SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ १९६ प्रथमे काण्डेभवतामिति व्यापकविरुद्धोपलब्धिः। ननु च मेघाभावाद् वृष्टयभावप्रतीतेहेतोरनैकान्तिकता, अनु. क्तमेतत् ; यस्मात् तद्विविक्ताकाशाऽऽलोकात्मकं च वस्तु मत्पक्षेत्रापि प्रयोगो(गे)ऽस्त्येव, अभावस्य वस्तुत्वप्रतिपादनात् । भवत्पक्षे तु न केवलमपोहयोर्विवादास्पदीभूतयोर्गम्यगमकत्वं न युक्तम् अपि स्वेतदपि वृष्टिमेघाभावयोर्गम्यगमकत्वमयुक्तमेव । किञ्च, यदेतद् भवद्भिरन्वयोपसर्जनयोर्व्यतिरेक५प्रधानयोः स्वविषयप्रतिपादकत्वं शब्द-लिङ्गयोर्वर्ण्यते, यच्च "अदृष्टेरन्यशब्दार्थे स्वार्थस्यांशेऽपि दर्शनात् । श्रुतेः सम्बन्धसौकर्य न चास्ति व्यभिचारिता"॥ [ इत्यादि वर्णितम् तदप्यपोहाभ्युपगमेऽसङ्गतम् , यतः ___ "विधिरूँपश्च शब्दार्थो येन नाभ्युपगम्यते । न भवेद् व्यतिरेकोऽपि तस्य तत्पूर्वको ह्यसौ” ॥ [ श्लो० वा० अपो० श्लो० ११०] विधिनिवृत्तिलक्षणत्वाद् व्यतिरेकस्येति भावः। किञ्च, नीलोत्पलादिशब्दानां विशेषणविशेष्यभावः सामानाधिकरण्यं च यदेतल्लोकप्रतीत तस्यापह्नवोऽपोहवादिनः प्रसक्तः। यच्चेदं विशेषणविशेष्यभाव-सामानाधिकरण्यसमर्थनार्थमुच्यते "अपोह्यभेदादू भिन्नार्था स्वार्थभेदगती जडा। एकत्वाभिन्नकार्यत्वाद् विशेषणविशेष्यता" ॥[ "तन्मात्राकाङ्क्षणाद् भेदः स्वसामान्येने नोज्झितः। नोपात्तः संशयोत्पत्तेः सैव चैकार्थता तयोः" ॥ [ ] इति, तदप्यनुपपन्नम्। यतः परस्परं व्यवच्छेदा(द्य)व्यवच्छेदकभावो विशेषणविशेष्यभावः; से च बाह्य (वाक्य ) एव व्यवस्थाप्यते यथा 'नीलो(नीलमु)त्पलम्' इति । व्यधिकरणयोरपि यथा 'राज्ञः २० पुरुषः' इत्यादौ । भिन्ननिमित्तप्रयुक्तयोस्तु शब्दयोरेकस्मिन्नर्थे वृत्तिः सामानाधिकरण्यम्; तञ्च 'नीलोत्पलम्' इत्यादौ वृत्तावेव व्यवस्थाप्यते । न च नीलोत्पलादिशब्देषु शबलार्थाभिधायिषु तत्सिद्धिः, शबलार्थाभिधायित्वं च तेषाम् "न हि तत् केवलं नीलं न च के समुदायाभिधेयत्वात्" [ 1 २५ इत्यादिना प्रतिपादितम् । यतः नीलत्वव्युदासेऽनुत्पलव्युदासो नास्ति, नाप्यनुत्पलप्रच्युता. १ "वृष्टिमेघासतोदृष्ट्वा यद्यनैकान्तिकं वदेत् । वस्त्वेवाऽत्रापि मत्पक्षे भवत्पक्षेऽप्यदः कुतः" ॥ श्लो० वा. अपो० श्लो. १०९ । तत्त्वसं० का० ९६५ पृ. ३०७ । २“प्रयोगे"-प्रमेयक० पृ०१२८ प्र०५०५।“मत्पक्षेत्रापि वृष्टिमेघाभावप्रयोगे"-तत्त्वसं० पञ्जि.पृ०३०७५०१०। ३ यथा आ०। ४ अदृष्टेरन्यशब्दार्थस्वार्थ-हा० । अदृष्टैरन्यशब्दार्थे का० । अदृष्टैरन्यशब्दाथै स्वा-वि० । अदृष्टेऽप्यन्यशब्दार्थस्वा-वा. बा०। ५ श्रुते संबन्धसौकार्य आ. हा.वि. का.। श्रुतोः संबन्धसौकर्यम् वा. बा०। ६ तत्त्वसं० पजि० पृ. ३०७ पं० १७॥ ७-रूपस्य श-वा० बा०। ८ तत्त्वसं. का० ९६६ पृ. ३०७ । ९भिन्नार्थाः हा० वि० । भिन्नार्थाऽस्वा-आ० । १० एकत्राभि-आ. हा०वि०। ११ “अपोह्यभेदादू भिन्नार्थाः स्वार्थभेदगतौ जडाः । एकत्राभिन्न कार्यत्वाद विशेषणविशेष्यकाः ॥ तत्त्वसं० पजि. पृ. ३०७ पं० २५। १२-न चोज्झितः वि०। १३-पात्तसं-वा. बा०। १४-शयोत्पत्तिः वि० । १५-व वैका-आ। १६ “साम्ये चैकार्थता तयोः'-तत्त्वसं० पजि. पृ. ३०७ पं० २७ । श्लो० वा. पार्थ. व्या० पृ. ६०८ पं० २४ । १७ “अपोहमात्रवाच्यत्वं यदि चाऽभ्युपगम्यते । नीलोत्पलादिशब्देषु शबलार्थाभिधायिषु"॥ "विशेषणविशेष्यत्व-सामानाधिकरण्ययोः । न सिद्धिर्न ह्यनीलत्वव्युदासेऽनुत्पलच्युतिः"॥ "नापि तत्रेतरस्तस्मान्न विशेष्य-विशेषणे । शब्दयोर्नापि ते स्यातामभिधेयाऽनपेक्षयोः" ॥ श्लोवा० अपो० श्लो० ११५-११६-११। तत्त्वसं. का. ९६७-९६८-९६९ पृ. ३०८। १८-स्परं व्यवच्छेदकभा-भां. मां. विना। १९ “स च वाक्य एव"-तत्त्वसं० पजि. पृ. ३०८ पं०९। २० “यथा नीलमुत्पलमिति"-तत्त्वसं० पजि. पृ. ३०८५०१०। २१ तत्त्वसं० पजि. ३०८पं० १४। शास्त्रवा० स्याद्वादक. पृ० ४०६ प्र. पं०३। २२-नीलव्यु-आ० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy