SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डेन च योऽसो परामर्शप्रत्ययस्तस्यापि स्वलक्षणरूपतया भिद्यमानत्वादेकत्वासिद्धेरपरापरैकाकारपरामर्शप्रत्ययकार्यानुसरणतोऽनवस्थाप्रसङ्गतो ने(न)ककार्यतया क्वचिदेकश्रुतिनिवेशो बहुषु सिद्धिमुपगच्छतीति वाच्यम्; यतो न परामर्शप्रत्ययस्यैककार्यकारितयैकत्वमुच्यते, किं तर्हि ? एकाध्यवसायितया । स्वयमेव परामर्शप्रत्ययानामेकत्वसिद्धे नवस्थाद्वारेणैकश्रुतिनिवेशाभावः, अंत ५एकाकारपरामर्शहेतुत्वाद् ज्ञानाख्यं कार्यमेकम्; तद्धेतुत्वाद् घटादय एकत्वव्यपदेशभाजः। तेन विनापि वस्तुभूतं सामान्य सामान्यवचना घटादयः सिद्धिमासादयन्ति । तथा, कश्चिदेकोऽपि प्रकृत्यैव सामग्र्यन्तरीन्तःपातवशादनेकार्थक्रियाकारी भवति व्यतिरेकेणापि वस्तुभूतसामान्यधर्मभेदम्, तंत्रातत्कार्यपदार्थभेदभूयस्त्वात् अनेकश्रुतिसमावेशः अनेकधर्मसमारोपात्, यथास्वदेशे परस्योत्पत्तिप्रतिबन्धकारित्वाद् रूपं संप्रतिधम्-संह निदर्शनेन चक्षुर्मानजनकत्वेन वर्तत १० इति-सनिदर्शनं च तदेवोच्यते, यथा वा शब्द एकोऽपि प्रयत्नानन्तरज्ञानफलतया 'प्रयत्नानन्तरः' इत्युच्यते, श्रोत्रज्ञानफलत्वाच्च श्रावणः-श्रुतिः श्रवणं श्रोत (त्र) ज्ञानम् तत्प्रतिभासतया तत्र भवः श्रावणः, यद्वा श्रवणेन गृह्यत इति श्रावणः-एवमतत्कार्यभेदेनैकस्मिन्नप्यनेका श्रुतिर्निवेश्यमानाs. विरुद्धा । अतत्कारणभेदेनापि क्वचित् तन्निवेशः, यथा-भ्रामरं मधु शुद्रादिकृतमधुनो व्यावृत्त्या । तथा तत्कार्यकारणपदार्थव्यवच्छेदमात्रप्रतिपादनेच्छया अन्तरेणापि सामान्यं श्रुतेभेदेन निवेशनं १५सम्भवति "अश्रावणं यथा रूपं विद्युद्वाऽयत्नजा यथा" ॥ [ तत्त्वसं० का० १०४२] "इत्यादिना प्रभेदेन विभिन्नार्थनिबन्धनाः । १-पि विलक्षणरूप-बा० । २-हुष्ट(प्व)भिसिद्धिमु-वा० वा० ।-हुपु शुद्धिमु-भां० मां० । ३ "न हि प्रत्यवमर्शप्रत्ययस्यैककार्यतयैकत्वमुच्यते, किं तर्हि ? एकार्थाध्यवसायितया । तेन नानवस्था भविष्यति"-तत्त्वसं० पञ्जि. पृ० ३२५ पं० २४ । ४ अत एव एकापरा-वा० वा०। ५ कार्यमेत्येकम् वा०। ६-तु भावात् घटा-भां० मा०। ७ सामान्यं वचनाद् घटा-वा० वा.। सामान्यं चना घटा-आ० । सामान्यं चन घटा-का। सामान्य सामान्यवता घटा-हा । वि. प्रतो तु हा० समानोऽपि पाठः 'सामान्य सामान्यवन्तो घटा'-इति पश्चात् संशोधितो दृश्यते । ८ "तत्र सामान्यवचना उक्ताः शब्दा घटादयः । विजातीयव्यवच्छिन्नप्रतिविम्बकहेतवः" ॥ तत्त्वसं• का० १०३८ पृ. ३२६ । ९ "तथाऽनेकार्थकारित्वादेको नेक इवोच्यते । अतत्कार्यपरावृत्तिवाहुल्यपरिकल्पितः" ॥ तत्त्वसं० का० १०३९ पृ. ३२६ । १०-कोऽपो प्रक्रत्येव आ० हा०वि० ।-कोऽपोहः प्रकृत्येव कां०। ११-रान्तपात-आ० । रातःपरवशब्देने-बा०। १२ “भवति । तत्रान्तरेणापि वस्तुभूतसामान्यादिधर्मभेदम्"-तत्त्वसं० पजि. पृ० ३२६ पं० ११। १३-दाम् बा० । अत्र "गौणात् समयानिकषाहाधिगन्तरान्तरेणातियेनतेनैर्द्वितीया"-इति है. अ० २ पा. २ सू० ३३ गतेन बहुवचनेन 'व्यतिरेकेण' इत्यस्य योगेऽपि द्वितीया समाधेया। १४ तत्रा न कार्यपदार्थभेदभूतत्वा-वा० बा० । तन्न तत्कार्यपदार्थभेदभूयत्वा-आ० का० । तत्र तत्कार्यपदार्थभेदभूयस्त्वा-विः । तत्र तत्कार्यभेद यस्त्वा -हा। १५ “यथा सप्रतिघं रूपं सनिदर्शनमित्यपि । प्रयत्नानन्तरज्ञातो यथा वा श्रावणो ध्वनिः" ॥ तत्त्वसं. का. १०४० पृ. ३२६ । १६-प्रतिपं आ० हा०वि०। १७ सह दर्श-आ० हा०वि०। १८-ति संनिदर्शनं तदे-भां० मा० । १९-नं तदे-आ० हा० वि०। २० श्रोतृज्ञा-वा० बा० विना। २१ श्रुतिः श्रोतृ-भां० मा०। २२ तत्र प्रति-भां० मा० । २३-नप्येका मां। २४ "अतत्कारणभेदेन क्वचिच्छब्दो निवेश्यते । प्रयत्नोत्थो यथा शब्दो भ्रामरं वा यथा मधु" ॥ तत्त्वसं० का० १०४१ पृ० ३२६ । २५ तथाऽतत्का-वा. बा.विना । “इदानीं तत्कार्यकारणपदार्थव्यवच्छेदमात्रप्रतिपादनेच्छया"-तत्त्वसं० पजि० पृ० ३२६ पं० २७। २६ अस्य पूर्वाध तु-"तत्कार्य-हेतुविश्लेषात् क्वचिच्छतिरिहोच्यते"तत्त्वसं० पृ०३२७ पं०२। २७-ना वा० बा० विना।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy