥ तत्त्वसं० का० १०३४ पृ. ३२४ । १४-पन्नस्य चे-आ० हा० वि० ।-पन्ना तस्य चे-वा० बा० । “सामान्यशब्दत्वव्यवस्थाया इदं निबन्धनम्"तत्त्वसं० पजि० पृ. ३२४ पं० २३। १५-धनं बहू-वा० बा० विना। १६-था चहुषु रू-बा०।-था बाहषु रू-हा० वि० ।-था बाहुरू-आ० । १७ शक्यते न वक्त-भां० मा० । शक्यते ति (इति) न वक्त-वा० बा । १८ "लोचनादी यथा रूपविज्ञानैकफले क्वचित् । कश्चिद् यदि श्रुतिं कुर्याद् विनैकेनानुगामिना" ॥ तत्त्वसं० का० १.३५ पृ. ३२५ । १९ शब्दार्थानामर्थ-मां०। २० चक्षरूपालोकनमस्कारे-भा०मा० विना। २१-शयेन किं आ० वा. बा०।-शयेत्त किं भां० मा०। २२ समवायिविशे-आ० वि० । समवास्मिविशे-हा। समायिविवा० बा०। २३-षा पि भां०। २४-षु असामा-भां०। २५ च षटादि-वा० बा। २६ “घटादीनां च यत् कार्य जलादेर्धारणादिकम् । यच्च तद्विषयं ज्ञानं भिन्नं यद्यपि तद् द्वयम्" ॥ "एकप्रत्यवमर्शस्य हेतुत्वादेकमुच्यते । ज्ञानं तथापि तद्धेतुभावादर्था अमेदिनः" । तत्त्वसं० का० १०३६-१०३७ पृ. ३२५ । २७-र्थावसायपरा-भां० मां० ।-र्थाव्यवसायिपरा-वा. वा०। २८-ग्वार्था पटाद-भां० मां०। २९ -त्युच्यते बा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy