SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ - तत्संबन्धयोर्मीमांसा । १९९ किचे, 'न अन्यापोहः अनन्यापोहः' इत्यादौ शब्दे विधिरूपादन्यद् वाच्यं नोपलभ्यते, प्रतिपेद्वयेन विधेरेवावसायात् । अत्र च 'नञश्चापि नत्रा योगे' इत्यनेनार्थस्य गतत्वेऽपि 'अन्यापोहः शब्दार्थः' इत्येवंवादिनां स्ववचनेनैव विधिरिष्ट इति ज्ञापनार्थ पुनरुक्तम् । तथाहि - अनन्यापोहशब्दस्यान्यापोहः शब्दार्थो व्यवच्छेद्यःः स च विधेर्नान्यो लक्ष्यते । ये च प्रमेय-ज्ञेयाऽभिधेयादयः शब्दास्तेषां न किञ्चिदपोह्यमस्ति सर्वस्यैव प्रमेयादिस्वभावत्वात् । तथाहि - यन्नाम किञ्चिद् ५ व्यवच्छेद्यमेषां कल्प्यते तत् सर्वे व्यवच्छेद्याकारेणालम्ब्यमानं ज्ञेयादिस्वभावमेवावतिष्ठते, न ह्यविषयीकृतं व्यवच्छेत्तुं शक्यम्; अतोऽपोह्याभावादव्यापिनी व्यवस्था । } ननु हेर्तुमुखे निर्दिष्टम् “अज्ञेयं कल्पितं कृत्वा तद्व्यवच्छेदेन ज्ञेयेऽनुमानम्" [ हेतु० इति तत् कथमव्यापित्वं शब्दार्थव्यवस्थायाः, नैतत् यतो यदि ज्ञेयमप्यज्ञेयत्वेनापोह्यमस्य कल्प्यते तदा वरं वस्त्वेव विधिरूपं शब्दार्थत्वेन कल्पितं भवेत् यदध्यवसीयते लोकेन; एवं ह्यदृशध्यारोपो १० दृष्टापलापश्च न कृतः स्यात् । [ विकल्पप्रतिविम्बार्थवादिमतमुल्लिख्य तन्निरसनम् ] ये त्वाहु:- " विकल्पप्रतिबिम्बमेव सर्वशब्दानामर्थः, तदेवें चाभिधीयते व्यवच्छिद्यत इति च" [ [] तेऽपि न युक्तकारिणः । "निराकारा बुद्धिः आकारवान् बाह्योऽर्थः - " स वहिर्देशसम्बन्धी विस्पष्टमुपलभ्यते” [ १५ ] इत्यादिना ज्ञानाकारस्य निषिद्धत्वात् अन्तरस्य बुद्ध्यारूढस्याकारस्यासत्त्वात् तदवसायकत्वं शब्दानामयुक्तम् अत एव तस्यापोह्यत्वमप्यनुपपन्नम् । ये 'म्' 'इत्थम्' इत्यादयः शब्दास्तेषामपि न किञ्चिदपोह्यम्, प्रतियोगिनः पर्युदासरूपस्य कस्यचिदभावात् । अँथ 'नैवम्' इत्यादिप्रसज्यरूपं प्रतिषेध्यमत्रापि भविष्यति, नः उकोत्तरत्वात् । "न नैवमिति निर्देशे निषेधस्य निषेधनम् । एवमित्यनिषेध्यं तु स्वरूपेणैव तिष्ठति ॥ " [ २० 1 इति न्यायात् । १ " अनन्या पोहशब्दादौ वाच्यं न च निरूप्यते । प्रमेय-ज्ञेयशब्दादेरपोह्यं कुत एव तु " ॥ श्लो० वा० अपो० श्लो० १४४ । तत्त्वसं० का० ९७९ पृ० ३११ । २ नान्यापोह इत्यादौ वा० बा० । प्रमेयक० पृ० १२८ प्र० पं० ८ । शास्त्रवा० स्याद्वादक० पृ० ४०८ प्र० पं० ५ । ३ अनन्यापोहः शब्दार्थो व्यवच्छेद्यः आ० । “अन्यापोहशब्दस्य अनन्यापोहशब्दार्थो व्यवच्छेद्यः”तत्त्वसं० पञ्जि० पृ० ३१२ पं० १६ । ४ प्रमेयक० पृ० १२६ प्र० पं० ५ । शास्त्रवा० स्याद्वादक० पृ० ४०८ प्र० पं० ७ । ५ " अव्यापिन्यपोहव्यवस्था " - शास्त्रवा० स्याद्वादक० पृ० ४०८ प्र० पं० ७। ६- तुमुखेन नि-कां० । हेतुमुखनामा ग्रन्थः । ७ " यत्तु अत्र दिङ्नागेनोक्तम्- “अज्ञेयं कल्पितं कृत्वा ज्ञेयशब्दः प्रवर्तते" इति" - लो० वा० पार्थ० व्या० पृ० ६०५ पं० ९ । ८ " अपोह्यकल्पनायां तु वरं वस्त्वेव कल्पितम्” । लो० वा० अपो० श्लो० १४५ । तत्त्वसं ० का ० ९८० पृ० ३१२ । ९ कल्पते आ० हा० । भ० मां० विना । १२ तत्त्वसं० प० पृ० ३१३ पं० ३ । वा० अपो० लो० १४५ । तत्त्वसं० का ० ९८० पृ० ३१२ । १४ “स बहिर्देशसंवद्ध इत्यनेन निरूप्यते । ग्राह्याकारस्य संवित्तिग्रहकानुभवादृते " ॥ श्लो० वा० शून्य० श्लो० ७९ । १० - रूपशब्दा-भां० मां० विना । ११- व वाभि१३ “ज्ञानाकारनिषेधाच नान्तरार्थाभिधेयता" ॥ श्लो० १५ - स्यासंभवत्वात् तद-कां० । १६ " न चाप्यपोता तस्मान्नापोहस्तेषु सिध्यति । एवमित्यादिशब्दानां नवाऽपोह्यं निरूप्यते " ॥ १७ " न हि अनेव नामेति किञ्चिदस्ति, ति" - लो० वा० पार्थ० व्या० पृ० ६०५ कुमारिलोक्तमुपन्यस्तम्” - तत्त्वसं० पञ्जि० पृ० श्लो० वा० अपो० श्लो० १४६ | तत्त्वसं० का ० ९८१ पृ० ३१२ । प्रकारवचनत्वाद् ' एवं 'शब्दस्य सर्वस्य च प्रकारभाक्त्वे नैवंभावाऽयोगादिपं० १५ । १८ पृ० १९८ पं० ७ तथा पं० २७ । १९ “ एतत् सर्व ३१३ पं० १३ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy