SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २०४ प्रथमे काण्डे - [ उद्योतकरदूषितस्य दिनागकथनस्य अभिप्रायमुद्धाट्य कण्टकोद्धारः ] तेनाचार्यदिग्नागस्योपरि यद् उद्योतकरेणोक्तम् — "यदि शब्दस्यापोहोऽभिधेयोऽर्थस्तदाऽभिधेयार्थव्यतिरेकेणास्य स्वार्थो वक्तव्यः अथ स एव स्वार्थस्तथापि व्याहतमेतत् अन्यशब्दार्थापोहं हि स्वार्थे कुर्वती श्रुतिरभिधत्त इत्युच्यते इति, अस्य ५ हि वाक्यस्यायमर्थस्तदानीं भवत्यभिदधानाभिधत्त इति" [ अ० २ आ० २ सू० ६७ न्यायवा० पृ० ३३० पं० २२- पृ० ३३१ पं० ३ ] तदेतद् वाक्यार्थापरिज्ञानादुक्तम् । तथाहि - स्वलक्षणमपि शब्दस्योपचारात् स्वार्थ इति प्रतिपादितम् अतः स्वलक्षणात्मके स्वार्थेऽर्थान्तरव्यवच्छेदं प्रतिबिम्बान्तराद् व्यावृत्तं प्रतिबिम्बात्मकमपोहं कुर्वती श्रुतिरधित्ते इत्युच्यते इत्येतदाचाययं वचनविरोधि । १० अयमाचार्यस्याशयः - नं शब्दस्य बाह्यार्थाध्यवसायि विकल्पप्रतिबिम्बोत्पादव्यतिरेकेणान्यो बाह्याभिधानव्यापारः, निर्व्यापारत्वात् सर्वधर्माणाम्; अतो बाह्यार्थाध्यवसायेन प्रवृत्तं विकल्पप्रतिबिम्बं जनयन्ती श्रुतिः स्वार्थमभिधत्त इत्युच्यते, नं तु विभेदिनं संजातीयविजातीयव्यावृत्तं स्वलक्षणमेषा स्पृशति, तथाविधप्रतिबिम्बजनकत्वव्यतिरेकेण नापरा श्रुतेरभिधा क्रियाऽस्तीत्यर्थः । एवंभूते चापोहस्य स्वरूपे न परोक्तदूषणावकाशः । तेन यदुक्तम् १५ 'यदि गौरिति शब्दश्च' इत्यादि । तंत्र गोबुद्धिमेव हि शब्दो जनयति, अन्यविश्लेषस्तु सामर्थ्याद् गम्यते न तु शब्दात् तस्य गोप्रतिबिम्बस्य प्रतिभासान्तरात्मरहितत्वात् - अन्यथा नियतरूपस्य प्रतिपत्तिरेव न स्यात् - तेनापरो ध्वनिगबुद्धेर्जनको न मृग्यते, गोशब्देनैव गोबुद्धेर्जन्यमानत्वात् । - 'ननु ज्ञानफलाः शब्दाः' इत्यादि कुमारिलंवचनम्, २० तदप्यसारम् ः यतो यथा 'दिवा न भुङ्क्ते पीनो देवदत्तः' इत्यस्य वाक्यस्य साक्षाद् दिवाभोजनप्रतिषेधः स्वार्थः, अभिधानसामर्थ्यगम्यस्तु रात्रिभोजनविधिर्न साक्षात् तद्वत् 'गौः' इत्यादेरन्वयप्रतिपादस्य शब्दस्यान्वयज्ञानं साक्षात् फलम् व्यतिरेकगतिस्तु सामर्थ्यात् यस्मादन्वयो १ " यदि च शब्दस्याऽपोहो नाभिधेयार्थः " - न्यायवा० पृ० ३३० पं० २२ । २ “भवत्यन्यदनमिदधानोऽभिधत्त इति" - न्यायवा० पृ० ३३१ पं० २ । ३ वाच्यार्था - भां० म० । ४ " अर्थान्तरव्यवच्छेदं कुर्वती श्रुतिरुच्यते । अभिधत्त इति स्वार्थमित्येतदविरोधि तत्" ॥ तत्त्वसं ० का ० १०१६ पृ० ३२० । ७ - चार्याय आ० हा ० वि० । तेनाहेत्यपदिश्यते” ॥ ५ पृ० २०३ पं० २५ । ६ भिवर्तत इत्यु-आ० हा ० वि० । ८ "बाह्यार्थाध्यवसायेन प्रवृत्तं प्रतिबिम्बकम् । उत्पादयति येनेयं तत्त्वसं० का० १०१७ पृ० ३२० । ९ " न तु खलक्षणात्मानं स्पृशत्येषा विभेदिनम् । तन्मात्रांशातिरेकेण नास्त्यस्या अभिधा क्रिया " ॥ तत्त्वसं० का० १०१८ पृ० ३२० । १० विभेदनं आ० वा० बा० ११ सजातीयव्यावृत्तं आ० हा० वि० । १२ श्रुतिरभिधा भां० मां० । १३ पृ० १८६ पं० ३ । १४ “तस्य च प्रतिबिम्बस्य गतावेवानुगम्यते । सामर्थ्यादन्यविश्लेषो नास्यान्यात्मकता यतः” ॥ तत्त्वसं ० का ० १०१९ पृ० ३२० । १५ तस्यागो प्रतिप्रभासान्त-आ० । तस्य गोप्रतिभासान्त - हा० वि० । तस्य गोशप्रतिभासान्त - वा० बा० । १६- रूपस्याप्रति भां० मां० विना । "नियतरूपस्य तस्य प्रतिपत्तिरेव न स्यात् " - तत्त्वसं० पञ्जि० पृ० ३२० पं० २८ । १७ तेन परो भ० मां० विना । १८५० १८६०५ । पृ० १८५ गतं चतुर्दशतमं टिप्पणं विलोकनीयम् । १९ मुद्रिते श्लोकवार्तिके नैतत् कुमारिलवचनं दृश्यते, तत्त्वसंग्रहे तु मूलकारिकासु दृश्यते, किन्तु तत्पञ्जिकाकारेण कमलशीलेन तत् पद्यं भामह कर्तृकत्वेन परिचायितम्, उपलभ्यते चैतत् भामहालंकारे । २० “दिवाभोजन वाक्यादेरिवाऽस्यापि फलद्वयम् । साक्षात् सामर्थ्यतो यस्मान्नान्वयोऽव्यतिरेकवान् " ॥ तत्त्वसं० का० १०२० पृ ३२१ । २१- दत्तस्य वाक्यस्य भां० मां० वा० बा० विना । २२- कशब्दस्या- भ० मां० वा० वा० विना ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy