SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोर्मीमांसा । २०३ तत्र य एव हि शाब्दे ज्ञाने साक्षाद् भासते स एवं शब्दार्थो युक्तः । न चात्र प्रसज्यप्रतिषेधावसायः, वाच्याध्यवसितस्य बुद्ध्याकारस्य शब्दजन्यत्वात् । नापीन्द्रियज्ञानवद् वस्तुस्वलक्षणप्रतिभासः, किं तर्हि ? बाह्यार्थाध्यवसायिनी केवलशाब्दी बुद्धिरुपजायते तेन तदेवार्थप्रतिबिम्बकं शाब्दे ज्ञाने साक्षात् तदात्मतया प्रतिभासनाच्छब्दार्थो युक्त इति अपोहत्रये प्रथमोऽपोहव्यपदेशमासादयति। __यश्चापि शब्दस्यार्थेन सह वाच्यवाचकभावलक्षणसम्बन्धः प्रसिद्धो नासौ कार्यकारणभावादन्योऽवतिष्ठते, बाह्यरूपतयाऽध्यवसितस्य बुझ्याकारस्य शब्दजन्यत्वाद् वाच्यवाचकलक्षणसम्बन्धः कार्यकारणभावात्मक एव; तथा च शब्दस्तस्य प्रतिविम्बात्मनो जनकत्वाद् वाचक उच्यते प्रतिबिम्बं च शब्दजन्यत्वाद् वाच्यम् । ['निषेधमात्रमेव अन्यापोहः' इति मत्वा अपोहपक्षमाक्षिप्तवतः कौमारिलस्य निराकरणम् ] १० तेन यदुक्तम् निषेधात्रं नैवेह शाब्दे ज्ञानेऽवभासते' । इति, तदसङ्गतम् ; निषेधमात्रस्य शब्दार्थत्वानभ्युपगमात्। एवं तावत्प्रतिबिम्बलक्षणोऽपोहः साक्षाच्छब्दैरुपर्जन्यत्वाद् मुख्यः शब्दार्थो व्यवस्थितः; शेषयोरप्यपोहयोगौणं शब्दार्थत्वमविरुद्धमेव । तथाहि "साक्षादपि च एकस्मिन्नेवं च प्रतिपादिते। सज्यप्रतिषेधोऽपि सामर्थ्येन प्रतीयते" ॥ [ तत्त्वसं० का० १०१३] सामर्थ्य च गवादिप्रतिबिम्बात्मनोऽपरप्रतिबिम्बात्मविविक्तत्वात् तदसंयुक्ततया प्रतीयमानत्वम् , तथा तत्प्रतीतौ प्रसज्यलक्षणापोहप्रतीतेरप्यवश्यं सम्भवात्। अतस्तस्यापि गौणशब्दार्थत्वम् । स्वलक्षणस्यापि गौणशब्दार्थत्वमुपपद्यत एव । तथाहि-प्रथमं यथावस्थितवस्त्वनुभवः, ततो विवक्षा, ततस्ताल्वादिपरिस्पन्दः, ततः शब्द इत्येवं परम्परया यदा शब्दस्य बाह्यार्थेष्वभिसम्बन्धः स्यात् तदा २० विजातीयव्यावृत्तस्यापि वस्तुनोऽर्थापत्तितोऽधिगम इत्यन्यव्यावृत्तवस्त्वात्माऽपोहशब्दार्थ इत्युपैंचर्यते । तदुक्तम् "न तदात्मा परात्मेति सम्बन्धे सति वस्तुभिः । व्यावृत्तवस्त्वधिगमोऽप्यर्थादेव भवत्यतः" ॥ [ तत्त्वसं० का० १०१४ ] ,"तेनायमपि शब्दस्य स्वार्थ इत्युपचर्यते।। न च साक्षादयं शब्दै द्वि(द्वैदि) विधोऽपोह उच्यते" ॥ [ तत्त्वसं० का० १०१५] इति । १ "तत्रायं प्रथमः शब्दैरपोहः प्रतिपाद्यते । वाह्यार्थाध्यवसायिन्या बुद्धेः शब्दात् समुद्भवात्" ॥ तत्त्वसं० का० १०११पृ० ३१८।। २ हि शब्दे आ० हा० वि० विना। ३-क्षात् प्रतिभासते भां० मा०। ४-व शब्दोऽर्थो आ० हा० । -व शाब्दार्थो वा० बा० ।-व शाब्दोऽर्थो कां० । “स एव शब्दार्थो युक्तः"-तत्त्वसं० पजि० पृ. ३१८ पं० २३ । स्याद्वादर० पृ. ३४९ द्वि० पं० ९। ५ न चाद्य मां० । “न चात्र प्रसज्यप्रतिषेधाध्यवसायः"-तत्त्वसं० पजि. पृ. ३१८ पं० २३। ६-तबुद्ध्या-वा० बा० । ७ “तद्रूपप्रतिबिम्बस्य धियः शब्दाच्च जन्मनि । वाच्यवाचकभावोऽयं जातो हेतुफलात्मकः ॥ तत्त्वसं० का० १०१२ पृ० ३१८ । ८-क्षणः सम्ब-कां०। ९ बाह्यरूपतया वाचकलक्षणसंबन्धःकार्यकारणभावात्मक एव भां० मां. विना । स्याद्वादर.पृ० ३४९ द्वि०पं०१२। १०-णस्संबन्धःभां०मा०। ११-प्रतिबिम्बस्य जनक-भां० मां। तथैव तत्त्वसं० पञ्जि. पृ० ३१९५० ७॥ १२ पृ० १८५ पं० २६। १३-मात्रमैवैदशा-वा० बा०।-मात्रमेवेह आ० हा० वि०। १४-जन्यमानत्वाद मुख्यः भां. मां । तथैव तत्त्वसं० पजि. पृ. ३१९ पं० १०। १५-गौणश-वा. बा०। १६ “साक्षादाकार एतस्मिन्नेवं च"-तत्त्वसं० पृ० ३१९५० १३। १७-स्मिन्नेव च बा० कां०। १८-पाद्यते वा. बा. विना। १९-प्रसह्य-मां०। २०-त्वान्न संय-वि०। २१ बाहोर्थेषुभिः संबन्धः वा. बा० । बार्बेवभिसंबन्धः वि० । बाबैर्वस्तुभिः संबन्धः भां० मा० । “यदा शब्दस्य वस्तुभिर्बारिम्यादिभिः संबन्धः"तत्त्वसं० पजि. पृ० ३१९ पं० २५। २२-तीयाव्यावृ-वा. बा. विना। २३-स्तुनोऽर्थोपपत्तितो कां० । २४-पवर्याते हा०। -पवर्जते मां। २५-वस्त्वमिग-बा०। २६ शास्त्रवा० स्याद्वादक. पृ०४०२ प्र० पं०४ । २७ शब्दे द्वि-आ० हा०वि०"शाब्दो द्विविधोपोह उच्यते"-तत्त्वसं० पृ. ३१९ पं०१८। २८-विधापोह बा । १०१५, २५
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy