________________
शब्दार्थ - तत्संबन्धयोर्मीमांसा ।
"अथान्यथा विशेष्येऽपि स्याद् विशेषणकल्पना । तथासति हि यत् किञ्चित् प्रसज्येत विशेषणम्" ॥ "अभावगम्यरूपे च न विशेष्येऽस्ति वस्तुता । विशेषितमपोहेन वस्तु वाच्यं न तेऽस्त्यतः " ॥
[लो० वा० अपो० लो० ८६-८७-८८-८९-९०-९१] इति । अथान्यव्यावृत्ते एव वस्तुनि शब्द - लिङ्गयोः प्रवृत्तिर्दृश्यते नापोहरहिते अतोऽपोहः शब्द-लिङ्गाभ्यां प्रतिपाद्यत इत्यभिधीयते न प्रसज्यप्रतिषेधमात्रप्रतिपादनात् अत एव न प्रतीत्यादिविरोधोद्भावनं युक्तम्, असदेतत्; येतो यदि नाम तद् वस्त्वन्यतो व्यावृत्तं तथापि तत्रोत्पद्यमानः शब्द- लिङ्गोद्भवो बोधोऽन्यव्यावृत्तिं सतीमपि नावलम्बते, किं तर्हि ? वस्त्वंशमेवाभिधावति, तत्रैवानुरागात् । य एंव चांशो वस्तुनः शाब्देन लैङ्गिकेन वा प्रत्ययेनावसीयते स एव तस्य विषयः १० नानवसीयमानः सन्नपि न हि मालतीशब्दस्य गन्धादयो विद्यमानतया वाच्या व्यवस्थाप्यन्ते । न चाप्येतदु (युक्तम् यद् अन्यव्यावृत्ते वस्तुनि शब्द- लिङ्गयोः प्रवृत्तिः यतोऽन्यव्यावृत्तं वस्तु भवतां मतेन स्वलक्षणमेव भवेत् न च तत् शब्द- लिङ्गजायां बुद्धौ विपरिवर्त्तत इति, तस्य निर्विकल्पक बुद्धिविषयत्वात् भवदभिप्रायेण शब्द- लिङ्गजबुद्वेश्च सामान्यविषयत्वात् । न चासाधारणं वस्तु शाब्दलिङ्गजप्रत्ययाधिगम्यम्, तत्र विकल्पानां प्रत्यस्तमयात् । तथाहि - विकल्पो जात्यादिविशेषणसं १५ स्पर्शेनैव प्रवर्त्तते ने शुद्धवस्तूपग्रहणे, न च शब्देनागम्यमानमप्यसाधारणं वस्तु व्यावृत्त्या विशिष्टमित्यभिधातुं शक्यम् । यतः -
" शब्देनागम्यमानं च विशेष्यमिति साहसम् ।
तेन सामान्यमेष्टव्यं विषयो बुद्धि-शब्दयोः " ॥ [ श्लो० वा० अपो० श्लो० ९४] इतश्च सामान्यं वस्तुभूतं शब्दविषयः यँतो व्यक्तीनामसाधारणवस्तुरूपाणामवाच्यत्वान्ना- २० पोह्यता अनुक्तस्य निराकर्तुमशक्यत्वात्, अपोह्येत सामान्यम् तस्य वाच्यत्वात् अपोहानां त्वभावरूपतयाऽपोह्यत्वासम्भवात् तत्त्वे वा वस्तुत्वमेव स्यात् तथाहि यद्यपोहानामपोह्यत्वं भवेत् तदैषामभावरूपत्वं विप्रतिषिद्धं भवेत् प्रतिषेधे च सति अभावैरभावरूपत्वं त्यक्तं स्यात्; ततश्चाभावानामपोहलक्षणानामभावरूपत्यागाद् वस्तुत्वमेव भवेत्, तच्च न शब्दविषयः - यद्वाऽभावानामभावाभावत् न ह्यभावस्वभावा अपोहा अपोह्या युज्यन्ते, वस्तुविषयत्वात् प्रतिषेधस्य; २५ तस्मादश्वादौ गवादेरपोहो भवन् सामान्यस्यैवेति निश्चीयत इति सिद्धमपोह्यत्वाद् वस्तुत्वं सामा न्यस्य । तदुक्तम्
१ " यद्यप्यपोहनिर्मुक्ते न वृत्तिः शब्द- लिङ्गयोः । युक्ता तथापि बुद्धिस्तु ज्ञातुर्वस्त्ववलम्बते” ॥
२ एवांशो वा० वा० भ० मां० विना । पृ० ३०३ पं० ११ । वि० प्रतौ तथैव सं० ।
४ " न चासाधारणं वस्तु बुद्धौ विपरिवर्तते
१९३
श्लो० वा० अपो० श्लो० ९२ । तत्त्वसं० का ० ९५२ पृ० ३०.३ । ३- न वाप्ये भां० म० । “ न चाप्येतद्युक्तम् " - तत्त्वसं० पजि०
। न चापि निर्विकल्पत्वात् तस्य युक्ता विशेष्यता” ॥ श्लो० वा० अपो० श्लो० ९३ । तत्त्वसं० का० ९५३ पृ० ३०३ । ५ न शुद्धवस्तुरूप - वि० । “ न च शुद्धवस्तुपरिग्रहेण " - तत्त्वसं० पञ्जि० पृ० ३०३ पं० २० ।
६ तत्त्वसं ०
का० ९५४ पृ० ३०३ ।
७ " यदा चाऽशब्दवाच्यत्वान्न व्यक्तीनामपोह्यता । तदाऽपोह्येत सामान्यं तस्यापोहाच्च वस्तुता" ॥ श्लो० वा० अपो० श्लो० ९५ । तत्वसं० का ० ९५५ पृ० ३०३ । ८- त्वान्नपोह्यतां अनु- भ० मां० । त्वान्नापोह्येत अनु-आ०।- त्वान्नापोह्येता अनु - वि० व्यक्तीनामसाधारणवस्तुरूपाणामशब्दवाच्यत्वान्न व्यक्तीनामपोह्येत अनु- " प्रमेयक० पृ० १२७ द्वि० पं० ४ ।
गु० । “यतो
९- भावतयाऽ-भां० मां० वा० बा० विना ।
३०४ ।
१० “ नाऽपोह्यत्वमभावानामभावाभाववर्जनात् । व्यक्तोऽपोहान्तरेऽपोहस्तस्मात् सामान्यवस्तुनः” ॥ श्लो० वा० अपो० श्लो० ९६ । तत्त्वसं० का० ९५६ पृ० ११- प्रतिषेधेन स - वा० बा० । १२- त्यागे व भां०] मां० । १३ नापोह्यत्वमिति शेषः । पोहा - वा० वा० । १५- दन्यादौ वा० वा० । १६ भवेत् भ० मां० वा० वा० विना । १७ - न्यमैवेति आ० कां० ॥
१४- भावाऽ
स० त० २५