SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ १९८ प्रथमे काण्डेन च व्यावृत्त्याधारभूताया व्यक्तेर्वस्तुत्वाल्लिङ्गादिसम्बन्धात् तद्वारेणापोहस्याप्यसौ व्यवस्थाप्यः, व्यक्त निर्विकल्पकज्ञानविषयत्वाल्लिङ्ग-सङ्ख्यादिसम्बन्धेन व्यपदेष्टुमशक्यत्वात् अपोहस्य तद्द्वारेण तद्यवस्थाऽसिद्धेः। अव्यापित्वं चापोहशब्दार्थव्यवस्थायाः, ‘पचति' इत्यादिक्रियाशब्देष्यन्यव्यवच्छेदाप्रतिपत्तेः। ५यथा हि घटादिशब्देषु निष्पन्नरूपं पटादिकं निषेध्यमस्ति न तथा 'पचति' इत्यादिषुः प्रतियोगिनो निष्पन्नस्य कस्यचिदप्रतीतेः । अथ मा भूत् पर्युदासरूपं निषेध्यम्, 'न पचति' इत्येवमादि प्रेसज्यरूपं 'पचति' इत्यादेर्निषेध्यं भविष्यति, असदेतत् : 'तन्न (न न) पचति' इत्येवमुच्यमाने प्रसज्यप्रतिषेधस्य निषेध एवोक्तः स्यात्, ततश्च प्रतिषेधद्वयस्य विधिविषयत्वाद् विधिरेव शब्दार्थः प्रसक्तः। किञ्च, 'पति' इत्यादौ साध्यत्वं प्रतीयते; यस्यां हि क्रियायां केचिदवयवा निष्पन्नाः केचिदनिष्पन्नाः १०सा पूर्वापरीभूतावयवा क्रिया साध्यत्वप्रत्ययविषयः, तथा, 'अभूत्' 'भविष्यति' इत्यादौ भूतादि कालविशेषप्रतीतिरस्ति, न चापोहस्य साध्यत्वादिसम्भवः निप्पन्नत्वादभावैकरसत्वेन; तस्मादपोहशब्दार्थपक्षे साध्यत्वप्रत्ययो भूतादिप्रत्ययश्च निर्निमित्तः प्राप्नोतीति प्रतीतिवाधा । न च विध्यार्दीवन्यापोहप्रतिपत्तिरस्ति, पर्युदासरूपस्य निषेध्यस्य तत्राभावात् । 'न न पचति देवदत्तः' इत्यादी च ना(ओ)ऽपरेण नञा योगे नवापोहः, प्रतिषेधद्वयेने विधेरेव संस्पर्शात् । अपि च, चादीनां १५ निपातोपसर्गकर्मप्रवचनीयानां पदन्यमिष्टम् , न चैपां नत्रा सम्बन्धोऽस्ति असम्बन्धवचनत्वात् । तथाहि-यथा हि घटादिशब्दानाम् 'अघटः' इत्यादौ नत्रा सम्बन्धेऽर्थान्नरस्य पटादेः परिग्रहात् तावच्छेदेने नत्रा रहितस्य घटशब्दस्यार्थोऽवकल्पते न तथा चादीनां नत्रा सम्बन्धोऽस्ति, न चाँसम्बन्ध्यमानस्य नञाऽपोहनं युक्तम् । अतश्चादिप्वपोहाभावः । अपि च, कल्मायुवर्णवच्छवलैक्यरूपो वाक्यार्थ इति नान्यनिवृत्तिस्तत्त्वेन व्यपदेष्टुं शक्या, निप्पन्नरूपस्य प्रतियोगिनोऽप्रतीतेः । २०यो तु 'चैत्र! गामानय' इत्यादावचैत्रादिव्यवच्छेदरूपाऽन्यनिवृत्तिरवयवपरिग्रहेण वर्ण्यते सा पदार्थ एव स्यात् न वाक्यार्थः; तस्यावयवस्येन्थं विवेकुमशक्यत्वादित्यव्यापिनी शब्दार्थव्यवस्था। १-वृत्ताधारभूतायां वा० वा. आ. हा० वि० । २ "आख्यातेषु च नान्यस्य निवृत्तिः संप्रतीयते । न पर्युदासरूपं हि निषेध्यं तत्र विद्यते"॥ श्रो० वा. अपो० श्लो. १३९ । तत्त्वसं. का. ९७४ पृ. ३१० । ३ "प्रसज्यरूपं 'पचति' इत्यादेनिषेध्यं भविष्यतीत्याह-न न पचति' इत्येवमुच्यमाने"-तत्त्वसं० पनि० पृ० ३११ पं०४-१०। ४ “न नेति ह्युच्यमानेऽपि निषेधस्य निषेधनम् । पचतीत्यनिषिद्धं तु स्वरूपेणावतिष्ठते"॥ ओ० वा. अयो० श्लो० १४० । तत्त्वसं. का. ९७५ पृ. ३११ । ५ "साध्यत्वप्रत्ययश्चात्र तथा भूतादिरूपणम् । निश्पन्नत्वादपोहस्य निर्निमित्तं प्रसज्यते ॥ श्लो. वा० अपो० श्लो० १४१ । तत्त्वसं. का० ९७६ पृ० ३११ । ६ “यस्याः क्रियायाः"-तत्त्वसं० पजि. पृ. ३११५० १३ । ७ "विध्यादावर्थराशौ च नान्यापोहनिदर्शनम् । नत्रश्चापि नया युक्तादपोहः कीदृशो भवेत् ॥ श्लो. वा. अपो० श्लो० १४२ । तत्त्वसं० का. ९७७ पृ. ३११ । ८ “आदिशब्देन निमन्त्रणाऽऽमन्त्रणादीनां ग्रहणम्"-तत्त्वसं० पजि. पृ० ३११ पं० २६ । “निमन्त्रणादीनां विभक्त्यर्थानां च कर्मादीनामादिशब्देन ग्रहणमिति"-श्लो० वा. पार्थ. व्या० पृ० ६०५५०८। ९ निषेधस्य मां० । १० "नओऽपरेण ना"-तत्त्वसं० पजि० पृ. ३११ पं० २८ । शास्त्रवा० स्याद्वादक, पृ० ४०७ द्वि. पं. ९। ११ -न विधिरेव वा. विना०। १२ असंबद्धव-भां० मां । “असत्त्ववचनत्वात्"-तत्त्वसं० पजि० पृ०३१२५०३ । शास्त्रवा० स्याद्वादक. पृ०४०७ द्वि०पं०१४ । १३-देनाभां०मां. विना। १४-स्यार्थी विकल्प्यते भां०मां। १५ “चादीनामपि नभ्योगो नैवास्तीत्यनपोहनम् । वाक्यार्थोऽन्यनिवृत्तिश्च व्यपदेष्टुं न शक्यते"॥ श्लो. वा. अपो० श्लो. १४३ । तत्त्वसं० का० ९७८ पृ. ३११ । १६ “न तथा चादीनाम् 'न च'इत्यादिना"-तत्त्वसं० पजि. पृ. ३१२ पं०६। १७ चासंबध्यमान-वा० बा०। १८ “किञ्च, वाक्यार्थः कल्माषवर्णवच्छबलैकरूप इष्यते"-तत्त्वसं० पञ्जि. पृ० ३१२ पं० । शास्त्रवा० स्याद्वादक० पृ. ४०८ प्र. पं०३। १९ यत्तु भां० मा० । शास्त्रवा० स्याद्वादक. पृ.४०८ प्र.५०३। २. "तस्यानवयवस्येत्थं विवेक्तुमशक्यत्वात्"-तत्त्वसं० पजि. पृ. ३१२५ १०।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy