SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ २०६ प्रथमे काण्डेतदप्यसत्: यतः “यद्यप्यव्यतिरिक्तोऽयमाकारो बुद्धिरूपतः। तथापि बाह्यरूपत्वं भ्रान्तैस्तस्यावसीयते" ॥ [तत्त्वसं० का० १०२६] यदपि 'शब्दार्थोऽर्थानपेक्षः' इति, ५तेत्र, यत्र हि पारम्पर्याद् वस्तुनि प्रतिबन्धोऽस्ति तस्य भ्रान्तस्यापि सतो विकल्पस्य मणिप्रभायां मणिबुद्धिवन्न बाह्यार्थानपेक्षत्वमस्ति; अतोऽसिद्धं बाह्यार्थानपेक्षत्वम् । यच-'वस्तुरूपावभासा (रूपा च सा) बुद्धिः' इत्यादि, तत्र यद्यपि वस्तुरूपा सा बुद्धिस्तथापि तस्यास्तेन बाह्यात्मना बुद्ध्यन्तरात्मनों च वस्तुत्वं नास्तीति प्रतिपादितम् । तेन 'बुद्धेर्बुद्ध्यन्तरापोहो न गम्यते' इत्यसिद्धम् सामर्थेन गम्यमानत्वात् । १० 'असत्यपि च बाह्येऽर्थे' 'इंति, अत्र यथैव हि प्रतिबिम्बात्मकः प्रतिभाख्योऽपोहो वाक्यार्थोऽस्माभिरुपवर्णितस्तथैव पदार्थोऽपि, यस्मात् पदादपि प्रतिबिम्बात्मकोऽपोह उत्पद्यत एव, पदार्थोऽपि स एव; अतो न केवलं वाक्यार्थ इति विप्रतिपैत्तेरभावाद् नोप(पा)लम्भो युक्तः।। 'बड्यन्तराद व्यवच्छेदोन बद्धःप्रतीयते इत्यादावपि १५यते एव हि स्वरूपोत्पादनमात्रादन्यमंशं सा न बिभर्ति तत एव स्वभावव्यवस्थितत्वाद् बुद्धेर्बुड्यन्तराद् व्यवच्छेदः प्रतीयते; अन्यौँऽन्यस्वरूपं बिभ्रती कथं ततो व्यवच्छिन्ना प्रतीयते ? 'भिन्नसामान्यवचनाः' इत्यादावपि यथैव ापोहस्य निःस्वभावत्वादसैंपस्य परस्परतो भेदो नास्तीत्युच्यते तथैवाऽभेदोऽपि इति कथमभिन्नार्थाभावे पर्यायत्वासञ्जनं क्रियते ? अभेदो ह्येकरूपत्वम् ; तच्च नीरूपेष्वेकरूपत्वं नास्तीति न रा १ पृ० १८७ पं० ४४ तथा पृ० १८८५०१। २-र्थोऽनपेक्ष-हा। ३ "तस्य नार्थानपेक्षत्वं पारम्पर्यात् तदागतेः । तेनात्मना च वस्तुत्वं नैवास्तीत्युपपादितम् ॥ तत्त्वसं० का० १०२७ पृ० ३२३ । ४-स्तुने प्रतिबिम्बोऽस्ति तस्याभ्रान्त-बा० । ५-क्षमस्ति हा०। ६-क्षं यच्च भां० मा० विना । ७ पृ० १८८ पं० ४ तथा पं० २७ । ८ वस्तुरूपावसा सा बुद्धिः वा. वा०। वस्तुत्वरूपावभासबुद्धिः भां० मा०। ९-द्यत्रापि मां० । १०-ना वस्तु-बा०। ११ पृ. २०३ पं० २३ । “बाह्यात्मना बुद्धयन्तरात्मना च वस्तुत्वं नास्तीत्युपपादितम् 'न तदात्मा परात्मा' इत्यादिना"-तत्त्वसं० पजि० पृ० ३२३ पं०९। १२-तं न बु-वा. बा. विना। १३-हो नागस्य-बा०। १४ पृ० १८८ पं० १४ तथा पं० ३३। १५ पृ० १८८ पं० ११ तथा ३०। १६ "प्रतिबिम्बात्मकोऽपोहः पदादप्युपजायते । प्रतिभाख्यो झटित्येव पदार्थोऽप्ययमेव नः"। तत्त्वसं. का. १०२८ पृ. ३२३ । १७-त्मकं प्र-मां०। १८ वा स्वार्थी-मां० । “बाह्यार्थो"-तत्त्वसं० पञ्जि. पृ० ३२३ पं० १५। १९ "बाह्यार्थ इति"-तत्त्वसं० पजि० पृ. ३२३ पं०१७। २०-ति प्रति-हा.। २१-पत्तिरभावतोपलम्भो बा। २२ "नोपालम्भो युक्तः”-तत्त्वसं० पञ्जि. ३२३ पं० १८। २३ पृ. १८८ पं० १४ तथा पं० ३३ । २४ "स्वरूपोत्पादमात्राद्धि नान्यमंशं बिभर्ति सा । बुद्धयन्तरादू व्यवच्छेदस्तेन बुद्धेः प्रतीयते" ॥ तत्त्वसं० का० १०२९ पृ. ३२३ । २५-दमात्रादन्यमावां सा वा० बा०। २६-न्यमश आ० हा०।-न्यमात्रां वि०। २७ एव व्यवबा०। २८-था स्वरूपं भां. मां०।-थान्येस्वरूपं आ. हा०वि०। २९ पृ. १८८ पं० १८ तथा पं० ३७ ॥ ३० “यथैवाविद्यमानस्य न भेदः पारमार्थिकः । अभेदोऽपि तथैवेति तेन(येन)पर्यायता भवेत् ॥ तत्त्वसं० का० १०३० पृ. ३२३ । ३१-रूपस्यापरस्परतो हा० । ३२ "अभेदो ह्यकरूपत्वं नीरूपेषु च तत् कुतः। एकत्वेऽर्थस्य पर्यायाः प्राप्नुवन्ति च वाचकाः"॥ तत्त्वसं० का० १०३१ पृ. ३२४ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy