SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोर्मीमांसा । १९५ थार्थविकल्पवासनाभेदान्वयैस्तत्त्वतो 'निर्विषयैरप्यभिन्नविषयालम्बिभिभिन्नैरिव प्रत्ययैर्भिन्नेम्वर्थेषु बाह्येषु भिन्ना इवार्थात्मान इवास्वभावा अप्यपोहाः समारोप्यन्ते; ते चैवं तथा तैः समारोपिता भिन्नाः सन्तश्च प्रतिभासन्ते येन वासनाभेदाद् भेदः सद्रूपता वाऽपोहाना भविष्यति' इत्ययं परिहारो वक्तुं युक्तः, यतो न ह्यवस्तुनि वासना सम्भवति, वासनाहेतोर्निर्विपथप्रत्ययस्यायोगात्; तदभावाद् वितथार्थानां विकल्पानामसम्भवात् आलम्बनभूते वस्तुन्यसति निर्विषयज्ञानायोगेन वासनाधाय- ५ कविज्ञानाऽभावतो न वासना; ततश्च वासनाऽभावात् कुतो वासनाकृतोऽपोहानां भेदः सद्रूपता वा? अतो वाच्याभिमतापोहाभावः। ___तथा, वाचकाभिमतस्यापि तस्याभाव एव, तथापि शब्दानां भिन्नसामान्यवाचिनां विशेषवाचिनां च परस्परतो भेदो वासनाभेदनिमित्तो वा स्यात् वाच्यापोहभेदनिमित्तो वा? ननु प्रत्यक्षत एव शब्दानां कारणभेदाद विरुद्धधर्माध्यासाच्च भेदः प्रसिद्ध एवेति प्रश्नानुपपत्तिः, असदेतत् १० यतो वाचकं शब्दमगीकृत्य प्रश्नः, न च धोत्रज्ञानावसेयः स्वलक्षणात्मा शब्दो वाचकः, सङ्केतकालानुभूतस्य व्यवहारकाले चिरविनष्टत्वात् तस्य न तेन व्यवहार इति न स्वलक्षणस्य वाचकत्वं भवदभिप्रायेण, अविवादश्चात्र । यथोक्तम् "नार्थशब्दविशेषस्य वाच्यवाचकतेष्यते । तस्य पूर्वमदृष्टत्वात् सामान्यं तूपदेक्ष्यते" ॥[ ] इति। १५ तस्माद् वाचकं शब्दमधिकृत्य प्रश्नकरणाददोषः। "तत्र शब्दान्तरापोहे सामान्य परिकल्पिते । तथैवावस्तुरूपत्वाच्छब्दभेदो न कल्प्यते ॥ [श्लो० वा०अपोलो० १०४ ] यथा पूर्वोक्तेन विधिना 'संसृष्टैकत्वनानात्व'-इत्यादिना वाच्यापोहानां परस्परतो भेदो न घटते तथा शब्दापोहानामपि नीरूपत्वान्नासौ युक्तः, यथा च वाचकानां परस्परतो भेदो न सङ्गच्छते एवं २० वाच्यवाचकयोरपि मिथो भेदोऽनुपपन्नः, निःस्वभावत्वात् । न चापोह्यभेदीद् भेदो भविष्यति, 'न "विशेषः स्वतस्तस्य' इत्यादिना प्रतिविहितत्वात् । तदेवं प्रतिक्षायाः प्रतीत्यभ्युपेतबाधा व्यवस्थिता । साम्प्रतं वाच्यवाचकत्वाभावप्रसङ्गापादनादभ्युपेतवाधादिदोषं प्रतिपिपादयिषुःप्रमाणयति"ये अवस्तुनी न तयोर्गम्यगमकत्वमस्ति, यथा खपुष्प-शशशृङ्गयोः, अवस्तुनी च वाच्यवाचकापोहो १ निर्विषयैरपि भेदान्न विषयालम्बिभिन्न प्रत्ययैर्भिन्नेष्ठबाधेपु मिन्ना इवार्थात्मान-वा० बा० । २-न्नेष्वर्थेष्ववाहोषु आ० हा० वि०। ३-वा अपोहाः आ. हा. वि. कां०। ४ ते च तथा मां० । ते चैव तथा वा० वा० । ५ “न चापि वासनाभेदाद् भेदः सद्रूपताऽपि वा । अपोहानां प्रकल्प्येत न ह्यवस्तुनि वासना' ॥ श्लो. वा. अपो. लो. १००। तत्त्वसं० का. ९६० पृ० ३०५। ६-मसंभव एवात आ-भां० मा०। ७-ज्ञानयो-भा० मां। ८-नाभावोतो-वि०। ९ "तथाहि"प्रमेयक पृ० १२७ द्वि० ५० १० । १. "भवद्भिः शब्दभेदोऽपि तन्निमित्तो न लभ्यते । न ह्यसाधारणः शब्दो वाचकः प्रागदृष्टितः" ॥ श्लो० वा० अपो० लो. १०२। तत्त्वसं. का. ९६१ पृ. ३०६ । ११ श्रोतृ-आ० हा० वि०। १२ शब्दोऽवाच-भां० मां। १३-न्यं रूपदेष्यते आ० हा० वा. बा०।-न्यं रूपं नेष्यते वि० । “मामान्यं तूपदेश्यते"-तत्त्वसं० पनि० पृ. ३०६ पं० १७ । द्वादशारनय० लि. प्र. पृ० २८४ द्वि. पं० ८ आ० । “सामान्यं तूपदिश्यते"-प्रमेयक. पृ० १२८ प्र. पं०३। १४ तत्त्वसं० पजि. पृ० ३०६ पं० १६। १५-नव्याकरणा-आ०। १६ तत्त्वसं. का. ९६२ पृ. ३०६। १७ पृ. १८८ पं० २० तथा ४० । १८ "वाचकानां यथा चैवं वाच्य-वाचकयोमिथः । न चाप्यपोह्यभेदेन भेदोऽस्तीत्युपपादितम्"॥ श्लो. वा. अपो० श्लो० १०५ । तत्त्वसं० का० ९६३ पृ. ३०६ । १९-दादभेदो आ० हा० वि०। २. विशेषः स्ततस्त-मां०। २१ पृ. १८९ पं. १ तथा २२ । २२-त्यभ्युपेत्य बा-भां० मां० । २३ "न गम्यगमकत्वं स्यादवस्तुत्वादपोहयोः । भवत्पक्षे यथा लोके खपुष्प-शशशृङ्गयोः" ॥ श्लो. वा. अपो. लो. १०८ । तत्त्वसं. का० ९६४ पृ. ३०६ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy