SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ १९२ प्रथमे काण्डे स्खलक्षणस्यावाच्यत्वात् तत्पक्षभाविदोषप्रसङ्गाच्च । न च स्खलक्षणस्यान्यनिवृत्त्या विशिष्टत्वं सा(सि) ध्यति यतो न वस्त्वपोहः, असाधारणं तु वस्तु। न च वस्त्ववस्तुनोः सम्बन्धो युक्तः, वस्तुद्वयाधारत्वात् तस्य। भवतु वा सम्बन्धस्तथापि विशेषणत्वमपोहस्यायुक्तम् ; न हि सत्तामात्रेणोत्पलादीनां नीलादि ५विशेषणं भवति, किं तर्हि ? ज्ञातं सद् यत् स्वाकारानुरक्तया बुद्ध्या विशेष्यं रञ्जयति तद् विशेषणम्, न चापोहेऽयं प्रकारः सम्भवति, ने ह्यश्वादिबुद्ध्याऽपो होऽध्यवसीयते, किं तर्हि ? वस्त्वेव, अतोऽपो. हस्य बोधासम्भवाद् न तेन स्वबुद्ध्या रज्यतेऽश्वादि । न चाक्षातोऽप्यपोहो विशेषणं भवति, न ह्यगृहीतविशेषणा विशेष्ये बुद्धिरुपजायमाना दृष्टाः भवतु वाऽपोहज्ञानम् तथापि वस्तुनि तदाकारबुद्ध्यभावात् तस्य तद्विशेषणत्वमयुक्तम् , सर्वमेव हि विशेषणं स्वाकारानुरूपां विशेष्ये बुद्धिं जनयद् १० दृष्टम् , न त्वन्यादृशं विशेषणमन्यादृशीं बुद्धिं विशेष्ये जनयति; न हि नीलमुत्पले 'रक्तम्' इति प्रत्ययमुत्पादयति, दण्डो वा 'कुण्डली' इति; न चात्राश्वादिष्वभावानुरक्ता शाब्दी बुद्धिरुपजायते, किं तर्हि ? भावाकाराध्यवसायिनी । यदि पुनर्विशेषणाननुरूपतयाऽन्यथा व्यवस्थितेऽपि विशेष्ये साध्वी विशेषणकल्पना तथासति सर्वमेव नीलादि सर्वस्य विशेषणमित्यव्यवस्था स्यात् । नौप्यपो. हेनापि स्वबुद्ध्या विशेष्यं वस्त्वनुरज्यते इति वक्तव्यम्, तथाऽभ्युपगमे अभावरूपेण वस्तुनः प्रतीते. १५वस्तुत्वमेव न स्यात् भावाभावयोर्विरोधात् । एतदेवाह "न चासाधारणं वस्तु गम्यतेऽपोहवत्तयाँ । कथं वा परिकल्प्येत सम्बन्धो वस्त्ववस्तुनोः ॥" "स्वरूपसत्त्वमात्रेण न स्यात् किञ्चिद् विशेषणम् । स्वबुद्ध्या रज्यते येन विशेष्यं तद् विशेषणम् ॥” "न चाप्यश्वादिशब्देभ्यो जायतेऽपोहबोधनम् । विशेष्यबुद्धिरिष्टेह न चाज्ञातविशेषणा॥" "न चान्यरूपमन्यादृक् कुर्याज् ज्ञानं विशेषणम् । कथं चान्यादृशे ज्ञाने तदुच्येत विशेषणम् ॥" १ " न चासाधारणं वस्तु गम्यतेऽपोहवत्तया। कथं वा परिकल्प्येत संबन्यो वस्त्ववस्तुनोः'। श्लो० वा० अपो० श्लो. ८६। तत्त्वसं० का० ९४६ पृ० ३०१ । २ “सिध्यति"-तत्त्वसं० पञ्जि. पृ० ३०१ पं० १६। ३ "स्वरूपसत्त्वमात्रेण न च किञ्चिद् विशेषणम् । खवुद्धया रज्यते येन विशेष्यं तद् विशेषणम्" ॥ श्लो० वा. अपो० श्लो. ८७ । तत्त्वसं. का. ९४७ पृ. ३०१ । ४ रक्तबु-वि० गु०। ५ “न चाप्यश्वादिशब्देभ्यो जायतेऽपोहबोधनम् । विशेष्यबुद्धिरिष्टेह न चाऽज्ञातविशेषगा"। श्लो. वा० अपो० श्लो० ८८ । तत्त्वसं का० ९४८ पृ. ३०१ । ६-हो व्यव-वा० बा। ७ "न चान्यरूपमन्यादृक् कुर्याज् ज्ञानं विशेषणम् । कथं चाऽन्यादृशे ज्ञाते तदुच्येत विशेषणम्"। श्लो० वा. अपो० श्लो० ८९ । तत्त्वसं० का० ९४९ पृ. ३०२ । ८ "खाकारानुरूपं विशेष्ये"-तत्त्वसं० पजि. पृ० ३०२५०९। ९-भावात् रक्ता वि. विना । १. “अथाऽन्यथा विशेष्येऽपि स्याद् विशेषणकल्पना । तथासति हि यत् किञ्चित् प्रसज्येत विशेषणम्"॥ श्लो० वा. अपो० श्लो. ९.। तत्त्वसं० का० ९५० पृ. ३०२ । ११-णानुरूप-वा० बा०। १२ “अभावरूपगम्ये च न विशेष्येऽस्ति वस्तुता। विशेषितमपोहेन वस्तु वाच्यं न तेऽस्त्यतः॥ श्लो० वा. अपो. श्लो. ९१ । तत्त्वसं. का. ९५१ पृ. ३०२ । १३ इतः श्लोकषट्कमेतत् प्रमेयक• पृ० १२७ प्र. पं० १० । शास्त्रवा० स्याद्वादक. पृ० ४०४ प्र.पं०४-९ । १४ अनुक्रमेण तत्त्वसं. का. ९४६-९४७-९४८-९४९-९५०-९५१ पृ. ३०१-३०२। १५ कथं वान्या-वा. बा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy