SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ - तत्संबन्धयोर्मीमांसा । सम्बन्धानुभवक्षणेऽश्वादेस्तद्विषयत्वेनाइटेरिति चेत्, असदेतत् यतो यदि यद् गोशब्दसङ्केताले उपलब्धं ततोऽन्यत्र गोशब्दप्रवृत्तिनेष्यते तदैकस्मात् सङ्केतेन विपयीकृताच्छाबलेयादिकाद् गोपि - ण्डादन्यद् बाहुलेयादि गोशब्देनापोह्यं भवेत्, ततश्च सामान्यं वाच्यमित्येतन्न सिद्ध्येत् । इतरेतराश्रयदोषप्रसक्तेश्चापोहे सङ्केतोऽशक्यक्रियः । तथाहिं अंगोव्यवच्छेदेन गोः प्रतिपत्तिः, स चागौनिषेधात्मा; ततश्च 'अगौः' इत्यत्रोत्तरपदार्थो वक्तव्यः यो 'न गौरगौः' इत्यत्र नञा प्रतिषिध्येत, न ५ नितस्वरूपस्य निषेधः शक्यते विधातुम् । अथापि स्यात् किमत्र वक्तव्यम् - अंगोनिवृत्यात्मा गौः, नन्वेवमगो निवृत्तिस्वभावत्वाद् गोरगोप्रतिपत्तिद्वारेणैव प्रतीतिः, अगोश्च गोप्रतिषेधात्मकत्वाद् गोप्रतिपत्तिद्वारिकैव प्रतीतिरिति स्फुटमितरेतराश्रयत्वम् । अथाप्यगोशब्देन यो गौर्निषिध्यते स विधिरूप एव अंगोव्यवच्छेदमल ( दल) क्षणापोहसिद्ध्यर्थम् तेनेतरेतराश्रयत्वं न भविष्यति । यद्येवं 'सर्वस्य शब्दस्यापोहार्थः' इत्येवमपोहकल्पना वृधा, १० विधिरूपस्यापि शब्दार्थस्य भावात् । अतः ( अतो न ) कश्चिद् विधिरूपः शब्दार्थः प्रसिद्धोऽङ्गीकर्तव्यः; तदनङ्गीकरणे चेतरेतराश्रयदोषो दुर्निवारः । तदुक्तम् १९१ "सिद्धश्चागौर पोह्येत गोनिषेधात्मकश्च सः । तत्र गौरेव वक्तव्यो नञा यः प्रतिषिध्यते” ॥ " स चेदगोनिवृत्त्यात्मा भवेदन्योऽन्यसंश्रयः । सिद्धश्चेद् गौर पोहार्थं वृथाऽपोह प्रकल्पनम् ” ॥ "गव्यसिद्धे त्वगौर्नास्ति तदभावेऽपि गौः कुतैः । " [ श्लो० वा० अपो० लो० ८३-८४-८५ ] इति । "नीलोत्पलादिशब्दा अर्थान्तर निवृत्तिविशिष्टानर्थानाहुः” [ दिग्नागेन "विशेष्यविशेषणभावसमर्थनार्थ यदुक्तं तदयुक्तमिति दर्शयन्नाह भट्टः ] इत्याचा "नाधाराधेयवृत्त्यादिसम्बन्धश्चाप्यभावयोः " ॥ [ श्लो० वा० अपो० श्लो० ८५] यस्य हि येन सह कश्चिद् वास्तवः सम्बन्धः सिद्धो भवेत् तत् तेन विशिष्टमिति युक्तं वक्तुम् । न च नीलोत्पलयोरनीलानुत्पलव्यवच्छेद रूपत्वे नाभावरूपयोराधा राधेयादिः सम्बन्धः सम्भवति, "नीरूपत्वात् । श्रदिग्रहणेन संयोगसमवायैकार्थसमवायादिसम्बन्धग्रहणम् । न चासति वास्तवे सम्बन्धे तद्विशिष्टय प्रतिपत्तिर्युक्ता, अतिप्रसङ्गात् । अथापि स्यात् नैवास्माकमनीलादिव्यावृत्त्या २५ विशिष्टोऽनुत्पलादिव्यवच्छेदोऽभिमतः यतोऽयं दोषः स्यात्ः किं तर्हि ? अनीलानुत्पलाभ्यां व्यावृत्तं वस्त्वेव तथाव्यवस्थितं तदर्थान्तरनिवृत्त्या विशिष्टं शब्देनोच्यत इत्ययमर्थोऽत्राभिप्रेतः, असदेतत्; १ " एकस्मात् तर्हि गोपिण्डाद् यदन्यत् सर्वमेव तत् । भवेदपोह्यमित्येवं न सामान्यस्य वाच्यता" ॥ श्लो० वा० अपो० लो० ८२ । तत्त्वसं० का० ९४२ पृ० ३०० । २- हि अगोशब्देन छेदेन गोः वा० वा० । ३ “सिद्धश्चाऽगौरपोह्येत गोनिषेधात्मकश्च सः । तत्र गौरेव वक्तव्यो नजा यः प्रतिषिध्यते” ॥ श्लो० वा० अपो० लो० ८३ । तत्त्वसं० का० ९४३ पृ० ३०० । ४ " स चेदगोनिवृत्त्यात्मा भवेदन्योन्यसंश्रयः । सिद्धश्चेद् गौरपोह्यार्थ वृथाऽपोहप्रकल्पना" ॥ श्लो० वा० अपो० लो० ८४ | तत्त्वसं० का० ९४४ पृ० ३०० । ६ 'अगोव्यवच्छेदलक्षणापोह' - वि०सं० । “अ२२ । ७ "ययेवं सर्वस्य शब्दस्यापोहोऽर्थ इत्येवम ५ " गौर्निषेध्यते " - तत्त्वसं० पञ्जि० पृ० ३०० पं० २१ । गोव्यवच्छेदलक्षणापोहसिद्ध्यर्थम् " - तत्त्वसं० पञ्जि० पृ० ३०० पं० पोहकल्पनं वृथा”-तत्त्वसं॰ पञ्जि० पृ० ३०० पं० २३ । प्रमेयक० पृ० वा० बा० गु० भा० विना । ९ " भावात् तस्मान्न कश्चिद् विधिरूपः १० तत्त्वसं० का ० ९४३ पृ० ३०० । ११ तत्त्वसं ० का ० ९४४ पृ० पृ० १२६ द्वि० पं० ११ । शास्त्रवा० स्याद्वादक० पृ० ४०३ द्वि० पं० १४ तत्त्वसं० प० पृ० ३०१ पं० २ । प्रमेयक० पृ० १२६ द्वि० पं० ११ । शास्त्रत्रा ० स्याद्वादक० पृ० ४०३ द्वि० पं० ११ । १५ विशिष्यवि - भां० म० । १६ तत्त्वसं ० का ० ९४५ पृ० ३००। १७ नीलरूपत्वात् वा० बा० विना० । १० प्र० पृ० पं० २१ । १९ तदार्था - वा० वा० । “ तच्चार्थान्तरव्यावृत्त्या " - प्रमेयक० पृ० १२७ प्र० पं० ३ | शास्त्रवा० स्याद्वादक० पृ० ४०३ द्वि० पं० १३ । १२६ द्वि० पं० ८-९ । ८-हार्थमित्येवशब्दार्थः " - तत्त्वसं० पजि० पृ० ३०० पं० २४ । ३०० । १२ तदभावेऽप्यगौः कुत. " - प्रमेयक० १० । १३ तत्त्वसं० का० ९४५ पृ० ३०० । १५ २०
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy