________________
२०
शब्दार्थ- तत्संबन्धयोर्मीमांसा ।
२०५ विधिरव्यतिरेकवान्नास्ति विजातीयव्यवच्छेदाव्यभिचारित्वात् तस्य; इत्येकज्ञानस्य फलद्वयमविरुद्धमेव । यतो यदि साक्षादेकस्य शब्दस्य विधि-प्रतिषेधज्ञानलक्षणं फलद्वयं युगपदभिप्रेतं स्यात् तदा भवेद् विरोधः; यदा तु दिवाभोजनवाक्यवदेकं साक्षात् अपरं सामर्थ्य लभ्यं फलमभीष्टं तदा को विरोधः?
यञ्चोक्तम्-'प्रागगौरिति ज्ञानम्' इत्यादि, सदपि निरस्तम्; अनभ्युपगमात्-न ह्यगोप्रतिषेधमाभिमुख्येन गोशब्दः करोतीत्यभ्युपगतमस्माभिः, किं तर्हि ? सामर्थ्यादिति ।।
यच्चोक्तम्-'अगोनिवृत्तिः सामान्यम्' इत्यादि, तदप्यसत्; बाह्यरूपतयाऽध्यस्तो बुद्ध्याकारः सर्वत्र शाबलेयादौ 'गौौः' इति समानरूपतयावभासनात् सामान्यमित्युच्यते । बाह्यवस्तुरूपत्वमपि तस्य भ्रान्तप्रतिपत्तृवशाद् व्यवहियते न परमार्थतः।१०
नेनु च यदि कदाचित् मुख्यं वस्तुभूतं सामान्यं बाह्यवस्त्वाश्रितमुपलब्धं भवेत् तदा तत्साधर्म्यदर्शनात् तत्र सामान्यभ्रान्तिर्भवेत् यावता मुख्यार्थासम्भवे सेव भवतामनुपपन्ना, असदेतत्; साधर्म्यदर्शनाद्यनपेक्षद्विचन्द्रादिज्ञानवत् अन्तरुपप्लवादपि तज्ज्ञानसम्भवात् ; न हि सर्वा भ्रान्तयः साधर्म्यदर्शनादेव भवन्ति, किं तर्हि ? अन्तरुपप्लवादपीत्यदोष इति सिद्धसाध्यतादोषो न भवति । सँ एव वुद्ध्याकारो बाह्यतयाऽध्यस्तोऽपोहो बाह्यवस्तुभूतं सामान्यमिवोध्यते वस्तुरूपत्वेनाध्यवसा-१५ यात्, शब्दार्थत्वाऽपोहरूपत्वयोः प्रागेव कारणमुक्तम्
'बाह्यार्थाध्यवसायिन्या बुद्धः शब्दात् समुंद्भवात्'
'प्रतिभासान्तराट् भेदात्' इत्यादिना। कस्मात् पुनः परमर्थितः सामान्यमसौ न भवति ? वुद्धेरैव्यतिरिक्तत्वेनार्थान्तरानुगमाभावात् । तदुक्तम्
'ज्ञानाव्यतिरिक्तं च कथमर्थान्तरं व्रजेत्।। न च भवद्भिर्बुद्ध्याकारो गोत्वाख्यं सामान्यं वस्तुरूपमिष्टम् , किं तर्हि ? बाह्यशाबलेयादिगतमेकमनुगामि गोत्वादि सामान्यमुपकल्पितम् ; अतः कुतः सिद्धसाध्यता । यच्चोक्तम्
'निषेधमात्ररूँपश्च' इत्यादि, तस्यानभ्युपगतत्वादेव न दोषः । यच्चेदमुक्तम्
तस्यां चाश्वादियुद्धीनाम्' इत्यादि, १ "नाभिमुख्येन कुरुते यस्माच्छब्द इदं द्वयम् । खार्थाभिधानमन्यस्य विनिवृत्ति च वस्तुनः" ॥
तत्त्वसं० का० १०२१ पृ. ३२१ । २ पृ० १८६ पं०७। ३ पृ. १८६ पं० १७ तथा ३९ । ४ "तादृशः प्रतिभासश्च सामान्यं गोत्वमिष्यते। सर्वत्र शाबलेयादौ समानत्वावसायतः” ॥
तत्त्वसं० का० १०२२ पृ० ३२१ । ५ “वस्त्वित्यध्यवसायाच वस्त्वित्यपि तदुच्यते । झटित्यव हि तज्ज्ञानं भ्रान्तं जातं खबीजतः ॥
तत्त्वसं० का० १०२३ पृ. ३२२ । ६ बाह्य वस्त्वा-बा० । बाह्यवस्तुरूपत्वं निश्चितमप-वि० । ७ “सामान्यं भ्रान्तिर्भवेत्"-तत्त्वसं. पनि० ३२२ पं०५। ८ सर्वभ्रान्त-आ०। ९ पृ० १८७ पं०१०। १. “स एव च तदाकारशब्दार्थोऽपोह उच्यते । सामान्य वस्तुरूपं च तथा भ्रान्त्याऽवसायतः" ॥
तत्त्वसं० का० १०२४ पृ० ३२२ । ११-च्यतेऽवस्तु-बा०। १२ बाद्यार्थव्यवसा-आ० हा० वि०। १३-मुद्भेदात् आ०। १४ पृ० २०३ पं० १ तथा २७ । १५ पृ. २०२५० १० तथा ३१ । १६-मार्थतत्सामा-आ० हा० वि० । १७ "सामान्यवस्तुरूपत्वं न युक्तं त्वस्य भाविकम् । बुद्धेरनन्यरूपं हि यायादर्थान्तरं कथम्" ॥
तत्वसं० का० १०२५ पृ. ३२२ । १८ पृ. १८४ पं० १० तथा ३१। १९-कारे गो-आ० हा० ।-कारगो वि.। २०-मान्यवस्तु-बा। २१ तर्हि शाब-वि०। २२-न्यमनपकल्पित-आ. कां. बा० ।-न्यमनुकल्पित-हा० ।-न्यमसावुपकल्पित-वि०। २३ पृ. १८७ पं० २१ तथा ३९ । २४-रूपाश्व आ०। २५ पृ० १८७ पं० २२ तथा ४३ । २६ तस्यां वाश्वा-वा० बा० विना।