SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ २०० प्रथमे काण्डे[अपोहपक्षे उद्दयोतकरकृतानामाक्षेपाणामुपन्यासः ] उद्दयोतकरस्त्वाह-"अपोहः शब्दार्थः इत्ययुक्तम् अव्यापकत्वात् । यत्र द्वैराश्यं भवति तेत्रे तरप्रतिषेधादितरः प्रतीयते, यथा-'गौः' इति पदाद् गौः प्रतीयमानः अगौनिषिध्यमानः, न पुनः सर्वपद एतदस्ति, न ह्यसर्व नाम किश्चिदस्ति यत् सर्वशब्देन निवर्तेत । अथ मन्यसे एकादि ५असर्व तत् सर्वशब्देन निवर्तत इति, तन्न; स्वार्थापवाददोषप्रसङ्गात् । एवं ह्येकादिव्युदासेन प्रवर्त्तमानः सर्वशब्दोऽङ्गप्रतिषेधादङ्गव्यतिरिक्तस्याङ्गिनोऽनभ्युपगमादनर्थकः स्यात् । अङ्गशब्देन ह्येकदेश उच्यते; एवं सति सर्वे समुदायशब्दा एकदेशप्रतिषेधरूपेण प्रवर्त्तमानाः समुदायिव्यतिरिक्तस्यान्यस्य समुदायस्याऽनभ्युपगमादनर्थकाः प्राप्नुवन्ति । ह्यादिशब्दानां तु समुच्चयविषयत्वादे कादिप्रतिषेधे प्रतिषिध्यमानार्थानामसमुच्चयत्वादनर्थकत्वं स्यात्" [अ० २ आ० २ सू० ६७ १०न्यायवा० पृ० ३२९ पं० १२-२३] "यश्चायमगोऽपोहोऽगौर्न भवतीति गोशब्दस्यार्थः; स किञ्चिद् भावः, अथाभावः? भावोऽपि सन् किं गौः, अथागौरिति। यदि गौः नास्ति विवादः।अथागौः, गोशब्दस्यागौरर्थ इत्यतिशब्दार्थकौशलम् । अथाभावः, तन्न युक्तम् ; प्रैष-सम्प्रतिपत्योरविषयत्वात् ; न हि शब्दश्रवणादभावे प्रैषः-प्रतिपादकेन श्रोतुरर्थे विनियोगः-प्रतिपादकधर्मः, संम्प्रतिपत्त(त्ति)श्च-'श्रोतृधर्मो-भवेत्।अपि च, १५शब्दार्थः प्रतीत्या प्रतीयते, न च गोशब्दादभावं कश्चित् प्रतिपद्यते" [न्यायवा० पृ० ३२९ पं०५-११] किञ्च, "क्रियारूपत्वादपोहस्य विषयो वक्तव्यः । तत्र 'अगौर्न भवति' इत्ययमपोहः किं गोविषयः, अथागोविषयः ? यदि गोविषयः कथं गोर्गव्येवाऽभावः ? अथागोविषयः कथमन्य विषयादपोहादन्यत्र प्रतिपत्तिः, न हि खदिरे छिद्यमाने पलाशे छिदा भवति । अथागोर्गवि प्रतिषेधो 'गौरगौन भवति' इति, केनागोत्वं प्रसक्तं यत् प्रतिषिध्यत इति" [न्यायवा० पृ० २०३२९ पं० २४-पृ० ३३० पं०४] १ "साम्प्रतं 'सर्वशब्दस्य' इत्यादिनोइयोतकरोक्तमपोहदूषणमाशङ्कते"-तत्त्वसं० पञ्जि० पृ. ३१३ पं० १३। "सर्वशब्दस्य कश्चार्थो व्यवच्छेद्यः प्रकल्प्यते । नाऽसर्व(व)नाम किञ्चिद्धि भवेद् यस्य निराक्रिया"॥ "एकाद्यसमिति चेदर्थापोहः प्रसज्यते । अङ्गानां प्रतिषिद्धत्वादनिष्टेश्चाङ्गिनः पृथक् ॥ “एवं समूहशब्दार्थे समुदायिव्यपोहतः । अन्यानिष्टेश्च सर्वेऽपि प्राप्नुवन्ति निरर्थकाः" । "द्वयादिशब्दा इहेष्टाश्च ये समुच्चयगोचराः । एकादिप्रतिषेधेन न भवेयुस्तथाविधाः" ॥ "नागौरिति च योऽपोहो गोशब्दस्यार्थ उच्यते। स किं भावोऽथवाऽभावो भावो गौर्वाऽथवाऽप्यगौः"॥ "गौश्चन्नास्ति विवादोऽयमर्थस्तु विधिलक्षणः । अगौ\शब्दवाच्यश्चेदतिशब्दार्थकौशलम्" ॥ "अभावोऽपि न युक्तोऽयं प्रैषादीनामसंभवात् । न हि गोशब्दतः कश्चिदभावं प्रतिपद्यते"॥ तत्त्वसं० का० ९८२-९८३-९८४-९८५-९८६-९८७-९८८ पृ. ३१३ । २ “तत्रेतरप्रतिषेधादितरत् प्रतीयते"-तत्त्वसं० पजि० पृ० ३१४ पं० ३। ३ “अगौनिषेध्यमानः"-तत्त्वसं. पजि० पृ. ३१४ पं० ३। ४-पर्यंत भां० मा०। ५-यत्वादाकाशा(देकदेशा)दि-वा. बा. विना । -यत्वादाकाशादिप्रतिषिध्यमाना-भां० मा० विना। ६-स्यार्थः किञ्चि (किंस्वित्) आ० हा०। ७ “स किं भावः अथाऽभावः'-न्यायवा० पृ. ३२९ पं० ६ । तत्त्वसं० पञ्जि. पृ० ३१४ पं० १२। ८ इत्यतिसंशब्दा-मा० । इत्यादिशब्दा-बा०। ९ “संप्रतिपत्तिः श्रोतृधर्मः"-तत्त्वसं. पजि. पृ.३१४ पं०१७॥ १० श्रोत्रध-भा. मा. विना । श्रौत्रध-वि०। ११ “यदि गौर्विषयः”-तत्त्वसं० पजि० पृ० ३१४ पं० २१ । १२ “नागौर्गोरिति शब्दार्थः कस्माच्चापोह इष्यते । केन ह्यगोत्वमासक्तं गा(गो)यनैतदपोत्यते" ॥ तत्त्वसं. का. ९८९ पृ. ३१४ । सावत ॥
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy