SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोर्मीमांसा । १९७ वनीलव्युदास इति नानयोः परस्परमाधाराधेयसम्बन्धोऽस्ति नीलरूप(नीरूप)त्वात् ; न चासति सम्बन्धे विशेषणविशेष्यभावो युक्तः अतिप्रसङ्गात्; अतो युष्मन्मतेनाभाववाचित्वाच्छबलार्थाभिधायित्वासम्भवान्न विशेषणविशेष्यभावो युक्तः। अभिधेयद्वारेणैव हि तद्भिधायिनोः शब्दयोर्विशेषणविशेष्यभाव उपचर्यते, अभिधेये च तस्यासम्भवेऽभिधानेऽपि कुतस्तदारोपः ? सामानाधिकरण्यमपि नीलोत्पलशब्दयोर्न सम्भवति, तद्वाच्ययोरनीलानुत्पलव्यवच्छेदलक्षण- ५ योरपोहयोभिन्नत्वात् । तच्च भवद्भिरेव ___ 'अपोह्यमेदाद भिन्नार्था' इत्यभिधानादवसीयते । प्रयोगः-न नीलोत्पलादिशब्दाः समानाधिकरणव्यवहारविषयाः, भिन्नविषयत्वात्, घटादिशब्दवत्। न च यत्रैव ह्यर्थेऽनुत्पलव्युदासो वर्त्तते तत्रैवानीलव्युदासोऽपीति नीलोत्पलशब्दवाच्ययोरपोहयोरेकस्मिन्नर्थे वृत्तेः अर्थद्वारकं सामानाधिकरण्यं शब्दयोरपीति वक्तुं १० युक्तम् , अपोहयोर्नीरूपत्वेन क्वचिदवस्थानासम्भवतो वास्तवाधेयतायोगाद् वन्ध्यासुतस्येव । भवतु वा नीलोत्पलादिष्वर्थेषु तयोराधेयता तथापि सा विद्यमानापि न शब्दैः प्रतिपाद्यते, यतस्तदेवासाधारणत्वान्नीलोत्पलादि वस्तु न शब्दगम्यम्, स्वलक्षणस्य सर्वविकल्पातीतत्वात् तदप्रतिपत्तौ च तदधिकरणयोरपोहयोस्तदाधेयता कथं ग्रहीतुं शक्या धर्मिग्रहणनान्तरीयकत्वाद् धर्मग्रहणस्य ? न चासाधारणवस्तुव्यतिरेकेण तयोरन्यदधिकरणं सम्भवति भवदभिप्रायेण । न १५ चाप्रतीयमानं सदपि सामानाधिकरण्यव्यवहाराङ्गम् अतिप्रसङ्गात् । न च व्यावृत्तिमद् वस्तु शब्दवाच्यम्-यतो व्यावृत्तिद्वयोपाधिकयोःशब्दयोरेकस्मिन्नपोहवति वस्तुनि वृत्तेःसामानाधिकरण्यं भवेत्-परतन्त्रत्वाद् नीलादिशब्दस्येतरभेदानाक्षेपकत्वात् ; स हि व्यावृत्त्युपसर्जनं तद्वन्तमर्थमाह न साक्षात् ततश्च साक्षादनभिधानात् तद्गतभेदाक्षेपो न सम्भवति, यथा-मधुरशब्देन शुक्लादेः । यद्यपि शुक्लादीनां मधुरादिभेदत्वमस्ति तथापि शब्दस्य साक्षादभिहितार्थगतस्यैव भेदस्याक्षेपे२० सामर्थ्यम् न तु पारतयेणाभिहितार्थगतस्य; ततश्च नीलादिशब्देन तद्गतभेदानाक्षेपात् उत्पलादीनामतद्भेदत्वं स्यात् । अतद्भेदत्वे च न सामान्याधिकरण्यम्; तेन जातिमन्मात्रपक्षे यो दोषः प्रतिपादितो भवता “तद्वतो न वाचकः शब्दः, अस्वतन्त्रत्वात्”[ ] इति स व्यावृत्तिमन्मात्रपक्षेऽपि तुल्यः। तथाहि-जातिमन्मात्रे शब्दार्थे सच्छब्दो जातिस्वरूपोपसर्जनं द्रव्यमाह न साक्षादिति तद्गतघटादिभेदानाक्षेपात् अतद्भेदत्वे सामानाधिकरण्याभावप्रसङ्ग उक्तः; स व्यावृत्ति-२५ मन्मात्रपक्षेऽपि समानः-तत्रापि हि सच्छब्दो व्यावृत्युपसर्जनं द्रव्यमाह न साक्षादिति तद्गतभेदानाक्षेपोऽत्रापि समान एव; को पत्र विशेषः जातिव्या(०)वृत्तिर्जातिमद्या(र्जातिमान् व्या)वृत्तिमानिति। न च लिङ्ग-सङ्ख्या-क्रिया-कालादिभिः सम्बन्धोऽपोहस्यावस्तुत्वाद् युक्तः, एषां वस्तुधर्मत्वात् । न च लिङ्गादिविविक्ता पदार्थः शक्यः शब्देनाभिधातुम् , अतः प्रतीतिबाधाप्रसङ्गः प्रतिज्ञायाः। १ "नीरूपत्वात्"-तत्त्वसं० पजि० पृ० ३०८ पं० १८ । वि. प्रतावपि तथैव संशोधितं दृश्यते। २ “सामानाधिकरण्यं च न भिन्नत्वादपोहयोः । अर्थतश्चैतदिष्येत कीदृश्याधेयता तयोः" ॥ श्लो. वा. अपो० श्लो. ११८ । तत्त्वसं० का० ९७० पृ. ३०८ । ३ भिन्नार्थेत्यभि-भा० मा० विना। ४ पृ० १९६ पं० १४। ५-नीलरूप-वा० बा० विना। ६-गादस्तुतस्यैव-भां० मा० वा. बा. विना। ७ "न चासाधारणं वस्तु गम्यतेऽन्यच्च नास्ति ते । अगम्यमानमैकार्थ्य शब्दयोः क्वोपयुज्यते"॥ श्लो० वा० अपो० श्लो० ११९ । तत्त्वसं• का० ९७१ पृ. ३०९। ८ “अथान्यापोहवद्वस्तु वाच्यमित्यभिधीयते । तत्रापि परतन्त्रत्वाद् व्याप्तिः शब्देन दुर्लभा" ॥ श्लो० वा. अपो० श्लो० १२० । तत्त्वसं० का० ९७२ पृ.३०९। ९-दानापेक्षक-भां० मां०। १०-त्वात् न हि वा. बा०। ११ “अतद्भेदत्वे च सामानाधिकरण्यं न प्रामोति"-तत्त्वसं० पजि० पृ. ३१०५०६। १२ तत्त्वसं० पजि. पृ. ३१० पं० । “जातिमदभिधानेऽपि तद्वतो नाऽखतन्त्रत्वात्' इत्यादिना सामानाधिकरण्यानुपपत्तिर्भिक्षुणा दर्शिता"-श्लो. वा. पार्थ० व्या. पृ० ५९८ पं०७॥ १३ जातिव्यावृत्तिजातिमद्वयावृत्तिमानिति वि.। जातिमद्यावृत्तिमानिति आ० । जातिमाच्यामावत्तिमानिति वा० बा । "को पत्र विशेषः जातिया॑वृत्तिर्जातिमान् व्यावृत्तिमानिति"-तत्त्वसं० पजि.पृ. ३१०५०१२। १४ "लिङ्ग-संख्यादिसंबन्धो न वाऽपोहस्य विद्यते । व्यक्तेरव्यपदेश्यत्वात् तद्वारेणापि नास्त्यसौ" ॥ श्लो. वा. अपो० श्लो. १३५ । तत्त्वसं० का० ९७३ पृ. ३१०।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy